Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.023
Library: Sage Vyasa, concurring with Bhima, says the practice of householder duties is the highest, and for a warrior like him who is knowledgeable, taking the burden of ruling the kingdom is suitable.
वैशम्पायन उवाच॥
एवमुक्तस्तु कौन्तेयो गुडाकेशेन भारत। नोवाच किञ्चित्कौरव्यस्ततो द्वैपायनोऽब्रवीत् ॥१२-२३-१॥
बीभत्सोर्वचनं सम्यक्सत्यमेतद्युधिष्ठिर। शास्त्रदृष्टः परो धर्मः स्मृतो गार्हस्थ्य आश्रमः ॥१२-२३-२॥
स्वधर्मं चर धर्मज्ञ यथाशास्त्रं यथाविधि। न हि गार्हस्थ्यमुत्सृज्य तवारण्यं विधीयते ॥१२-२३-३॥
गृहस्थं हि सदा देवाः पितर ऋषयस्तथा। भृत्याश्चैवोपजीवन्ति तान्भजस्व महीपते ॥१२-२३-४॥
वयांसि पशवश्चैव भूतानि च महीपते। गृहस्थैरेव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृही ॥१२-२३-५॥
सोऽयं चतुर्णामेतेषामाश्रमाणां दुराचरः। तं चराविमनाः पार्थ दुश्चरं दुर्बलेन्द्रियैः ॥१२-२३-६॥
वेदज्ञानं च ते कृत्स्नं तपश्च चरितं महत्। पितृपैतामहे राज्ये धुरमुद्वोढुमर्हसि ॥१२-२३-७॥
तपो यज्ञस्तथा विद्या भैक्षमिन्द्रियनिग्रहः। ध्यानमेकान्तशीलत्वं तुष्टिर्दानं च शक्तितः ॥१२-२३-८॥
ब्राह्मणानां महाराज चेष्टाः संसिद्धिकारिकाः। क्षत्रियाणां च वक्ष्यामि तवापि विदितं पुनः ॥१२-२३-९॥
यज्ञो विद्या समुत्थानमसन्तोषः श्रियं प्रति। दण्डधारणमत्युग्रं प्रजानां परिपालनम् ॥१२-२३-१०॥
वेदज्ञानं तथा कृत्स्नं तपः सुचरितं तथा। द्रविणोपार्जनं भूरि पात्रेषु प्रतिपादनम् ॥१२-२३-११॥
एतानि राज्ञां कर्माणि सुकृतानि विशां पते। इमं लोकममुं लोकं साधयन्तीति नः श्रुतम् ॥१२-२३-१२॥
तेषां ज्यायस्तु कौन्तेय दण्डधारणमुच्यते। बलं हि क्षत्रिये नित्यं बले दण्डः समाहितः ॥१२-२३-१३॥
एताश्चेष्टाः क्षत्रियाणां राजन्संसिद्धिकारिकाः। अपि गाथामिमां चापि बृहस्पतिरभाषत ॥१२-२३-१४॥
भूमिरेतौ निगिरति सर्पो बिलशयानिव। राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥१२-२३-१५॥
सुद्युम्नश्चापि राजर्षिः श्रूयते दण्डधारणात्। प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा ॥१२-२३-१६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.