Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.053
Pancharatra: The Pandavas, along with Krishna and Satyaki, purify themselves and visit Bhishma, leaving behind the army and others.
वैशम्पायन उवाच॥
ततः प्रविश्य भवनं प्रसुप्तो मधुसूदनः। याममात्रावशेषायां यामिन्यां प्रत्यबुध्यत ॥१२-५३-१॥
स ध्यानपथमाश्रित्य सर्वज्ञानानि माधवः। अवलोक्य ततः पश्चाद्दध्यौ ब्रह्म सनातनम् ॥१२-५३-२॥
ततः श्रुतिपुराणज्ञाः शिक्षिता रक्तकण्ठिनः। अस्तुवन्विश्वकर्माणं वासुदेवं प्रजापतिम् ॥१२-५३-३॥
पठन्ति पाणिस्वनिकास्तथा गायन्ति गायनाः। शङ्खानकमृदङ्गांश्च प्रवाद्यन्त सहस्रशः ॥१२-५३-४॥
वीणापणववेणूनां स्वनश्चातिमनोरमः। प्रहास इव विस्तीर्णः शुश्रुवे तस्य वेश्मनः ॥१२-५३-५॥
तथा युधिष्ठिरस्यापि राज्ञो मङ्गलसंहिताः। उच्चेरुर्मधुरा वाचो गीतवादित्रसंहिताः ॥१२-५३-६॥
तत उत्थाय दाशार्हः स्नातः प्राञ्जलिरच्युतः। जप्त्वा गुह्यं महाबाहुरग्नीनाश्रित्य तस्थिवान् ॥१२-५३-७॥
ततः सहस्रं विप्राणां चतुर्वेदविदां तथा। गवां सहस्रेणैकैकं वाचयामास माधवः ॥१२-५३-८॥
मङ्गलालम्भनं कृत्वा आत्मानमवलोक्य च। आदर्शे विमले कृष्णस्ततः सात्यकिमब्रवीत् ॥१२-५३-९॥
गच्छ शैनेय जानीहि गत्वा राजनिवेशनम्। अपि सज्जो महातेजा भीष्मं द्रष्टुं युथिष्ठिरः ॥१२-५३-१०॥
ततः कृष्णस्य वचनात्सात्यकिस्त्वरितो ययौ। उपगम्य च राजानं युधिष्ठिरमुवाच ह ॥१२-५३-११॥
युक्तो रथवरो राजन्वासुदेवस्य धीमतः। समीपमापगेयस्य प्रयास्यति जनार्दनः ॥१२-५३-१२॥
भवत्प्रतीक्षः कृष्णोऽसौ धर्मराज महाद्युते। यदत्रानन्तरं कृत्यं तद्भवान्कर्तुमर्हति ॥१२-५३-१३॥
युधिष्ठिर उवाच॥
युज्यतां मे रथवरः फल्गुनाप्रतिमद्युते। न सैनिकैश्च यातव्यं यास्यामो वयमेव हि ॥१२-५३-१४॥
न च पीडयितव्यो मे भीष्मो धर्मभृतां वरः। अतः पुरःसराश्चापि निवर्तन्तु धनञ्जय ॥१२-५३-१५॥
अद्यप्रभृति गाङ्गेयः परं गुह्यं प्रवक्ष्यति। ततो नेच्छामि कौन्तेय पृथग्जनसमागमम् ॥१२-५३-१६॥
वैशम्पायन उवाच॥
तद्वाक्यमाकर्ण्य तथा कुन्तीपुत्रो धनञ्जयः। युक्तं रथवरं तस्मा आचचक्षे नरर्षभ ॥१२-५३-१७॥
ततो युधिष्ठिरो राजा यमौ भीमार्जुनावपि। भूतानीव समस्तानि ययुः कृष्णनिवेशनम् ॥१२-५३-१८॥
आगच्छत्स्वथ कृष्णोऽपि पाण्डवेषु महात्मसु। शैनेयसहितो धीमान्रथमेवान्वपद्यत ॥१२-५३-१९॥
रथस्थाः संविदं कृत्वा सुखां पृष्ट्वा च शर्वरीम्। मेघघोषै रथवरैः प्रययुस्ते महारथाः ॥१२-५३-२०॥
मेघपुष्पं बलाहं च सैन्यं सुग्रीवमेव च। दारुकश्चोदयामास वासुदेवस्य वाजिनः ॥१२-५३-२१॥
ते हया वासुदेवस्य दारुकेण प्रचोदिताः। गां खुराग्रैस्तथा राजँल्लिखन्तः प्रययुस्तदा ॥१२-५३-२२॥
ते ग्रसन्त इवाकाशं वेगवन्तो महाबलाः। क्षेत्रं धर्मस्य कृत्स्नस्य कुरुक्षेत्रमवातरन् ॥१२-५३-२३॥
ततो ययुर्यत्र भीष्मः शरतल्पगतः प्रभुः। आस्ते ब्रह्मर्षिभिः सार्धं ब्रह्मा देवगणैर्यथा ॥१२-५३-२४॥
ततोऽवतीर्य गोविन्दो रथात्स च युधिष्ठिरः। भीमो गाण्डीवधन्वा च यमौ सात्यकिरेव च ॥ ऋषीनभ्यर्चयामासुः करानुद्यम्य दक्षिणान् ॥१२-५३-२५॥
स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः। अभ्याजगाम गाङ्गेयं ब्रह्माणमिव वासवः ॥१२-५३-२६॥
शरतल्पे शयानं तमादित्यं पतितं यथा। ददर्श स महाबाहुर्भयादागतसाध्वसः ॥१२-५३-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.