12.020
Library: The divine sage advises King Yudhisthira on the importance of wealth and how it should be used for sacrifice alone.
वैशम्पायन उवाच॥
तस्मिन्वाक्यान्तरे वक्ता देवस्थानो महातपाः। अभिनीततरं वाक्यमित्युवाच युधिष्ठिरम् ॥१२-२०-१॥
यद्वचः फल्गुनेनोक्तं न ज्यायोऽस्ति धनादिति। अत्र ते वर्तयिष्यामि तदेकाग्रमनाः शृणु ॥१२-२०-२॥
अजातशत्रो धर्मेण कृत्स्ना ते वसुधा जिता। तां जित्वा न वृथा राजंस्त्वं परित्यक्तुमर्हसि ॥१२-२०-३॥
चतुष्पदी हि निःश्रेणी कर्मण्येषा प्रतिष्ठिता। तां क्रमेण महाबाहो यथावज्जय पार्थिव ॥१२-२०-४॥
तस्मात्पार्थ महायज्ञैर्यजस्व बहुदक्षिणैः। स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथापरे ॥१२-२०-५॥
कर्मनिष्ठांस्तु बुध्येथास्तपोनिष्ठांश्च भारत। वैखानसानां राजेन्द्र वचनं श्रूयते यथा ॥१२-२०-६॥
ईहते धनहेतोर्यस्तस्यानीहा गरीयसी। भूयान्दोषः प्रवर्धेत यस्तं धनमपाश्रयेत् ॥१२-२०-७॥
कृच्छ्राच्च द्रव्यसंहारं कुर्वन्ति धनकारणात्। धनेन तृषितोऽबुद्ध्या भ्रूणहत्यां न बुध्यते ॥१२-२०-८॥
अनर्हते यद्ददाति न ददाति यदर्हते। अनर्हार्हापरिज्ञानाद्दानधर्मोऽपि दुष्करः ॥१२-२०-९॥
यज्ञाय सृष्टानि धनानि धात्रा; यष्टादिष्टः पुरुषो रक्षिता च। तस्मात्सर्वं यज्ञ एवोपयोज्यं; धनं ततोऽनन्तर एव कामः ॥१२-२०-१०॥
यज्ञैरिन्द्रो विविधैरन्नवद्भिर्देवान्सर्वानभ्ययान्महौजाः। तेनेन्द्रत्वं प्राप्य विभ्राजतेऽसौ; तस्माद्यज्ञे सर्वमेवोपयोज्यम् ॥१२-२०-११॥
महादेवः सर्वमेधे महात्मा; हुत्वात्मानं देवदेवो विभूतः। विश्वाँल्लोकान्व्याप्य विष्टभ्य कीर्त्या; विरोचते द्युतिमान्कृत्तिवासाः ॥१२-२०-१२॥
आविक्षितः पार्थिवो वै मरुत्तः; स्वृद्ध्या मर्त्यो योऽजयद्देवराजम्। यज्ञे यस्य श्रीः स्वयं संनिविष्टा; यस्मिन्भाण्डं काञ्चनं सर्वमासीत् ॥१२-२०-१३॥
हरिश्चन्द्रः पार्थिवेन्द्रः श्रुतस्ते; यज्ञैरिष्ट्वा पुण्यकृद्वीतशोकः। ऋद्ध्या शक्रं योऽजयन्मानुषः सं; स्तस्माद्यज्ञे सर्वमेवोपयोज्यम् ॥१२-२०-१४॥