12.027
Library: When Yudhishthira speaks of giving up his life, sage Vyasa advises, act in accordance with how you have been created by the Creator, in your duties. You are not the master of your own self.
युधिष्ठिर उवाच॥
अभिमन्यौ हते बाले द्रौपद्यास्तनयेषु च। धृष्टद्युम्ने विराटे च द्रुपदे च महीपतौ ॥१२-२७-१॥
वसुषेणे च धर्मज्ञे धृष्टकेतौ च पार्थिवे। तथान्येषु नरेन्द्रेषु नानादेश्येषु संयुगे ॥१२-२७-२॥
न विमुञ्चति मां शोको ज्ञातिघातिनमातुरम्। राज्यकामुकमत्युग्रं स्ववंशोच्छेदकारकम् ॥१२-२७-३॥
यस्याङ्के क्रीडमानेन मया वै परिवर्तितम्। स मया राज्यलुब्धेन गाङ्गेयो विनिपातितः ॥१२-२७-४॥
यदा ह्येनं विघूर्णन्तमपश्यं पार्थसायकैः। कम्पमानं यथा वज्रैः प्रेक्षमाणं शिखण्डिनम् ॥१२-२७-५॥
जीर्णं सिंहमिव प्रांशुं नरसिंहं पितामहम्। कीर्यमाणं शरैस्तीक्ष्णैर्दृष्ट्वा मे व्यथितं मनः ॥१२-२७-६॥
प्राङ्मुखं सीदमानं च रथादपच्युतं शरैः। घूर्णमानं यथा शैलं तदा मे कश्मलोऽभवत् ॥१२-२७-७॥
यः स बाणधनुष्पाणिर्योधयामास भार्गवम्। बहून्यहानि कौरव्यः कुरुक्षेत्रे महामृधे ॥१२-२७-८॥
समेतं पार्थिवं क्षत्रं वाराणस्यां नदीसुतः। कन्यार्थमाह्वयद्वीरो रथेनैकेन संयुगे ॥१२-२७-९॥
येन चोग्रायुधो राजा चक्रवर्ती दुरासदः। दग्धः शस्त्रप्रतापेन स मया युधि घातितः ॥१२-२७-१०॥
स्वयं मृत्युं रक्षमाणः पाञ्चाल्यं यः शिखण्डिनम्। न बाणैः पातयामास सोऽर्जुनेन निपातितः ॥१२-२७-११॥
यदैनं पतितं भूमावपश्यं रुधिरोक्षितम्। तदैवाविशदत्युग्रो ज्वरो मे मुनिसत्तम ॥ येन संवर्धिता बाला येन स्म परिरक्षिताः ॥१२-२७-१२॥
स मया राज्यलुब्धेन पापेन गुरुघातिना। अल्पकालस्य राज्यस्य कृते मूढेन घातितः ॥१२-२७-१३॥
आचार्यश्च महेष्वासः सर्वपार्थिवपूजितः। अभिगम्य रणे मिथ्या पापेनोक्तः सुतं प्रति ॥१२-२७-१४॥
तन्मे दहति गात्राणि यन्मां गुरुरभाषत। सत्यवाक्यो हि राजंस्त्वं यदि जीवति मे सुतः ॥ सत्यं मा मर्शयन्विप्रो मयि तत्परिपृष्टवान् ॥१२-२७-१५॥
कुञ्जरं चान्तरं कृत्वा मिथ्योपचरितं मया। सुभृशं राज्यलुब्धेन पापेन गुरुघातिना ॥१२-२७-१६॥
सत्यकञ्चुकमास्थाय मयोक्तो गुरुराहवे। अश्वत्थामा हत इति कुञ्जरे विनिपातिते ॥ कान्नु लोकान्गमिष्यामि कृत्वा तत्कर्म दारुणम् ॥१२-२७-१७॥
अघातयं च यत्कर्णं समरेष्वपलायिनम्। ज्येष्ठं भ्रातरमत्युग्रं को मत्तः पापकृत्तमः ॥१२-२७-१८॥
अभिमन्युं च यद्बालं जातं सिंहमिवाद्रिषु। प्रावेशयमहं लुब्धो वाहिनीं द्रोणपालिताम् ॥१२-२७-१९॥
तदाप्रभृति बीभत्सुं न शक्नोमि निरीक्षितुम्। कृष्णं च पुण्डरीकाक्षं किल्बिषी भ्रूणहा यथा ॥१२-२७-२०॥
द्रौपदीं चाप्यदुःखार्हां पञ्चपुत्रविनाकृताम्। शोचामि पृथिवीं हीनां पञ्चभिः पर्वतैरिव ॥१२-२७-२१॥
सोऽहमागस्करः पापः पृथिवीनाशकारकः। आसीन एवमेवेदं शोषयिष्ये कलेवरम् ॥१२-२७-२२॥
प्रायोपविष्टं जानीध्वमद्य मां गुरुघातिनम्। जातिष्वन्यास्वपि यथा न भवेयं कुलान्तकृत् ॥१२-२७-२३॥
न भोक्ष्ये न च पानीयमुपयोक्ष्ये कथञ्चन। शोषयिष्ये प्रियान्प्राणानिहस्थोऽहं तपोधन ॥१२-२७-२४॥
यथेष्टं गम्यतां काममनुजाने प्रसाद्य वः। सर्वे मामनुजानीत त्यक्ष्यामीदं कलेवरम् ॥१२-२७-२५॥
वैशम्पायन उवाच॥
तमेवंवादिनं पार्थं बन्धुशोकेन विह्वलम्। मैवमित्यब्रवीद्व्यासो निगृह्य मुनिसत्तमः ॥१२-२७-२६॥
अतिवेलं महाराज न शोकं कर्तुमर्हसि। पुनरुक्तं प्रवक्ष्यामि दिष्टमेतदिति प्रभो ॥१२-२७-२७॥
संयोगा विप्रयोगाश्च जातानां प्राणिनां ध्रुवम्। बुद्बुदा इव तोयेषु भवन्ति न भवन्ति च ॥१२-२७-२८॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः। संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥१२-२७-२९॥
सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम्। भूतिः श्रीर्ह्रीर्धृतिः सिद्धिर्नादक्षे निवसन्त्युत ॥१२-२७-३०॥
नालं सुखाय सुहृदो नालं दुःखाय दुर्हृदः। न च प्रज्ञालमर्थेभ्यो न सुखेभ्योऽप्यलं धनम् ॥१२-२७-३१॥
यथा सृष्टोऽसि कौन्तेय धात्रा कर्मसु तत्कुरु। अत एव हि सिद्धिस्ते नेशस्त्वमात्मना नृप ॥१२-२७-३२॥