Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.026
Library: Sage Vyasa, taking an example of King Senajit, highlights the importance of time.
वैशम्पायन उवाच॥
द्वैपायनवचः श्रुत्वा कुपिते च धनञ्जये। व्यासमामन्त्र्य कौन्तेयः प्रत्युवाच युधिष्ठिरः ॥१२-२६-१॥
न पार्थिवमिदं राज्यं न च भोगाः पृथग्विधाः। प्रीणयन्ति मनो मेऽद्य शोको मां नर्दयत्ययम् ॥१२-२६-२॥
श्रुत्वा च वीरहीनानामपुत्राणां च योषिताम्। परिदेवयमानानां शान्तिं नोपलभे मुने ॥१२-२६-३॥
इत्युक्तः प्रत्युवाचेदं व्यासो योगविदां वरः। युधिष्ठिरं महाप्राज्ञं धर्मज्ञो वेदपारगः ॥१२-२६-४॥
न कर्मणा लभ्यते चिन्तया वा; नाप्यस्य दाता पुरुषस्य कश्चित्। पर्याययोगाद्विहितं विधात्रा; कालेन सर्वं लभते मनुष्यः ॥१२-२६-५॥
न बुद्धिशास्त्राध्ययनेन शक्यं; प्राप्तुं विशेषैर्मनुजैरकाले। मूर्खोऽपि प्राप्नोति कदाचिदर्था; न्कालो हि कार्यं प्रति निर्विशेषः ॥१२-२६-६॥
नाभूतिकाले च फलं ददाति; शिल्पं न मन्त्राश्च तथौषधानि। तान्येव कालेन समाहितानि; सिध्यन्ति चेध्यन्ति च भूतिकाले ॥१२-२६-७॥
कालेन शीघ्राः प्रविवान्ति वाताः; कालेन वृष्टिर्जलदानुपैति। कालेन पद्मोत्पलवज्जलं च; कालेन पुष्यन्ति नगा वनेषु ॥१२-२६-८॥
कालेन कृष्णाश्च सिताश्च रात्र्यः; कालेन चन्द्रः परिपूर्णबिम्बः। नाकालतः पुष्पफलं नगानां; नाकालवेगाः सरितो वहन्ति ॥१२-२६-९॥
नाकालमत्ताः खगपन्नगाश्च; मृगद्विपाः शैलमहाग्रहाश्च। नाकालतः स्त्रीषु भवन्ति गर्भा; नायान्त्यकाले शिशिरोष्णवर्षाः ॥१२-२६-१०॥
नाकालतो म्रियते जायते वा; नाकालतो व्याहरते च बालः। नाकालतो यौवनमभ्युपैति; नाकालतो रोहति बीजमुप्तम् ॥१२-२६-११॥
नाकालतो भानुरुपैति योगं; नाकालतोऽस्तं गिरिमभ्युपैति। नाकालतो वर्धते हीयते च; चन्द्रः समुद्रश्च महोर्मिमाली ॥१२-२६-१२॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर ॥१२-२६-१३॥
सर्वानेवैष पर्यायो मर्त्यान्स्पृशति दुस्तरः। कालेन परिपक्वा हि म्रियन्ते सर्वमानवाः ॥१२-२६-१४॥
घ्नन्ति चान्यान्नरा राजंस्तानप्यन्ये नरास्तथा। सञ्ज्ञैषा लौकिकी राजन्न हिनस्ति न हन्यते ॥१२-२६-१५॥
हन्तीति मन्यते कश्चिन्न हन्तीत्यपि चापरे। स्वभावतस्तु नियतौ भूतानां प्रभवाप्ययौ ॥१२-२६-१६॥
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते। अहो कष्टमिति ध्यायञ्शोकस्यापचितिं चरेत् ॥१२-२६-१७॥
स किं शोचसि मूढः सञ्शोच्यः किमनुशोचसि। पश्य दुःखेषु दुःखानि भयेषु च भयान्यपि ॥१२-२६-१८॥
आत्मापि चायं न मम सर्वापि पृथिवी मम। यथा मम तथान्येषामिति पश्यन्न मुह्यति ॥१२-२६-१९॥
शोकस्थानसहस्राणि हर्षस्थानशतानि च। दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥१२-२६-२०॥
एवमेतानि कालेन प्रियद्वेष्याणि भागशः। जीवेषु परिवर्तन्ते दुःखानि च सुखानि च ॥१२-२६-२१॥
दुःखमेवास्ति न सुखं तस्मात्तदुपलभ्यते। तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम् ॥१२-२६-२२॥
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्। न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥१२-२६-२३॥
सुखमन्ते हि दुःखानां दुःखमन्ते सुखस्य च। तस्मादेतद्द्वयं जह्याद्य इच्छेच्छाश्वतं सुखम् ॥१२-२६-२४॥
यन्निमित्तं भवेच्छोकस्तापो वा दुःखमूर्छितः। आयासो वापि यन्मूलस्तदेकाङ्गमपि त्यजेत् ॥१२-२६-२५॥
सुखं वा यदि वा दुःखं प्रियं वा यदि वाप्रियम्। प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः ॥१२-२६-२६॥
ईषदप्यङ्ग दाराणां पुत्राणां वा चराप्रियम्। ततो ज्ञास्यसि कः कस्य केन वा कथमेव वा ॥१२-२६-२७॥
ये च मूढतमा लोके ये च बुद्धेः परं गताः। त एव सुखमेधन्ते मध्यः क्लेशेन युज्यते ॥१२-२६-२८॥
इत्यब्रवीन्महाप्राज्ञो युधिष्ठिर स सेनजित्। परावरज्ञो लोकस्य धर्मवित्सुखदुःखवित् ॥१२-२६-२९॥
सुखी परस्य यो दुःखे न जातु स सुखी भवेत्। दुःखानां हि क्षयो नास्ति जायते ह्यपरात्परम् ॥१२-२६-३०॥
सुखं च दुःखं च भवाभवौ च; लाभालाभौ मरणं जीवितं च। पर्यायशः सर्वमिह स्पृशन्ति; तस्माद्धीरो नैव हृष्येन्न कुप्येत् ॥१२-२६-३१॥
दीक्षां यज्ञे पालनं युद्धमाहु; र्योगं राष्ट्रे दण्डनीत्या च सम्यक्। वित्तत्यागं दक्षिणानां च यज्ञे; सम्यग्ज्ञानं पावनानीति विद्यात् ॥१२-२६-३२॥
रक्षन्राष्ट्रं बुद्धिपूर्वं नयेन; सन्त्यक्तात्मा यज्ञशीलो महात्मा। सर्वाँल्लोकान्धर्ममूर्त्या चरंश्चा; प्यूर्ध्वं देहान्मोदते देवलोके ॥१२-२६-३३॥
जित्वा सङ्ग्रामान्पालयित्वा च राष्ट्रं; सोमं पीत्वा वर्धयित्वा प्रजाश्च। युक्त्या दण्डं धारयित्वा प्रजानां; युद्धे क्षीणो मोदते देवलोके ॥१२-२६-३४॥
सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य; सम्यग्राष्ट्रं पालयित्वा च राजा। चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे; पूतात्मा वै मोदते देवलोके ॥१२-२६-३५॥
यस्य वृत्तं नमस्यन्ति स्वर्गस्थस्यापि मानवाः। पौरजानपदामात्याः स राजा राजसत्तमः ॥१२-२६-३६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.