Mahabharata - Stree Parva (महाभारत - स्त्रीपर्वम्)
11.023
Pancharatra and Core: Gandhari mourns the death of Śalya, Bhagadatta, Bhishma, and Droṇa.
गान्धार्युवाच॥
एष शल्यो हतः शेते साक्षान्नकुलमातुलः। धर्मज्ञेन सता तात धर्मराजेन संयुगे ॥११-२३-१॥
यस्त्वया स्पर्धते नित्यं सर्वत्र पुरुषर्षभ। स एष निहतः शेते मद्रराजो महारथः ॥११-२३-२॥
येन सङ्गृह्णता तात रथमाधिरथेर्युधि। जयार्थं पाण्डुपुत्राणां तथा तेजोवधः कृतः ॥११-२३-३॥
अहो धिक्पश्य शल्यस्य पूर्णचन्द्रसुदर्शनम्। मुखं पद्मपलाशाक्षं वडैरादष्टमव्रणम् ॥११-२३-४॥
एषा चामीकराभस्य तप्तकाञ्चनसप्रभा। आस्याद्विनिःसृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः ॥११-२३-५॥
युधिष्ठिरेण निहतं शल्यं समितिशोभनम्। रुदन्त्यः पर्युपासन्ते मद्रराजकुलस्त्रियः ॥११-२३-६॥
एताः सुसूक्ष्मवसना मद्रराजं नरर्षभम्। क्रोशन्त्यभिसमासाद्य क्षत्रियाः क्षत्रियर्षभम् ॥११-२३-७॥
शल्यं निपतितं नार्यः परिवार्याभितः स्थिताः। वाशिता गृष्टयः पङ्के परिमग्नमिवर्षभम् ॥११-२३-८॥
शल्यं शरणदं शूरं पश्यैनं रथसत्तमम्। शयानं वीरशयने शरैर्विशकलीकृतम् ॥११-२३-९॥
एष शैलालयो राजा भगदत्तः प्रतापवान्। गजाङ्कुशधरः श्रेष्ठः शेते भुवि निपातितः ॥११-२३-१०॥
यस्य रुक्ममयी माला शिरस्येषा विराजते। श्वापदैर्भक्ष्यमाणस्य शोभयन्तीव मूर्धजान् ॥११-२३-११॥
एतेन किल पार्थस्य युद्धमासीत्सुदारुणम्। लोमहर्षणमत्युग्रं शक्रस्य बलिना यथा ॥११-२३-१२॥
योधयित्वा महाबाहुरेष पार्थं धनञ्जयम्। संशयं गमयित्वा च कुन्तीपुत्रेण पातितः ॥११-२३-१३॥
यस्य नास्ति समो लोके शौर्ये वीर्ये च कश्चन। स एष निहतः शेते भीष्मो भीष्मकृदाहवे ॥११-२३-१४॥
पश्य शान्तनवं कृष्ण शयानं सूर्यवर्चसम्। युगान्त इव कालेन पातितं सूर्यमम्बरात् ॥११-२३-१५॥
एष तप्त्वा रणे शत्रूञ्शस्त्रतापेन वीर्यवान्। नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव ॥११-२३-१६॥
शरतल्पगतं वीरं धर्मे देवापिना समम्। शयानं वीरशयने पश्य शूरनिषेविते ॥११-२३-१७॥
कर्णिनालीकनाराचैरास्तीर्य शयनोत्तमम्। आविश्य शेते भगवान्स्कन्दः शरवणं यथा ॥११-२३-१८॥
अतूलपूर्णं गाङ्गेयस्त्रिभिर्बाणैः समन्वितम्। उपधायोपधानाग्र्यं दत्तं गाण्डीवधन्वना ॥११-२३-१९॥
पालयानः पितुः शास्त्रमूर्ध्वरेता महायशाः। एष शान्तनवः शेते माधवाप्रतिमो युधि ॥११-२३-२०॥
धर्मात्मा तात धर्मज्ञः पारम्पर्येण निर्णये। अमर्त्य इव मर्त्यः सन्नेष प्राणानधारयत् ॥११-२३-२१॥
नास्ति युद्धे कृती कश्चिन्न विद्वान्न पराक्रमी। यत्र शान्तनवो भीष्मः शेतेऽद्य निहतः परैः ॥११-२३-२२॥
स्वयमेतेन शूरेण पृच्छ्यमानेन पाण्डवैः। धर्मज्ञेनाहवे मृत्युराख्यातः सत्यवादिना ॥११-२३-२३॥
प्रनष्टः कुरुवंशश्च पुनर्येन समुद्धृतः। स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम् ॥११-२३-२४॥
धर्मेषु कुरवः कं नु परिप्रक्ष्यन्ति माधव। गते देवव्रते स्वर्गं देवकल्पे नरर्षभे ॥११-२३-२५॥
अर्जुनस्य विनेतारमाचार्यं सात्यकेस्तथा। तं पश्य पतितं द्रोणं कुरूणां गुरुसत्तमम् ॥११-२३-२६॥
अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः। भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव ॥११-२३-२७॥
यस्य प्रसादाद्बीभत्सुः पाण्डवः कर्म दुष्करम्। चकार स हतः शेते नैनमस्त्राण्यपालयन् ॥११-२३-२८॥
यं पुरोधाय कुरव आह्वयन्ति स्म पाण्डवान्। सोऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रैः पृथक्कृतः ॥११-२३-२९॥
यस्य निर्दहतः सेनां गतिरग्नेरिवाभवत्। स भूमौ निहतः शेते शान्तार्चिरिव पावकः ॥११-२३-३०॥
धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव। द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा ॥११-२३-३१॥
वेदाः यस्मात् च चत्वारः सर्वास्त्राणि च केशव। अनपेतानि वै शूरात् यथा एव आदौ प्रजापतेः ॥११-२३-३२॥
वन्दनार्हाविमौ तस्य बन्दिभिर्वन्दितौ शुभौ। गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ ॥११-२३-३३॥
द्रोणं द्रुपदपुत्रेण निहतं मधुसूदन। कृपी कृपणमन्वास्ते दुःखोपहतचेतना ॥११-२३-३४॥
तां पश्य रुदतीमार्तां मुक्तकेशीमधोमुखीम्। हतं पतिमुपासन्तीं द्रोणं शस्त्रभृतां वरम् ॥११-२३-३५॥
बाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव। उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी ॥११-२३-३६॥
प्रेतकृत्ये च यतते कृपी कृपणमातुरा। हतस्य समरे भर्तुः सुकुमारी यशस्विनी ॥११-२३-३७॥
अग्नीनाहृत्य विधिवच्चितां प्रज्वाल्य सर्वशः। द्रोणमाधाय गायन्ति त्रीणि सामानि सामगाः ॥११-२३-३८॥
किरन्ति च चितामेते जटिला ब्रह्मचारिणः। धनुर्भिः शक्तिभिश्चैव रथनीडैश्च माधव ॥११-२३-३९॥
शस्त्रैश्च विविधैरन्यैर्धक्ष्यन्ते भूरितेजसम्। त एते द्रोणमाधाय शंसन्ति च रुदन्ति च ॥११-२३-४०॥
सामभिस्त्रिभिरन्तःस्थैरनुशंसन्ति चापरे। अग्नावग्निमिवाधाय द्रोणं हुत्वा हुताशने ॥११-२३-४१॥
गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातयः। अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं तदा ॥११-२३-४२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.