Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.011
अर्जुन उवाच॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम्। तापसैः सह संवादं शक्रस्य भरतर्षभ ॥१२-११-१॥
केचिद्गृहान्परित्यज्य वनमभ्यगमन्द्विजाः। अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः ॥१२-११-२॥
धर्मोऽयमिति मन्वाना ब्रह्मचर्ये व्यवस्थिताः। त्यक्त्वा गृहान्पितॄंश्चैव तानिन्द्रोऽन्वकृपायत ॥१२-११-३॥
तानाबभाषे भगवान्पक्षी भूत्वा हिरण्मयः। सुदुष्करं मनुष्यैश्च यत्कृतं विघसाशिभिः ॥१२-११-४॥
पुण्यं च बत कर्मैषां प्रशस्तं चैव जीवितम्। संसिद्धास्ते गतिं मुख्यां प्राप्ता धर्मपरायणाः ॥१२-११-५॥
ऋषय ऊचुः॥
अहो बतायं शकुनिर्विघसाशान्प्रशंसति। अस्मान्नूनमयं शास्ति वयं च विघसाशिनः ॥१२-११-६॥
शकुनिरुवाच॥
नाहं युष्मान्प्रशंसामि पङ्कदिग्धान्रजस्वलान्। उच्छिष्टभोजिनो मन्दानन्ये वै विघसाशिनः ॥१२-११-७॥
ऋषय ऊचुः॥
इदं श्रेयः परमिति वयमेवाभ्युपास्महे। शकुने ब्रूहि यच्छ्रेयो भृशं वै श्रद्दधाम ते ॥१२-११-८॥
शकुनिरुवाच॥
यदि मां नाभिशङ्कध्वं विभज्यात्मानमात्मना। ततोऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः ॥१२-११-९॥
ऋषय ऊचुः॥
शृणुमस्ते वचस्तात पन्थानो विदितास्तव। नियोगे चैव धर्मात्मन्स्थातुमिच्छाम शाधि नः ॥१२-११-१०॥
शकुनिरुवाच॥
चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम्। शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरः ॥१२-११-११॥
मन्त्रोऽयं जातकर्मादि ब्राह्मणस्य विधीयते। जीवतो यो यथाकालं श्मशाननिधनादिति ॥१२-११-१२॥
कर्माणि वैदिकान्यस्य स्वर्ग्यः पन्थास्त्वनुत्तमः। अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते ॥१२-११-१३॥
आम्नायदृढवादीनि तथा सिद्धिरिहेष्यते। मासार्धमासा ऋतव आदित्यशशितारकम् ॥१२-११-१४॥
ईहन्ते सर्वभूतानि तदृतं कर्मसङ्गिनाम्। सिद्धिक्षेत्रमिदं पुण्यमयमेवाश्रमो महान् ॥१२-११-१५॥
अथ ये कर्म निन्दन्तो मनुष्याः कापथं गताः। मूढानामर्थहीनानां तेषामेनस्तु विद्यते ॥१२-११-१६॥
देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्वतान्। सन्त्यज्य मूढा वर्तन्ते ततो यान्त्यश्रुतीपथम् ॥१२-११-१७॥
एतद्वोऽस्तु तपो युक्तं ददानीत्यृषिचोदितम्। तस्मात्तदध्यवसतस्तपस्वि तप उच्यते ॥१२-११-१८॥
देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्वतान्। संविभज्य गुरोश्चर्यां तद्वै दुष्करमुच्यते ॥१२-११-१९॥
देवा वै दुष्करं कृत्वा विभूतिं परमां गताः। तस्माद्गार्हस्थ्यमुद्वोढुं दुष्करं प्रब्रवीमि वः ॥१२-११-२०॥
तपः श्रेष्ठं प्रजानां हि मूलमेतन्न संशयः। कुटुम्बविधिनानेन यस्मिन्सर्वं प्रतिष्ठितम् ॥१२-११-२१॥
एतद्विदुस्तपो विप्रा द्वंद्वातीता विमत्सराः। तस्माद्वनं मध्यमं च लोकेषु तप उच्यते ॥१२-११-२२॥
दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः। सायम्प्रातर्विभज्यान्नं स्वकुटुम्बे यथाविधि ॥१२-११-२३॥
दत्त्वातिथिभ्यो देवेभ्यः पितृभ्यः स्वजनस्य च। अवशिष्टानि येऽश्नन्ति तानाहुर्विघसाशिनः ॥१२-११-२४॥
तस्मात्स्वधर्ममास्थाय सुव्रताः सत्यवादिनः। लोकस्य गुरवो भूत्वा ते भवन्त्यनुपस्कृताः ॥१२-११-२५॥
त्रिदिवं प्राप्य शक्रस्य स्वर्गलोके विमत्सराः। वसन्ति शाश्वतीर्वर्षा जना दुष्करकारिणः ॥१२-११-२६॥
ततस्ते तद्वचः श्रुत्वा तस्य धर्मार्थसंहितम्। उत्सृज्य नास्तिकगतिं गार्हस्थ्यं धर्ममाश्रिताः ॥१२-११-२७॥
तस्मात्त्वमपि दुर्धर्ष धैर्यमालम्ब्य शाश्वतम्। प्रशाधि पृथिवीं कृत्स्नां हतामित्रां नरोत्तम ॥१२-११-२८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.