Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.025
Library: Vyasa narrates the story of Hayagriva, how after properly acquiring the Vedas and studying the śāstras, and after rightly protecting the kingdom, the noble-souled Vājigrīva, having established the fourfold order in his own duty, rejoices in the world of the gods.
वैशम्पायन उवाच॥
पुनरेव महर्षिस्तं कृष्णद्वैपायनोऽब्रवीत्। अजातशत्रुं कौन्तेयमिदं वचनमर्थवत् ॥१२-२५-१॥
अरण्ये वसतां तात भ्रातॄणां ते तपस्विनाम्। मनोरथा महाराज ये तत्रासन्युधिष्ठिर ॥१२-२५-२॥
तानिमे भरतश्रेष्ठ प्राप्नुवन्तु महारथाः। प्रशाधि पृथिवीं पार्थ ययातिरिव नाहुषः ॥१२-२५-३॥
अरण्ये दुःखवसतिरनुभूता तपस्विभिः। दुःखस्यान्ते नरव्याघ्राः सुखं त्वनुभवन्त्विमे ॥१२-२५-४॥
धर्ममर्थं च कामं च भ्रातृभिः सह भारत। अनुभूय ततः पश्चात्प्रस्थातासि विशां पते ॥१२-२५-५॥
अतिथीनां च पितॄणां देवतानां च भारत। आनृण्यं गच्छ कौन्तेय ततः स्वर्गं गमिष्यसि ॥१२-२५-६॥
सर्वमेधाश्वमेधाभ्यां यजस्व कुरुनन्दन। ततः पश्चान्महाराज गमिष्यसि परां गतिम् ॥१२-२५-७॥
भ्रातॄंश्च सर्वान्क्रतुभिः संयोज्य बहुदक्षिणैः। सम्प्राप्तः कीर्तिमतुलां पाण्डवेय भविष्यसि ॥१२-२५-८॥
विद्म ते पुरुषव्याघ्र वचनं कुरुनन्दन। शृणु मच्च यथा कुर्वन्धर्मान्न च्यवते नृपः ॥१२-२५-९॥
आददानस्य च धनं निग्रहं च युधिष्ठिर। समानं धर्मकुशलाः स्थापयन्ति नरेश्वर ॥१२-२५-१०॥
देशकालप्रतीक्षे यो दस्योर्दर्शयते नृपः। शास्त्रजां बुद्धिमास्थाय नैनसा स हि युज्यते ॥१२-२५-११॥
आदाय बलिषड्भागं यो राष्ट्रं नाभिरक्षति। प्रतिगृह्णाति तत्पापं चतुर्थांशेन पार्थिवः ॥१२-२५-१२॥
निबोध च यथातिष्ठन्धर्मान्न च्यवते नृपः। निग्रहाद्धर्मशास्त्राणामनुरुध्यन्नपेतभीः ॥ कामक्रोधावनादृत्य पितेव समदर्शनः ॥१२-२५-१३॥
दैवेनोपहते राजा कर्मकाले महाद्युते। प्रमादयति तत्कर्म न तत्राहुरतिक्रमम् ॥१२-२५-१४॥
तरसा बुद्धिपूर्वं वा निग्राह्या एव शत्रवः। पापैः सह न संदध्याद्राष्ट्रं पण्यं न कारयेत् ॥१२-२५-१५॥
शूराश्चार्याश्च सत्कार्या विद्वांसश्च युधिष्ठिर। गोमतो धनिनश्चैव परिपाल्या विशेषतः ॥१२-२५-१६॥
व्यवहारेषु धर्म्येषु नियोज्याश्च बहुश्रुताः। गुणयुक्तेऽपि नैकस्मिन्विश्वस्याच्च विचक्षणः ॥१२-२५-१७॥
अरक्षिता दुर्विनीतो मानी स्तब्धोऽभ्यसूयकः। एनसा युज्यते राजा दुर्दान्त इति चोच्यते ॥१२-२५-१८॥
येऽरक्ष्यमाणा हीयन्ते दैवेनोपहते नृपे। तस्करैश्चापि हन्यन्ते सर्वं तद्राजकिल्बिषम् ॥१२-२५-१९॥
सुमन्त्रिते सुनीते च विधिवच्चोपपादिते। पौरुषे कर्मणि कृते नास्त्यधर्मो युधिष्ठिर ॥१२-२५-२०॥
विपद्यन्ते समारम्भाः सिध्यन्त्यपि च दैवतः। कृते पुरुषकारे तु नैनः स्पृशति पार्थिवम् ॥१२-२५-२१॥
अत्र ते राजशार्दूल वर्तयिष्ये कथामिमाम्। यद्वृत्तं पूर्वराजर्षेर्हयग्रीवस्य पार्थिव ॥१२-२५-२२॥
शत्रून्हत्वा हतस्याजौ शूरस्याक्लिष्टकर्मणः। असहायस्य धीरस्य निर्जितस्य युधिष्ठिर ॥१२-२५-२३॥
यत्कर्म वै निग्रहे शात्रवाणां; योगश्चाग्र्यः पालने मानवानाम्। कृत्वा कर्म प्राप्य कीर्तिं सुयुद्धे; वाजिग्रीवो मोदते देवलोके ॥१२-२५-२४॥
सन्त्यक्तात्मा समरेष्वाततायी; शस्त्रैश्छिन्नो दस्युभिरर्द्यमानः। अश्वग्रीवः कर्मशीलो महात्मा; संसिद्धात्मा मोदते देवलोके ॥१२-२५-२५॥
धनुर्यूपो रशना ज्या शरः स्रु; क्स्रुवः खड्गो रुधिरं यत्र चाज्यम्। रथो वेदी कामगो युद्धमग्नि; श्चातुर्होत्रं चतुरो वाजिमुख्याः ॥१२-२५-२६॥
हुत्वा तस्मिन्यज्ञवह्नावथारी; न्पापान्मुक्तो राजसिंहस्तरस्वी। प्राणान्हुत्वा चावभृथे रणे स; वाजिग्रीवो मोदते देवलोके ॥१२-२५-२७॥
राष्ट्रं रक्षन्बुद्धिपूर्वं नयेन; सन्त्यक्तात्मा यज्ञशीलो महात्मा। सर्वाँल्लोकान्व्याप्य कीर्त्या मनस्वी; वाजिग्रीवो मोदते देवलोके ॥१२-२५-२८॥
दैवीं सिद्धिं मानुषीं दण्डनीतिं; योगन्यायैः पालयित्वा महीं च। तस्माद्राजा धर्मशीलो महात्मा; हयग्रीवो मोदते स्वर्गलोके ॥१२-२५-२९॥
विद्वांस्त्यागी श्रद्दधानः कृतज्ञ; स्त्यक्त्वा लोकं मानुषं कर्म कृत्वा। मेधाविनां विदुषां संमतानां; तनुत्यजां लोकमाक्रम्य राजा ॥१२-२५-३०॥
सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य; सम्यग्राष्ट्रं पालयित्वा महात्मा। चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे; वाजिग्रीवो मोदते देवलोके ॥१२-२५-३१॥
जित्वा सङ्ग्रामान्पालयित्वा प्रजाश्च; सोमं पीत्वा तर्पयित्वा द्विजाग्र्यान्। युक्त्या दण्डं धारयित्वा प्रजानां; युद्धे क्षीणो मोदते देवलोके ॥१२-२५-३२॥
वृत्तं यस्य श्लाघनीयं मनुष्याः; सन्तो विद्वांसश्चार्हयन्त्यर्हणीयाः। स्वर्गं जित्वा वीरलोकांश्च गत्वा; सिद्धिं प्राप्तः पुण्यकीर्तिर्महात्मा ॥१२-२५-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.