Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.022
Library: Arjuna again advises Yudhishthira on warrior duties.
वैशम्पायन उवाच॥
तस्मिन्वाक्यान्तरे वाक्यं पुनरेवार्जुनोऽब्रवीत्। विषण्णमनसं ज्येष्ठमिदं भ्रातरमीश्वरम् ॥१२-२२-१॥
क्षत्रधर्मेण धर्मज्ञ प्राप्य राज्यमनुत्तमम्। जित्वा चारीन्नरश्रेष्ठ तप्यते किं भवान्भृशम् ॥१२-२२-२॥
क्षत्रियाणां महाराज सङ्ग्रामे निधनं स्मृतम्। विशिष्टं बहुभिर्यज्ञैः क्षत्रधर्ममनुस्मर ॥१२-२२-३॥
ब्राह्मणानां तपस्त्यागः प्रेत्यधर्मविधिः स्मृतः। क्षत्रियाणां च विहितं सङ्ग्रामे निधनं विभो ॥१२-२२-४॥
क्षत्रधर्मो महारौद्रः शस्त्रनित्य इति स्मृतः। वधश्च भरतश्रेष्ठ काले शस्त्रेण संयुगे ॥१२-२२-५॥
ब्राह्मणस्यापि चेद्राजन्क्षत्रधर्मेण तिष्ठतः। प्रशस्तं जीवितं लोके क्षत्रं हि ब्रह्मसंस्थितम् ॥१२-२२-६॥
न त्यागो न पुनर्याच्ञा न तपो मनुजेश्वर। क्षत्रियस्य विधीयन्ते न परस्वोपजीवनम् ॥१२-२२-७॥
स भवान्सर्वधर्मज्ञः सर्वात्मा भरतर्षभ। राजा मनीषी निपुणो लोके दृष्टपरावरः ॥१२-२२-८॥
त्यक्त्वा सन्तापजं शोकं दंशितो भव कर्मणि। क्षत्रियस्य विशेषेण हृदयं वज्रसंहतम् ॥१२-२२-९॥
जित्वारीन्क्षत्रधर्मेण प्राप्य राज्यमकण्टकम्। विजितात्मा मनुष्येन्द्र यज्ञदानपरो भव ॥१२-२२-१०॥
इन्द्रो वै ब्रह्मणः पुत्रः कर्मणा क्षत्रियोऽभवत्। ज्ञातीनां पापवृत्तीनां जघान नवतीर्नव ॥१२-२२-११॥
तच्चास्य कर्म पूज्यं हि प्रशस्यं च विशां पते। तेन चेन्द्रत्वमापेदे देवानामिति नः श्रुतम् ॥१२-२२-१२॥
स त्वं यज्ञैर्महाराज यजस्व बहुदक्षिणैः। यथैवेन्द्रो मनुष्येन्द्र चिराय विगतज्वरः ॥१२-२२-१३॥
मा त्वमेवङ्गते किञ्चित्क्षत्रियर्षभ शोचिथाः। गतास्ते क्षत्रधर्मेण शस्त्रपूताः परां गतिम् ॥१२-२२-१४॥
भवितव्यं तथा तच्च यद्वृत्तं भरतर्षभ। दिष्टं हि राजशार्दूल न शक्यमतिवर्तितुम् ॥१२-२२-१५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.