Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.001
Pancharatra-Ext: Yudhishthira mourns Karna's loss and enquires about his fate.
वैशम्पायन उवाच॥
कृतोदकास्ते सुहृदां सर्वेषां पाण्डुनन्दनाः। विदुरो धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः ॥१२-१-१॥
तत्र ते सुमहात्मानो न्यवसन्कुरुनन्दनाः। शौचं निवर्तयिष्यन्तो मासमेकं बहिः पुरात् ॥१२-१-२॥
कृतोदकं तु राजानं धर्मात्मानं युधिष्ठिरम्। अभिजग्मुर्महात्मानः सिद्धा ब्रह्मर्षिसत्तमाः ॥१२-१-३॥
द्वैपायनो नारदश्च देवलश्च महानृषिः। देवस्थानश्च कण्वश्च तेषां शिष्याश्च सत्तमाः ॥१२-१-४॥
अन्ये च वेदविद्वांसः कृतप्रज्ञा द्विजातयः। गृहस्थाः स्नातकाः सर्वे ददृशुः कुरुसत्तमम् ॥१२-१-५॥
अभिगम्य महात्मानः पूजिताश्च यथाविधि। आसनेषु महार्हेषु विविशुस्ते महर्षयः ॥१२-१-६॥
प्रतिगृह्य ततः पूजां तत्कालसदृशीं तदा। पर्युपासन्यथान्यायं परिवार्य युधिष्ठिरम् ॥१२-१-७॥
पुण्ये भागीरथीतीरे शोकव्याकुलचेतसम्। आश्वासयन्तो राजानं विप्राः शतसहस्रशः ॥१२-१-८॥
नारदस्त्वब्रवीत्काले धर्मात्मानं युधिष्ठिरम्। विचार्य मुनिभिः सार्धं तत्कालसदृशं वचः ॥१२-१-९॥
भवतो बाहुवीर्येण प्रसादान्माधवस्य च। जितेयमवनिः कृत्स्ना धर्मेण च युधिष्ठिर ॥१२-१-१०॥
दिष्ट्या मुक्ताः स्थ सङ्ग्रामादस्माल्लोकभयङ्करात्। क्षत्रधर्मरतश्चापि कच्चिन्मोदसि पाण्डव ॥१२-१-११॥
कच्चिच्च निहतामित्रः प्रीणासि सुहृदो नृप। कच्चिच्छ्रियमिमां प्राप्य न त्वां शोकः प्रबाधते ॥१२-१-१२॥
युधिष्ठिर उवाच॥
विजितेयं मही कृत्स्ना कृष्णबाहुबलाश्रयात्। ब्राह्मणानां प्रसादेन भीमार्जुनबलेन च ॥१२-१-१३॥
इदं तु मे महद्दुःखं वर्तते हृदि नित्यदा। कृत्वा ज्ञातिक्षयमिमं महान्तं लोभकारितम् ॥१२-१-१४॥
सौभद्रं द्रौपदेयांश्च घातयित्वा प्रियान्सुतान्। जयोऽयमजयाकारो भगवन्प्रतिभाति मे ॥१२-१-१५॥
किं नु वक्ष्यति वार्ष्णेयी वधूर्मे मधुसूदनम्। द्वारकावासिनी कृष्णमितः प्रतिगतं हरिम् ॥१२-१-१६॥
द्रौपदी हतपुत्रेयं कृपणा हतबान्धवा। अस्मत्प्रियहिते युक्ता भूयः पीडयतीव माम् ॥१२-१-१७॥
इदमन्यच्च भगवन्यत्त्वां वक्ष्यामि नारद। मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन योजितः ॥१२-१-१८॥
योऽसौ नागायुतबलो लोकेऽप्रतिरथो रणे। सिंहखेलगतिर्धीमान्घृणी दान्तो यतव्रतः ॥१२-१-१९॥
आश्रयो धार्तराष्ट्राणां मानी तीक्ष्णपराक्रमः। अमर्षी नित्यसंरम्भी क्षेप्तास्माकं रणे रणे ॥१२-१-२०॥
शीघ्रास्त्रश्चित्रयोधी च कृती चाद्भुतविक्रमः। गूढोत्पन्नः सुतः कुन्त्या भ्रातास्माकं च सोदरः ॥१२-१-२१॥
तोयकर्मणि यं कुन्ती कथयामास सूर्यजम्। पुत्रं सर्वगुणोपेतमवकीर्णं जले पुरा ॥१२-१-२२॥
यं सूतपुत्रं लोकोऽयं राधेयं चाप्यमन्यत। स ज्येष्ठपुत्रः कुन्त्या वै भ्रातास्माकं च मातृजः ॥१२-१-२३॥
अजानता मया सङ्ख्ये राज्यलुब्धेन घातितः। तन्मे दहति गात्राणि तूलराशिमिवानलः ॥१२-१-२४॥
न हि तं वेद पार्थोऽपि भ्रातरं श्वेतवाहनः। नाहं न भीमो न यमौ स त्वस्मान्वेद सुव्रतः ॥१२-१-२५॥
गता किल पृथा तस्य सकाशमिति नः श्रुतम्। अस्माकं शमकामा वै त्वं च पुत्रो ममेत्यथ ॥१२-१-२६॥
पृथाया न कृतः कामस्तेन चापि महात्मना। अतिपश्चादिदं मातर्यवोचदिति नः श्रुतम् ॥१२-१-२७॥
न हि शक्ष्याम्यहं त्यक्तुं नृपं दुर्योधनं रणे। अनार्यं च नृशंसं च कृतघ्नं च हि मे भवेत् ॥१२-१-२८॥
युधिष्ठिरेण सन्धिं च यदि कुर्यां मते तव। भीतो रणे श्वेतवाहादिति मां मंस्यते जनः ॥१२-१-२९॥
सोऽहं निर्जित्य समरे विजयं सहकेशवम्। सन्धास्ये धर्मपुत्रेण पश्चादिति च सोऽब्रवीत् ॥१२-१-३०॥
तमवोचत्किल पृथा पुनः पृथुलवक्षसम्। चतुर्णामभयं देहि कामं युध्यस्व फल्गुनम् ॥१२-१-३१॥
सोऽब्रवीन्मातरं धीमान्वेपमानः कृताञ्जलिः। प्राप्तान्विषह्यांश्चतुरो न हनिष्यामि ते सुतान् ॥१२-१-३२॥
पञ्चैव हि सुता मातर्भविष्यन्ति हि ते ध्रुवम्। सकर्णा वा हते पार्थे सार्जुना वा हते मयि ॥१२-१-३३॥
तं पुत्रगृद्धिनी भूयो माता पुत्रमथाब्रवीत्। भ्रातॄणां स्वस्ति कुर्वीथा येषां स्वस्ति चिकीर्षसि ॥१२-१-३४॥
तमेवमुक्त्वा तु पृथा विसृज्योपययौ गृहान्। सोऽर्जुनेन हतो वीरो भ्राता भ्रात्रा सहोदरः ॥१२-१-३५॥
न चैव विवृतो मन्त्रः पृथायास्तस्य वा मुने। अथ शूरो महेष्वासः पार्थेनासौ निपातितः ॥१२-१-३६॥
अहं त्वज्ञासिषं पश्चात्स्वसोदर्यं द्विजोत्तम। पूर्वजं भ्रातरं कर्णं पृथाया वचनात्प्रभो ॥१२-१-३७॥
तेन मे दूयतेऽतीव हृदयं भ्रातृघातिनः। कर्णार्जुनसहायोऽहं जयेयमपि वासवम् ॥१२-१-३८॥
सभायां क्लिश्यमानस्य धार्तराष्ट्रैर्दुरात्मभिः। सहसोत्पतितः क्रोधः कर्णं दृष्ट्वा प्रशाम्यति ॥१२-१-३९॥
यदा ह्यस्य गिरो रूक्षाः शृणोमि कटुकोदयाः। सभायां गदतो द्यूते दुर्योधनहितैषिणः ॥१२-१-४०॥
तदा नश्यति मे क्रोधः पादौ तस्य निरीक्ष्य ह। कुन्त्या हि सदृशौ पादौ कर्णस्येति मतिर्मम ॥१२-१-४१॥
सादृश्यहेतुमन्विच्छन्पृथायास्तव चैव ह। कारणं नाधिगच्छामि कथञ्चिदपि चिन्तयन् ॥१२-१-४२॥
कथं नु तस्य सङ्ग्रामे पृथिवी चक्रमग्रसत्। कथं च शप्तो भ्राता मे तत्त्वं वक्तुमिहार्हसि ॥१२-१-४३॥
श्रोतुमिच्छामि भगवंस्त्वत्तः सर्वं यथातथम्। भवान्हि सर्वविद्विद्वाँल्लोके वेद कृताकृतम् ॥१२-१-४४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.