12.006
वैशम्पायन उवाच॥
एतावदुक्त्वा देवर्षिर्विरराम स नारदः। युधिष्ठिरस्तु राजर्षिर्दध्यौ शोकपरिप्लुतः ॥१२-६-१॥
तं दीनमनसं वीरमधोवदनमातुरम्। निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा ॥१२-६-२॥
कुन्ती शोकपरीताङ्गी दुःखोपहतचेतना। अब्रवीन्मधुराभाषा काले वचनमर्थवत् ॥१२-६-३॥
युधिष्ठिर महाबाहो नैनं शोचितुमर्हसि। जहि शोकं महाप्राज्ञ शृणु चेदं वचो मम ॥१२-६-४॥
यतितः स मया पूर्वं भ्रात्र्यं ज्ञापयितुं तव। भास्करेण च देवेन पित्रा धर्मभृतां वर ॥१२-६-५॥
यद्वाच्यं हितकामेन सुहृदा भूतिमिच्छता। तथा दिवाकरेणोक्तः स्वप्नान्ते मम चाग्रतः ॥१२-६-६॥
न चैनमशकद्भानुरहं वा स्नेहकारणैः। पुरा प्रत्यनुनेतुं वा नेतुं वाप्येकतां त्वया ॥१२-६-७॥
ततः कालपरीतः स वैरस्योद्धुक्षणे रतः। प्रतीपकारी युष्माकमिति चोपेक्षितो मया ॥१२-६-८॥
इत्युक्तो धर्मराजस्तु मात्रा बाष्पाकुलेक्षणः। उवाच वाक्यं धर्मात्मा शोकव्याकुलचेतनः ॥१२-६-९॥
भवत्या गूढमन्त्रत्वात्पीडितोऽस्मीत्युवाच ताम्। शशाप च महातेजाः सर्वलोकेषु च स्त्रियः ॥ न गुह्यं धारयिष्यन्तीत्यतिदुःखसमन्वितः ॥१२-६-१०॥
स राजा पुत्रपौत्राणां सम्बन्धिसुहृदां तथा। स्मरन्नुद्विग्नहृदयो बभूवास्वस्थचेतनः ॥१२-६-११॥
ततः शोकपरीतात्मा सधूम इव पावकः। निर्वेदमकरोद्धीमान्राजा सन्तापपीडितः ॥१२-६-१२॥