12.002
Pancharatra-Ext: Sage Narada narrates Karna's story of how he became a disciple of Bharadwaja to learn Brahmastra, faking himself as a Brahmin. Then by accident he killed a cow and was cursed by a Brahmin.
वैशम्पायन उवाच॥
स एवमुक्तस्तु मुनिर्नारदो वदतां वरः। कथयामास तत्सर्वं यथा शप्तः स सूतजः ॥१२-२-१॥
एवमेतन्महाबाहो यथा वदसि भारत। न कर्णार्जुनयोः किञ्चिदविषह्यं भवेद्रणे ॥१२-२-२॥
गुह्यमेतत्तु देवानां कथयिष्यामि ते नृप। तन्निबोध महाराज यथा वृत्तमिदं पुरा ॥१२-२-३॥
क्षत्रं स्वर्गं कथं गच्छेच्छस्त्रपूतमिति प्रभो। सङ्घर्षजननस्तस्मात्कन्यागर्भो विनिर्मितः ॥१२-२-४॥
स बालस्तेजसा युक्तः सूतपुत्रत्वमागतः। चकाराङ्गिरसां श्रेष्ठे धनुर्वेदं गुरौ तव ॥१२-२-५॥
स बलं भीमसेनस्य फल्गुनस्य च लाघवम्। बुद्धिं च तव राजेन्द्र यमयोर्विनयं तथा ॥१२-२-६॥
सख्यं च वासुदेवेन बाल्ये गाण्डिवधन्वनः। प्रजानामनुरागं च चिन्तयानो व्यदह्यत ॥१२-२-७॥
स सख्यमगमद्बाल्ये राज्ञा दुर्योधनेन वै। युष्माभिर्नित्यसंद्विष्टो दैवाच्चापि स्वभावतः ॥१२-२-८॥
विद्याधिकमथालक्ष्य धनुर्वेदे धनञ्जयम्। द्रोणं रहस्युपागम्य कर्णो वचनमब्रवीत् ॥१२-२-९॥
ब्रह्मास्त्रं वेत्तुमिच्छामि सरहस्यनिवर्तनम्। अर्जुनेन समो युद्धे भवेयमिति मे मतिः ॥१२-२-१०॥
समः पुत्रेषु च स्नेहः शिष्येषु च तव ध्रुवम्। त्वत्प्रसादान्न मां ब्रूयुरकृतास्त्रं विचक्षणाः ॥१२-२-११॥
द्रोणस्तथोक्तः कर्णेन सापेक्षः फल्गुनं प्रति। दौरात्म्यं चापि कर्णस्य विदित्वा तमुवाच ह ॥१२-२-१२॥
ब्रह्मास्त्रं ब्राह्मणो विद्याद्यथावच्चरितव्रतः। क्षत्रियो वा तपस्वी यो नान्यो विद्यात्कथञ्चन ॥१२-२-१३॥
इत्युक्तोऽङ्गिरसां श्रेष्ठमामन्त्र्य प्रतिपूज्य च। जगाम सहसा रामं महेन्द्रं पर्वतं प्रति ॥१२-२-१४॥
स तु राममुपागम्य शिरसाभिप्रणम्य च। ब्राह्मणो भार्गवोऽस्मीति गौरवेणाभ्यगच्छत ॥१२-२-१५॥
रामस्तं प्रतिजग्राह पृष्ट्वा गोत्रादि सर्वशः। उष्यतां स्वागतं चेति प्रीतिमांश्चाभवद्भृशम् ॥१२-२-१६॥
तत्र कर्णस्य वसतो महेन्द्रे पर्वतोत्तमे। गन्धर्वै राक्षसैर्यक्षैर्देवैश्चासीत्समागमः ॥१२-२-१७॥
स तत्रेष्वस्त्रमकरोद्भृगुश्रेष्ठाद्यथाविधि। प्रियश्चाभवदत्यर्थं देवगन्धर्वरक्षसाम् ॥१२-२-१८॥
स कदाचित्समुद्रान्ते विचरन्नाश्रमान्तिके। एकः खड्गधनुष्पाणिः परिचक्राम सूतजः ॥१२-२-१९॥
सोऽग्निहोत्रप्रसक्तस्य कस्यचिद्ब्रह्मवादिनः। जघानाज्ञानतः पार्थ होमधेनुं यदृच्छया ॥१२-२-२०॥
तदज्ञानकृतं मत्वा ब्राह्मणाय न्यवेदयत्। कर्णः प्रसादयंश्चैनमिदमित्यब्रवीद्वचः ॥१२-२-२१॥
अबुद्धिपूर्वं भगवन्धेनुरेषा हता तव। मया तत्र प्रसादं मे कुरुष्वेति पुनः पुनः ॥१२-२-२२॥
तं स विप्रोऽब्रवीत्क्रुद्धो वाचा निर्भर्त्सयन्निव। दुराचार वधार्हस्त्वं फलं प्राप्नुहि दुर्मते ॥१२-२-२३॥
येन विस्पर्धसे नित्यं यदर्थं घटसेऽनिशम्। युध्यतस्तेन ते पाप भूमिश्चक्रं ग्रसिष्यति ॥१२-२-२४॥
ततश्चक्रे महीग्रस्ते मूर्धानं ते विचेतसः। पातयिष्यति विक्रम्य शत्रुर्गच्छ नराधम ॥१२-२-२५॥
यथेयं गौर्हता मूढ प्रमत्तेन त्वया मम। प्रमत्तस्यैवमेवान्यः शिरस्ते पातयिष्यति ॥१२-२-२६॥
ततः प्रसादयामास पुनस्तं द्विजसत्तमम्। गोभिर्धनैश्च रत्नैश्च स चैनं पुनरब्रवीत् ॥१२-२-२७॥
नेदं मद्व्याहृतं कुर्यात्सर्वलोकोऽपि वै मृषा। गच्छ वा तिष्ठ वा यद्वा कार्यं ते तत्समाचर ॥१२-२-२८॥
इत्युक्तो ब्राह्मणेनाथ कर्णो दैन्यादधोमुखः। राममभ्यागमद्भीतस्तदेव मनसा स्मरन् ॥१२-२-२९॥