12.005
Pancharatra-Ext: Narada concludes, summarizing the reasons why Karna was defeated by Arjuna.
नारद उवाच॥
आविष्कृतबलं कर्णं ज्ञात्वा राजा तु मागधः। आह्वयद्द्वैरथेनाजौ जरासन्धो महीपतिः ॥१२-५-१॥
तयोः समभवद्युद्धं दिव्यास्त्रविदुषोर्द्वयोः। युधि नानाप्रहरणैरन्योन्यमभिवर्षतोः ॥१२-५-२॥
क्षीणबाणौ विधनुषौ भग्नखड्गौ महीं गतौ। बाहुभिः समसज्जेतामुभावपि बलान्वितौ ॥१२-५-३॥
बाहुकण्टकयुद्धेन तस्य कर्णोऽथ युध्यतः। बिभेद सन्धिं देहस्य जरया श्लेषितस्य ह ॥१२-५-४॥
स विकारं शरीरस्य दृष्ट्वा नृपतिरात्मनः। प्रीतोऽस्मीत्यब्रवीत्कर्णं वैरमुत्सृज्य भारत ॥१२-५-५॥
प्रीत्या ददौ स कर्णाय मालिनीं नगरीमथ। अङ्गेषु नरशार्दूल स राजासीत्सपत्नजित् ॥१२-५-६॥
पालयामास चम्पां तु कर्णः परबलार्दनः। दुर्योधनस्यानुमते तवापि विदितं तथा ॥१२-५-७॥
एवं शस्त्रप्रतापेन प्रथितः सोऽभवत्क्षितौ। त्वद्धितार्थं सुरेन्द्रेण भिक्षितो वर्मकुण्डले ॥१२-५-८॥
स दिव्ये सहजे प्रादात्कुण्डले परमार्चिते। सहजं कवचं चैव मोहितो देवमायया ॥१२-५-९॥
विमुक्तः कुण्डलाभ्यां च सहजेन च वर्मणा। निहतो विजयेनाजौ वासुदेवस्य पश्यतः ॥१२-५-१०॥
ब्राह्मणस्याभिशापेन रामस्य च महात्मनः। कुन्त्याश्च वरदानेन मायया च शतक्रतोः ॥१२-५-११॥
भीष्मावमानात्सङ्ख्यायां रथानामर्धकीर्तनात्। शल्यात्तेजोवधाच्चापि वासुदेवनयेन च ॥१२-५-१२॥
रुद्रस्य देवराजस्य यमस्य वरुणस्य च। कुबेरद्रोणयोश्चैव कृपस्य च महात्मनः ॥१२-५-१३॥
अस्त्राणि दिव्यान्यादाय युधि गाण्डीवधन्वना। हतो वैकर्तनः कर्णो दिवाकरसमद्युतिः ॥१२-५-१४॥
एवं शप्तस्तव भ्राता बहुभिश्चापि वञ्चितः। न शोच्यः स नरव्याघ्रो युद्धे हि निधनं गतः ॥१२-५-१५॥