12.010
भीम उवाच॥
श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः। अनुवाकहताबुद्धिर्नैषा तत्त्वार्थदर्शिनी ॥१२-१०-१॥
आलस्ये कृतचित्तस्य राजधर्मानसूयतः। विनाशे धार्तराष्ट्राणां किं फलं भरतर्षभ ॥१२-१०-२॥
क्षमानुकम्पा कारुण्यमानृशंस्यं न विद्यते। क्षात्रमाचरतो मार्गमपि बन्धोस्त्वदन्तरे ॥१२-१०-३॥
यदीमां भवतो बुद्धिं विद्याम वयमीदृशीम्। शस्त्रं नैव ग्रहीष्यामो न वधिष्याम कञ्चन ॥१२-१०-४॥
भैक्ष्यमेवाचरिष्याम शरीरस्या विमोक्षणात्। न चेदं दारुणं युद्धमभविष्यन्महीक्षिताम् ॥१२-१०-५॥
प्राणस्यान्नमिदं सर्वमिति वै कवयो विदुः। स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ॥१२-१०-६॥
आददानस्य चेद्राज्यं ये केचित्परिपन्थिनः। हन्तव्यास्त इति प्राज्ञाः क्षत्रधर्मविदो विदुः ॥१२-१०-७॥
ते सदोषा हतास्माभी राज्यस्य परिपन्थिनः। तान्हत्वा भुङ्क्ष्व धर्मेण युधिष्ठिर महीमिमाम् ॥१२-१०-८॥
यथा हि पुरुषः खात्वा कूपमप्राप्य चोदकम्। पङ्कदिग्धो निवर्तेत कर्मेदं नस्तथोपमम् ॥१२-१०-९॥
यथारुह्य महावृक्षमपहृत्य ततो मधु। अप्राश्य निधनं गच्छेत्कर्मेदं नस्तथोपमम् ॥१२-१०-१०॥
यथा महान्तमध्वानमाशया पुरुषः पतन्। स निराशो निवर्तेत कर्मेदं नस्तथोपमम् ॥१२-१०-११॥
यथा शत्रून्घातयित्वा पुरुषः कुरुसत्तम। आत्मानं घातयेत्पश्चात्कर्मेदं नस्तथाविधम् ॥१२-१०-१२॥
यथान्नं क्षुधितो लब्ध्वा न भुञ्जीत यदृच्छया। कामी च कामिनीं लब्ध्वा कर्मेदं नस्तथाविधम् ॥१२-१०-१३॥
वयमेवात्र गर्ह्या हि ये वयं मन्दचेतसः। त्वां राजन्ननुगच्छामो ज्येष्ठोऽयमिति भारत ॥१२-१०-१४॥
वयं हि बाहुबलिनः कृतविद्या मनस्विनः। क्लीबस्य वाक्ये तिष्ठामो यथैवाशक्तयस्तथा ॥१२-१०-१५॥
अगतीन्कागतीनस्मान्नष्टार्थानर्थसिद्धये। कथं वै नानुपश्येयुर्जनाः पश्यन्ति यादृशम् ॥१२-१०-१६॥
आपत्काले हि संन्यासः कर्तव्य इति शिष्यते। जरयाभिपरीतेन शत्रुभिर्व्यंसितेन च ॥१२-१०-१७॥
तस्मादिह कृतप्रज्ञास्त्यागं न परिचक्षते। धर्मव्यतिक्रमं चेदं मन्यन्ते सूक्ष्मदर्शिनः ॥१२-१०-१८॥
कथं तस्मात्समुत्पन्नस्तन्निष्ठस्तदुपाश्रयः। तदेव निन्दन्नासीत श्रद्धा वान्यत्र गृह्यते ॥१२-१०-१९॥
श्रियाविहीनैरधनैर्नास्तिकैः सम्प्रवर्तितम्। वेदवादस्य विज्ञानं सत्याभासमिवानृतम् ॥१२-१०-२०॥
शक्यं तु मौण्ड्यमास्थाय बिभ्रतात्मानमात्मना। धर्मच्छद्म समास्थाय आसितुं न तु जीवितुम् ॥१२-१०-२१॥
शक्यं पुनररण्येषु सुखमेकेन जीवितुम्। अबिभ्रता पुत्रपौत्रान्देवर्षीनतिथीन्पितॄन् ॥१२-१०-२२॥
नेमे मृगाः स्वर्गजितो न वराहा न पक्षिणः। अथैतेन प्रकारेण पुण्यमाहुर्न ताञ्जनाः ॥१२-१०-२३॥
यदि संन्यासतः सिद्धिं राजन्कश्चिदवाप्नुयात्। पर्वताश्च द्रुमाश्चैव क्षिप्रं सिद्धिमवाप्नुयुः ॥१२-१०-२४॥
एते हि नित्यसंन्यासा दृश्यन्ते निरुपद्रवाः। अपरिग्रहवन्तश्च सततं चात्मचारिणः ॥१२-१०-२५॥
अथ चेदात्मभाग्येषु नान्येषां सिद्धिमश्नुते। तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः ॥१२-१०-२६॥
औदकाः सृष्टयश्चैव जन्तवः सिद्धिमाप्नुयुः। येषामात्मैव भर्तव्यो नान्यः कश्चन विद्यते ॥१२-१०-२७॥
अवेक्षस्व यथा स्वैः स्वैः कर्मभिर्व्यापृतं जगत्। तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः ॥१२-१०-२८॥