Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.019
Library: Yudhishthira advises Arjuna - the knower of dharma attains greatness through austerity, finds greatness through intellect, and always attains happiness through renunciation.
युधिष्ठिर उवाच॥
वेदाहं तात शास्त्राणि अपराणि पराणि च। उभयं वेदवचनं कुरु कर्म त्यजेति च ॥१२-१९-१॥
आकुलानि च शास्त्राणि हेतुभिश्चित्रितानि च। निश्चयश्चैव यन्मात्रो वेदाहं तं यथाविधि ॥१२-१९-२॥
त्वं तु केवलमस्त्रज्ञो वीरव्रतमनुष्ठितः। शास्त्रार्थं तत्त्वतो गन्तुं न समर्थः कथञ्चन ॥१२-१९-३॥
शास्त्रार्थसूक्ष्मदर्शी यो धर्मनिश्चयकोविदः। तेनाप्येवं न वाच्योऽहं यदि धर्मं प्रपश्यसि ॥१२-१९-४॥
भ्रातृसौहृदमास्थाय यदुक्तं वचनं त्वया। न्याय्यं युक्तं च कौन्तेय प्रीतोऽहं तेन तेऽर्जुन ॥१२-१९-५॥
युद्धधर्मेषु सर्वेषु क्रियाणां नैपुणेषु च। न त्वया सदृशः कश्चित्त्रिषु लोकेषु विद्यते ॥१२-१९-६॥
धर्मसूक्ष्मं तु यद्वाक्यं तत्र दुष्प्रतरं त्वया। धनञ्जय न मे बुद्धिमभिशङ्कितुमर्हसि ॥१२-१९-७॥
युद्धशास्त्रविदेव त्वं न वृद्धाः सेवितास्त्वया। समासविस्तरविदां न तेषां वेत्सि निश्चयम् ॥१२-१९-८॥
तपस्त्यागो विधिरिति निश्चयस्तात धीमताम्। परं परं ज्याय एषां सैषा नैःश्रेयसी गतिः ॥१२-१९-९॥
न त्वेतन्मन्यसे पार्थ न ज्यायोऽस्ति धनादिति। अत्र ते वर्तयिष्यामि यथा नैतत्प्रधानतः ॥१२-१९-१०॥
तपःस्वाध्यायशीला हि दृश्यन्ते धार्मिका जनाः। ऋषयस्तपसा युक्ता येषां लोकाः सनातनाः ॥१२-१९-११॥
अजातश्मश्रवो धीरास्तथान्ये वनवासिनः। अनन्ता अधना एव स्वाध्यायेन दिवं गताः ॥१२-१९-१२॥
उत्तरेण तु पन्थानमार्या विषयनिग्रहात्। अबुद्धिजं तमस्त्यक्त्वा लोकांस्त्यागवतां गताः ॥१२-१९-१३॥
दक्षिणेन तु पन्थानं यं भास्वन्तं प्रपश्यसि। एते क्रियावतां लोका ये श्मशानानि भेजिरे ॥१२-१९-१४॥
अनिर्देश्या गतिः सा तु यां प्रपश्यन्ति मोक्षिणः। तस्मात्त्यागः प्रधानेष्टः स तु दुःखः प्रवेदितुम् ॥१२-१९-१५॥
अनुसृत्य तु शास्त्राणि कवयः समवस्थिताः। अपीह स्यादपीह स्यात्सारासारदिदृक्षया ॥१२-१९-१६॥
वेदवादानतिक्रम्य शास्त्राण्यारण्यकानि च। विपाट्य कदलीस्कन्धं सारं ददृशिरे न ते ॥१२-१९-१७॥
अथैकान्तव्युदासेन शरीरे पञ्चभौतिके। इच्छाद्वेषसमायुक्तमात्मानं प्राहुरिङ्गितैः ॥१२-१९-१८॥
अग्राह्यश्चक्षुषा सोऽपि अनिर्देश्यं च तद्गिरा। कर्महेतुपुरस्कारं भूतेषु परिवर्तते ॥१२-१९-१९॥
कल्याणगोचरं कृत्वा मनस्तृष्णां निगृह्य च। कर्मसन्ततिमुत्सृज्य स्यान्निरालम्बनः सुखी ॥१२-१९-२०॥
अस्मिन्नेवं सूक्ष्मगम्ये मार्गे सद्भिर्निषेविते। कथमर्थमनर्थाढ्यमर्जुन त्वं प्रशंससि ॥१२-१९-२१॥
पूर्वशास्त्रविदो ह्येवं जनाः पश्यन्ति भारत। क्रियासु निरता नित्यं दाने यज्ञे च कर्मणि ॥१२-१९-२२॥
भवन्ति सुदुरावर्ता हेतुमन्तोऽपि पण्डिताः। दृढपूर्वश्रुता मूढा नैतदस्तीति वादिनः ॥१२-१९-२३॥
अमृतस्यावमन्तारो वक्तारो जनसंसदि। चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः ॥१२-१९-२४॥
यान्वयं नाभिजानीमः कस्ताञ्ज्ञातुमिहार्हति। एवं प्राज्ञान्सतश्चापि महतः शास्त्रवित्तमान् ॥१२-१९-२५॥
तपसा महदाप्नोति बुद्ध्या वै विन्दते महत्। त्यागेन सुखमाप्नोति सदा कौन्तेय धर्मवित् ॥१२-१९-२६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.