12.024
Library: Vyasa narrates the story of Sudyumna and concludes saying for a kṣatriya, the duty is to punish, not to shave the head.
युधिष्ठिर उवाच॥
भगवन्कर्मणा केन सुद्युम्नो वसुधाधिपः। संसिद्धिं परमां प्राप्तः श्रोतुमिच्छामि तं नृपम् ॥१२-२४-१॥
व्यास उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। शङ्खश्च लिखितश्चास्तां भ्रातरौ संयतव्रतौ ॥१२-२४-२॥
तयोरावसथावास्तां रमणीयौ पृथक्पृथक्। नित्यपुष्पफलैर्वृक्षैरुपेतौ बाहुदामनु ॥१२-२४-३॥
ततः कदाचिल्लिखितः शङ्खस्याश्रममागमत्। यदृच्छयापि शङ्खोऽथ निष्क्रान्तोऽभवदाश्रमात् ॥१२-२४-४॥
सोऽभिगम्याश्रमं भ्रातुः शङ्खस्य लिखितस्तदा। फलानि शातयामास सम्यक्परिणतान्युत ॥१२-२४-५॥
तान्युपादाय विस्रब्धो भक्षयामास स द्विजः। तस्मिंश्च भक्षयत्येव शङ्खोऽप्याश्रममागमत् ॥१२-२४-६॥
भक्षयन्तं तु तं दृष्ट्वा शङ्खो भ्रातरमब्रवीत्। कुतः फलान्यवाप्तानि हेतुना केन खादसि ॥१२-२४-७॥
सोऽब्रवीद्भ्रातरं ज्येष्ठमुपस्पृश्याभिवाद्य च। इत एव गृहीतानि मयेति प्रहसन्निव ॥१२-२४-८॥
तमब्रवीत्तदा शङ्खस्तीव्रकोपसमन्वितः। स्तेयं त्वया कृतमिदं फलान्याददता स्वयम् ॥ गच्छ राजानमासाद्य स्वकर्म प्रथयस्व वै ॥१२-२४-९॥
अदत्तादानमेवेदं कृतं पार्थिवसत्तम। स्तेनं मां त्वं विदित्वा च स्वधर्ममनुपालय ॥ शीघ्रं धारय चौरस्य मम दण्डं नराधिप ॥१२-२४-१०॥
इत्युक्तस्तस्य वचनात्सुद्युम्नं वसुधाधिपम्। अभ्यगच्छन्महाबाहो लिखितः संशितव्रतः ॥१२-२४-११॥
सुद्युम्नस्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतम्। अभ्यगच्छत्सहामात्यः पद्भ्यामेव नरेश्वरः ॥१२-२४-१२॥
तमब्रवीत्समागत्य स राजा ब्रह्मवित्तमम्। किमागमनमाचक्ष्व भगवन्कृतमेव तत् ॥१२-२४-१३॥
एवमुक्तः स विप्रर्षिः सुद्युम्नमिदमब्रवीत्। प्रतिश्रौषि करिष्येति श्रुत्वा तत्कर्तुमर्हसि ॥१२-२४-१४॥
अनिसृष्टानि गुरुणा फलानि पुरुषर्षभ। भक्षितानि मया राजंस्तत्र मां शाधि माचिरम् ॥१२-२४-१५॥
सुद्युम्न उवाच॥
प्रमाणं चेन्मतो राजा भवतो दण्डधारणे। अनुज्ञायामपि तथा हेतुः स्याद्ब्राह्मणर्षभ ॥१२-२४-१६॥
स भवानभ्यनुज्ञातः शुचिकर्मा महाव्रतः। ब्रूहि कामानतोऽन्यांस्त्वं करिष्यामि हि ते वचः ॥१२-२४-१७॥
व्यास उवाच॥
छन्द्यमानोऽपि ब्रह्मर्षिः पार्थिवेन महात्मना। नान्यं वै वरयामास तस्माद्दण्डादृते वरम् ॥१२-२४-१८॥
ततः स पृथिवीपालो लिखितस्य महात्मनः। करौ प्रच्छेदयामास धृतदण्डो जगाम सः ॥१२-२४-१९॥
स गत्वा भ्रातरं शङ्खमार्तरूपोऽब्रवीदिदम्। धृतदण्डस्य दुर्भुद्धेर्भगवन्क्षन्तुमर्हसि ॥१२-२४-२०॥
शङ्ख उवाच॥
न कुप्ये तव धर्मज्ञ न च दूषयसे मम। धर्मस्तु ते व्यतिक्रान्तस्ततस्ते निष्कृतिः कृता ॥१२-२४-२१॥
स गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि। देवान्पितॄनृषींश्चैव मा चाधर्मे मनः कृथाः ॥१२-२४-२२॥
व्यास उवाच॥
तस्य तद्वचनं श्रुत्वा शङ्खस्य लिखितस्तदा। अवगाह्यापगां पुण्यामुदकार्थं प्रचक्रमे ॥१२-२४-२३॥
प्रादुरास्तां ततस्तस्य करौ जलजसंनिभौ। ततः स विस्मितो भ्रातुर्दर्शयामास तौ करौ ॥१२-२४-२४॥
ततस्तमब्रवीच्छङ्खस्तपसेदं कृतं मया। मा च तेऽत्र विशङ्का भूद्दैवमेव विधीयते ॥१२-२४-२५॥
लिखित उवाच॥
किं नु नाहं त्वया पूतः पूर्वमेव महाद्युते। यस्य ते तपसो वीर्यमीदृशं द्विजसत्तम ॥१२-२४-२६॥
शङ्ख उवाच॥
एवमेतन्मया कार्यं नाहं दण्डधरस्तव। स च पूतो नरपतिस्त्वं चापि पितृभिः सह ॥१२-२४-२७॥
व्यास उवाच॥
स राजा पाण्डवश्रेष्ठ श्रेष्ठो वै तेन कर्मणा। प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा ॥१२-२४-२८॥
एष धर्मः क्षत्रियाणां प्रजानां परिपालनम्। उत्पथेऽस्मिन्महाराज मा च शोके मनः कृथाः ॥१२-२४-२९॥
भ्रातुरस्य हितं वाक्यं शृणु धर्मज्ञसत्तम। दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम् ॥१२-२४-३०॥