Mahabharata - Stree Parva (महाभारत - स्त्रीपर्वम्)
11.022
Pancharatra and Core: Gandhari feels miserable seeing the misery of the wives of the slain warriors, especially her daughter Dushyala and daughter-in-laws.
गान्धार्युवाच॥
आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम्। गृध्रगोमायवः शूरं बहुबन्धुमबन्धुवत् ॥११-२२-१॥
तं पश्य कदनं कृत्वा शत्रूणां मधुसूदन। शयानं वीरशयने रुधिरेण समुक्षितम् ॥११-२२-२॥
तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः। तेन तेन विकर्षन्ति पश्य कालस्य पर्ययम् ॥११-२२-३॥
शयानं वीरशयने वीरमाक्रन्दसारिणम्। आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते ॥११-२२-४॥
प्रातिपीयं महेष्वासं हतं भल्लेन बाह्लिकम्। प्रसुप्तमिव शार्दूलं पश्य कृष्ण मनस्विनम् ॥११-२२-५॥
अतीव मुखवर्णोऽस्य निहतस्यापि शोभते। सोमस्येवाभिपूर्णस्य पौर्णमास्यां समुद्यतः ॥११-२२-६॥
पुत्रशोकाभितप्तेन प्रतिज्ञां परिरक्षता। पाकशासनिना सङ्ख्ये वार्द्धक्षत्रिर्निपातितः ॥११-२२-७॥
एकादश चमूर्जित्वा रक्ष्यमाणं महात्मना। सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम् ॥११-२२-८॥
सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम्। भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम् ॥११-२२-९॥
संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत। भषन्तो व्यपकर्षन्ति गहनं निम्नमन्तिकात् ॥११-२२-१०॥
तमेताः पर्युपासन्ते रक्षमाणा महाभुजम्। सिन्धुसौवीरगान्धारकाम्बोजयवनस्त्रियः ॥११-२२-११॥
यदा कृष्णामुपादाय प्राद्रवत्केकयैः सह। तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः ॥११-२२-१२॥
दुःशलां मानयद्भिस्तु यदा मुक्तो जयद्रथः। कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः ॥११-२२-१३॥
सैषा मम सुता बाला विलपन्ती सुदुःखिता। प्रमापयति चात्मानमाक्रोशति च पाण्डवान् ॥११-२२-१४॥
किं नु दुःखतरं कृष्ण परं मम भविष्यति। यत्सुता विधवा बाला स्नुषाश्च निहतेश्वराः ॥११-२२-१५॥
अहो धिग्दुःशलां पश्य वीतशोकभयामिव। शिरो भर्तुरनासाद्य धावमानामितस्ततः ॥११-२२-१६॥
वारयामास यः सर्वान्पाण्डवान्पुत्रगृद्धिनः। स हत्वा विपुलाः सेनाः स्वयं मृत्युवशं गतः ॥११-२२-१७॥
तं मत्तमिव मातङ्गं वीरं परमदुर्जयम्। परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः ॥११-२२-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.