12.012
वैशम्पायन उवाच॥
अर्जुनस्य वचः श्रुत्वा नकुलो वाक्यमब्रवीत्। राजानमभिसम्प्रेक्ष्य सर्वधर्मभृतां वरम् ॥१२-१२-१॥
अनुरुध्य महाप्राज्ञो भ्रातुश्चित्तमरिंदमः। व्यूढोरस्को महाबाहुस्ताम्रास्यो मितभाषिता ॥१२-१२-२॥
विशाखयूपे देवानां सर्वेषामग्नयश्चिताः। तस्माद्विद्धि महाराज देवान्कर्मपथि स्थितान् ॥१२-१२-३॥
अनास्तिकानास्तिकानां प्राणदाः पितरश्च ये। तेऽपि कर्मैव कुर्वन्ति विधिं पश्यस्व पार्थिव ॥ वेदवादापविद्धांस्तु तान्विद्धि भृशनास्तिकान् ॥१२-१२-४॥
न हि वेदोक्तमुत्सृज्य विप्रः सर्वेषु कर्मसु। देवयानेन नाकस्य पृष्ठमाप्नोति भारत ॥१२-१२-५॥
अत्याश्रमानयं सर्वानित्याहुर्वेदनिश्चयाः। ब्राह्मणाः श्रुतिसम्पन्नास्तान्निबोध जनाधिप ॥१२-१२-६॥
वित्तानि धर्मलब्धानि क्रतुमुख्येष्ववासृजन्। कृतात्मसु महाराज स वै त्यागी स्मृतो नरः ॥१२-१२-७॥
अनवेक्ष्य सुखादानं तथैवोर्ध्वं प्रतिष्ठितः। आत्मत्यागी महाराज स त्यागी तामसः प्रभो ॥१२-१२-८॥
अनिकेतः परिपतन्वृक्षमूलाश्रयो मुनिः। अपाचकः सदा योगी स त्यागी पार्थ भिक्षुकः ॥१२-१२-९॥
क्रोधहर्षावनादृत्य पैशुन्यं च विशां पते। विप्रो वेदानधीते यः स त्यागी गुरुपूजकः ॥१२-१२-१०॥
आश्रमांस्तुलया सर्वान्धृतानाहुर्मनीषिणः। एकतस्ते त्रयो राजन्गृहस्थाश्रम एकतः ॥१२-१२-११॥
समीक्षते तु योऽर्थं वै कामं स्वर्गं च भारत। अयं पन्था महर्षीणामियं लोकविदां गतिः ॥१२-१२-१२॥
इति यः कुरुते भावं स त्यागी भरतर्षभ। न यः परित्यज्य गृहान्वनमेति विमूढवत् ॥१२-१२-१३॥
यदा कामान्समीक्षेत धर्मवैतंसिकोऽनृजुः। अथैनं मृत्युपाशेन कण्ठे बध्नाति मृत्युराट् ॥१२-१२-१४॥
अभिमानकृतं कर्म नैतत्फलवदुच्यते। त्यागयुक्तं महाराज सर्वमेव महाफलम् ॥१२-१२-१५॥
शमो दमस्तपो दानं सत्यं शौचमथार्जवम्। यज्ञो धृतिश्च धर्मश्च नित्यमार्षो विधिः स्मृतः ॥१२-१२-१६॥
पितृदेवातिथिकृते समारम्भोऽत्र शस्यते। अत्रैव हि महाराज त्रिवर्गः केवलं फलम् ॥१२-१२-१७॥
एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते। त्यागिनः प्रसृतस्येह नोच्छित्तिर्विद्यते क्वचित् ॥१२-१२-१८॥
असृजद्धि प्रजा राजन्प्रजापतिरकल्मषः। मां यक्ष्यन्तीति शान्तात्मा यज्ञैर्विविधदक्षिणैः ॥१२-१२-१९॥
वीरुधश्चैव वृक्षांश्च यज्ञार्थं च तथौषधीः। पशूंश्चैव तथा मेध्यान्यज्ञार्थानि हवींषि च ॥१२-१२-२०॥
गृहस्थाश्रमिणस्तच्च यज्ञकर्म विरोधकम्। तस्माद्गार्हस्थ्यमेवेह दुष्करं दुर्लभं तथा ॥१२-१२-२१॥
तत्सम्प्राप्य गृहस्था ये पशुधान्यसमन्विताः। न यजन्ते महाराज शाश्वतं तेषु किल्बिषम् ॥१२-१२-२२॥
स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथापरे। अथापरे महायज्ञान्मनसैव वितन्वते ॥१२-१२-२३॥
एवं दानसमाधानं मार्गमातिष्ठतो नृप। द्विजातेर्ब्रह्मभूतस्य स्पृहयन्ति दिवौकसः ॥१२-१२-२४॥
स रत्नानि विचित्राणि सम्भृतानि ततस्ततः। मखेष्वनभिसन्त्यज्य नास्तिक्यमभिजल्पसि ॥ कुटुम्बमास्थिते त्यागं न पश्यामि नराधिप ॥१२-१२-२५॥
राजसूयाश्वमेधेषु सर्वमेधेषु वा पुनः। य चान्ये क्रतवस्तात ब्राह्मणैरभिपूजिताः ॥ तैर्यजस्व महाराज शक्रो देवपतिर्यथा ॥१२-१२-२६॥
राज्ञः प्रमाददोषेण दस्युभिः परिमुष्यताम्। अशरण्यः प्रजानां यः स राजा कलिरुच्यते ॥१२-१२-२७॥
अश्वान्गाश्चैव दासीश्च करेणूश्च स्वलङ्कृताः। ग्रामाञ्जनपदांश्चैव क्षेत्राणि च गृहाणि च ॥१२-१२-२८॥
अप्रदाय द्विजातिभ्यो मात्सर्याविष्टचेतसः। वयं ते राजकलयो भविष्यामो विशां पते ॥१२-१२-२९॥
अदाता रोऽशरण्याश्च राजकिल्बिषभागिनः। दुःखानामेव भोक्तारो न सुखानां कदाचन ॥१२-१२-३०॥
अनिष्ट्वा च महायज्ञैरकृत्वा च पितृस्वधाम्। तीर्थेष्वनभिसन्त्यज्य प्रव्रजिष्यसि चेदथ ॥१२-१२-३१॥
छिन्नाभ्रमिव गन्तासि विलयं मारुतेरितम्। लोकयोरुभयोर्भ्रष्टो ह्यन्तराले व्यवस्थितः ॥१२-१२-३२॥
अन्तर्बहिश्च यत्किञ्चिन्मनोव्यासङ्गकारकम्। परित्यज्य भवेत्त्यागी न यो हित्वा प्रतिष्ठते ॥१२-१२-३३॥
एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते। ब्राह्मणस्य महाराज नोच्छित्तिर्विद्यते क्वचित् ॥१२-१२-३४॥
निहत्य शत्रूंस्तरसा समृद्धा; न्शक्रो यथा दैत्यबलानि सङ्ख्ये। कः पार्थ शोचेन्निरतः स्वधर्मे; पूर्वैः स्मृते पार्थिव शिष्टजुष्टे ॥१२-१२-३५॥
क्षात्रेण धर्मेण पराक्रमेण; जित्वा महीं मन्त्रविद्भ्यः प्रदाय। नाकस्य पृष्ठेऽसि नरेन्द्र गन्ता; न शोचितव्यं भवताद्य पार्थ ॥१२-१२-३६॥