Mahabharata - Stree Parva (महाभारत - स्त्रीपर्वम्)
11.024
Pancharatra and Core: Gandhari laments the death of Bhurishravas and brother Śakuni.
गान्धार्युवाच॥
सोमदत्तसुतं पश्य युयुधानेन पातितम्। वितुद्यमानं विहगैर्बहुभिर्माधवान्तिके ॥११-२४-१॥
पुत्रशोकाभिसन्तप्तः सोमदत्तो जनार्दन। युयुधानं महेष्वासं गर्हयन्निव दृश्यते ॥११-२४-२॥
असौ तु भूरिश्रवसो माता शोकपरिप्लुता। आश्वासयति भर्तारं सोमदत्तमनिन्दिता ॥११-२४-३॥
दिष्ट्या नेदं महाराज दारुणं भरतक्षयम्। कुरुसङ्क्रन्दनं घोरं युगान्तमनुपश्यसि ॥
दिष्ट्या यूपध्वजं वीरं पुत्रं भूरिसहस्रदम्। अनेकक्रतुयज्वानं निहतं नाद्य पश्यसि ॥११-२४-५॥
दिष्ट्या स्नुषाणामाक्रन्दे घोरं विलपितं बहु। न शृणोषि महाराज सारसीनामिवार्णवे ॥११-२४-६॥
एकवस्त्रानुसंवीताः प्रकीर्णासितमूर्धजाः। स्नुषास्ते परिधावन्ति हतापत्या हतेश्वराः ॥११-२४-७॥
श्वापदैर्भक्ष्यमाणं त्वमहो दिष्ट्या न पश्यसि। छिन्नबाहुं नरव्याघ्रमर्जुनेन निपातितम् ॥११-२४-८॥
शलं विनिहतं सङ्ख्ये भूरिश्रवसमेव च। स्नुषाश्च विधवाः सर्वा दिष्ट्या नाद्येह पश्यसि ॥११-२४-९॥
दिष्ट्या तत्काञ्चनं छत्रं यूपकेतोर्महात्मनः। विनिकीर्णं रथोपस्थे सौमदत्तेर्न पश्यसि ॥११-२४-१०॥
अमूस्तु भूरिश्रवसो भार्याः सात्यकिना हतम्। परिवार्यानुशोचन्ति भर्तारमसितेक्षणाः ॥११-२४-११॥
एता विलप्य बहुलं भर्तृशोकेन कर्शिताः। पतन्त्यभिमुखा भूमौ कृपणं बत केशव ॥११-२४-१२॥
बीभत्सुरतिबीभत्सं कर्मेदमकरोत्कथम्। प्रमत्तस्य यदच्छैत्सीद्बाहुं शूरस्य यज्वनः ॥११-२४-१३॥
ततः पापतरं कर्म कृतवानपि सात्यकिः। यस्मात्प्रायोपविष्टस्य प्राहार्षीत्संशितात्मनः ॥११-२४-१४॥
एको द्वाभ्यां हतः शेषे त्वमधर्मेण धार्मिकः। इति यूपध्वजस्यैताः स्त्रियः क्रोशन्ति माधव ॥११-२४-१५॥
भार्या यूपध्वजस्यैषा करसंमितमध्यमा। कृत्वोत्सङ्गे भुजं भर्तुः कृपणं पर्यदेवयत् ॥११-२४-१६॥
अयं स रशनोत्कर्षी पीनस्तनविमर्दनः। नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥११-२४-१७॥
वासुदेवस्य सांनिध्ये पार्थेनाक्लिष्टकर्मणा। युध्यतः समरेऽन्येन प्रमत्तस्य निपातितः ॥११-२४-१८॥
किं नु वक्ष्यसि संसत्सु कथासु च जनार्दन। अर्जुनस्य महत्कर्म स्वयं वा स किरीटवान् ॥११-२४-१९॥
इत्येवं गर्हयित्वैषा तूष्णीमास्ते वराङ्गना। तामेतामनुशोचन्ति सपत्न्यः स्वामिव स्नुषाम् ॥११-२४-२०॥
गान्धारराजः शकुनिर्बलवान्सत्यविक्रमः। निहतः सहदेवेन भागिनेयेन मातुलः ॥११-२४-२१॥
यः पुरा हेमदण्डाभ्यां व्यजनाभ्यां स्म वीज्यते। स एष पक्षिभिः पक्षैः शयान उपवीज्यते ॥११-२४-२२॥
यः स्म रूपाणि कुरुते शतशोऽथ सहस्रशः। तस्य मायाविनो माया दग्धाः पाण्डवतेजसा ॥११-२४-२३॥
मायया निकृतिप्रज्ञो जितवान्यो युधिष्ठिरम्। सभायां विपुलं राज्यं स पुनर्जीवितं जितः ॥११-२४-२४॥
शकुन्ताः शकुनिं कृष्ण समन्तात्पर्युपासते। कितवं मम पुत्राणां विनाशायोपशिक्षितम् ॥११-२४-२५॥
एतेनैतन्महद्वैरं प्रसक्तं पाण्डवैः सह। वधाय मम पुत्राणामात्मनः सगणस्य च ॥११-२४-२६॥
यथैव मम पुत्राणां लोकाः शस्त्रजिताः प्रभो। एवमस्यापि दुर्बुद्धेर्लोकाः शस्त्रेण वै जिताः ॥११-२४-२७॥
कथं च नायं तत्रापि पुत्रान्मे भ्रातृभिः सह। विरोधयेदृजुप्रज्ञाननृजुर्मधुसूदन ॥११-२४-२८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.