Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.004
Pancharatra-Ext: Karna helps Duryodhana to win the maiden of Rājapura, in the territory of Kaliṅga, daughter of King Citrāṅgada, by defeating several kings.
नारद उवाच॥
कर्णस्तु समवाप्यैतदस्त्रं भार्गवनन्दनात्। दुर्योधनेन सहितो मुमुदे भरतर्षभ ॥१२-४-१॥
ततः कदाचिद्राजानः समाजग्मुः स्वयंवरे। कलिङ्गविषये राजन्राज्ञश्चित्राङ्गदस्य च ॥१२-४-२॥
श्रीमद्राजपुरं नाम नगरं तत्र भारत। राजानः शतशस्तत्र कन्यार्थं समुपागमन् ॥१२-४-३॥
श्रुत्वा दुर्योधनस्तत्र समेतान्सर्वपार्थिवान्। रथेन काञ्चनाङ्गेन कर्णेन सहितो ययौ ॥१२-४-४॥
ततः स्वयंवरे तस्मिन्सम्प्रवृत्ते महोत्सवे। समापेतुर्नृपतयः कन्यार्थे नृपसत्तम ॥१२-४-५॥
शिशुपालो जरासन्धो भीष्मको वक्र एव च। कपोतरोमा नीलश्च रुक्मी च दृढविक्रमः ॥१२-४-६॥
सृगालश्च महाराज स्त्रीराज्याधिपतिश्च यः। अशोकः शतधन्वा च भोजो वीरश्च नामतः ॥१२-४-७॥
एते चान्ये च बहवो दक्षिणां दिशमाश्रिताः। म्लेच्छाचार्याश्च राजानः प्राच्योदीच्याश्च भारत ॥१२-४-८॥
काञ्चनाङ्गदिनः सर्वे बद्धजाम्बूनदस्रजः। सर्वे भास्वरदेहाश्च व्याघ्रा इव मदोत्कटाः ॥१२-४-९॥
ततः समुपविष्टेषु तेषु राजसु भारत। विवेश रङ्गं सा कन्या धात्रीवर्षधरान्विता ॥१२-४-१०॥
ततः संश्राव्यमाणेषु राज्ञां नामसु भारत। अत्यक्रामद्धार्तराष्ट्रं सा कन्या वरवर्णिनी ॥१२-४-११॥
दुर्योधनस्तु कौरव्यो नामर्षयत लङ्घनम्। प्रत्यषेधच्च तां कन्यामसत्कृत्य नराधिपान् ॥१२-४-१२॥
स वीर्यमदमत्तत्वाद्भीष्मद्रोणावुपाश्रितः। रथमारोप्य तां कन्यामाजुहाव नराधिपान् ॥१२-४-१३॥
तमन्वयाद्रथी खड्गी भद्धगोधाङ्गुलित्रवान्। कर्णः शस्त्रभृतां श्रेष्ठः पृष्ठतः पुरुषर्षभ ॥१२-४-१४॥
ततो विमर्दः सुमहान्राज्ञामासीद्युधिष्ठिर। संनह्यतां तनुत्राणि रथान्योजयतामपि ॥१२-४-१५॥
तेऽभ्यधावन्त सङ्क्रुद्धाः कर्णदुर्योधनावुभौ। शरवर्षाणि मुञ्चन्तो मेघाः पर्वतयोरिव ॥१२-४-१६॥
कर्णस्तेषामापततामेकैकेन क्षुरेण ह। धनूंषि सशरावापान्यपातयत भूतले ॥१२-४-१७॥
ततो विधनुषः कांश्चित्कांश्चिदुद्यतकार्मुकान्। कांश्चिदुद्वहतो बाणान्रथशक्तिगदास्तथा ॥१२-४-१८॥
लाघवादाकुलीकृत्य कर्णः प्रहरतां वरः। हतसूतांश्च भूयिष्ठानवजिग्ये नराधिपान् ॥१२-४-१९॥
ते स्वयं त्वरयन्तोऽश्वान्याहि याहीति वादिनः। व्यपेयुस्ते रणं हित्वा राजानो भग्नमानसाः ॥१२-४-२०॥
दुर्योधनस्तु कर्णेन पाल्यमानोऽभ्ययात्तदा। हृष्टः कन्यामुपादाय नगरं नागसाह्वयम् ॥१२-४-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.