Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.021
Library: Divine sages advise Yudhishthira - The knower of dharma should restrain the wicked, favour the good, and, having established his subjects on the path of righteousness, conduct himself accordingly.
देवस्थान उवाच॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम्। इन्द्रेण समये पृष्टो यदुवाच बृहस्पतिः ॥१२-२१-१॥
सन्तोषो वै स्वर्गतमः सन्तोषः परमं सुखम्। तुष्टेर्न किञ्चित्परतः सुसम्यक्परितिष्ठति ॥१२-२१-२॥
यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः। तदात्मज्योतिरात्मैव स्वात्मनैव प्रसीदति ॥१२-२१-३॥
न बिभेति यदा चायं यदा चास्मान्न बिभ्यति। कामद्वेषौ च जयति तदात्मानं प्रपश्यति ॥१२-२१-४॥
यदासौ सर्वभूतानां न क्रुध्यति न दुष्यति। कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥१२-२१-५॥
एवं कौन्तेय भूतानि तं तं धर्मं तथा तथा। तदा तदा प्रपश्यन्ति तस्माद्बुध्यस्व भारत ॥१२-२१-६॥
अन्ये शमं प्रशंसन्ति व्यायाममपरे तथा। नैकं न चापरं केचिदुभयं च तथापरे ॥१२-२१-७॥
यज्ञमेके प्रशंसन्ति संन्यासमपरे जनाः। दानमेके प्रशंसन्ति केचिदेव प्रतिग्रहम् ॥ केचित्सर्वं परित्यज्य तूष्णीं ध्यायन्त आसते ॥१२-२१-८॥
राज्यमेके प्रशंसन्ति सर्वेषां परिपालनम्। हत्वा भित्त्वा च छित्त्वा च केचिदेकान्तशीलिनः ॥१२-२१-९॥
एतत्सर्वं समालोक्य बुधानामेष निश्चयः। अद्रोहेणैव भूतानां यो धर्मः स सतां मतः ॥१२-२१-१०॥
अद्रोहः सत्यवचनं संविभागो धृतिः क्षमा। प्रजनः स्वेषु दारेषु मार्दवं ह्रीरचापलम् ॥१२-२१-११॥
धनं धर्मप्रधानेष्टं मनुः स्वायम्भुवोऽब्रवीत्। तस्मादेवं प्रयत्नेन कौन्तेय परिपालय ॥१२-२१-१२॥
यो हि राज्ये स्थितः शश्वद्वशी तुल्यप्रियाप्रियः। क्षत्रियो यज्ञशिष्टाशी राजशास्त्रार्थतत्त्ववित् ॥१२-२१-१३॥
असाधुनिग्रहरतः साधूनां प्रग्रहे रतः। धर्मे वर्त्मनि संस्थाप्य प्रजा वर्तेत धर्मवित् ॥१२-२१-१४॥
पुत्रसङ्क्रामितश्रीस्तु वने वन्येन वर्तयन्। विधिना श्रामणेनैव कुर्यात्कालमतन्द्रितः ॥१२-२१-१५॥
य एवं वर्तते राजा राजधर्मविनिश्चितः। तस्यायं च परश्चैव लोकः स्यात्सफलो नृप ॥ निर्वाणं तु सुदुष्पारं बहुविघ्नं च मे मतम् ॥१२-२१-१६॥
एवं धर्ममनुक्रान्ताः सत्यदानतपःपराः। आनृशंस्यगुणैर्युक्ताः कामक्रोधविवर्जिताः ॥१२-२१-१७॥
प्रजानां पालने युक्ता दममुत्तममास्थिताः। गोब्राह्मणार्थं युद्धेन सम्प्राप्ता गतिमुत्तमाम् ॥१२-२१-१८॥
एवं रुद्राः सवसवस्तथादित्याः परन्तप। साध्या राजर्षिसङ्घाश्च धर्ममेतं समाश्रिताः ॥ अप्रमत्तास्ततः स्वर्गं प्राप्ताः पुण्यैः स्वकर्मभिः ॥१२-२१-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.