12.057
Pancharatra: Bhishma continues to instruct royal duties: a teacher, a friend, or a son who acts with evil must certainly be counteracted; should not harm the wealth of others; support those who are not maintained and oversee those who are maintained; be pleasant-faced, and speak to others with a smile; oversees the tasks with focus that have been started but not completed; in whose domain men move about fearlessly like sons in the house of their father; whose wealth is open, whose citizens and subjects are knowledgeable in right and wrong conduct; who honours knowledge; whose spies and counselors are always vigilant in both accomplished and unaccomplished matters.
भीष्म उवाच॥
नित्योद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर। प्रशाम्यते च राजा हि नारीवोद्यमवर्जितः ॥१२-५७-१॥
भगवानुशना चाह श्लोकमत्र विशां पते। तमिहैकमना राजन्गदतस्त्वं निबोध मे ॥१२-५७-२॥
द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव। राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥१२-५७-३॥
तदेतन्नरशार्दूल हृदि त्वं कर्तुमर्हसि। सन्धेयानपि सन्धत्स्व विरोध्यांश्च विरोधय ॥१२-५७-४॥
सप्ताङ्गे यश्च ते राज्ये वैपरीत्यं समाचरेत्। गुरुर्वा यदि वा मित्रं प्रतिहन्तव्य एव सः ॥१२-५७-५॥
मरुत्तेन हि राज्ञायं गीतः श्लोकः पुरातनः। राज्याधिकारे राजेन्द्र बृहस्पतिमतः पुरा ॥१२-५७-६॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥१२-५७-७॥
बाहोः पुत्रेण राज्ञा च सगरेणेह धीमता। असमञ्जाः सुतो ज्येष्ठस्त्यक्तः पौरहितैषिणा ॥१२-५७-८॥
असमञ्जाः सरय्वां प्राक्पौराणां बालकान्नृप। न्यमज्जयदतः पित्रा निर्भर्त्स्य स विवासितः ॥१२-५७-९॥
ऋषिणोद्दालकेनापि श्वेतकेतुर्महातपाः। मिथ्या विप्रानुपचरन्सन्त्यक्तो दयितः सुतः ॥१२-५७-१०॥
लोकरञ्जनमेवात्र राज्ञां धर्मः सनातनः। सत्यस्य रक्षणं चैव व्यवहारस्य चार्जवम् ॥१२-५७-११॥
न हिंस्यात्परवित्तानि देयं काले च दापयेत्। विक्रान्तः सत्यवाक्क्षान्तो नृपो न चलते पथः ॥१२-५७-१२॥
गुप्तमन्त्रो जितक्रोधो शास्त्रार्थगतनिश्चयः। धर्मे चार्थे च कामे च मोक्षे च सततं रतः ॥१२-५७-१३॥
त्रय्या संवृतरन्ध्रश्च राजा भवितुमर्हति। वृजिनस्य नरेन्द्राणां नान्यत्संवरणात्परम् ॥१२-५७-१४॥
चातुर्वर्ण्यस्य धर्माश्च रक्षितव्या महीक्षिता। धर्मसङ्कररक्षा हि राज्ञां धर्मः सनातनः ॥१२-५७-१५॥
न विश्वसेच्च नृपतिर्न चात्यर्थं न विश्वसेत्। षाड्गुण्यगुणदोषांश्च नित्यं बुद्ध्यावलोकयेत् ॥१२-५७-१६॥
द्विट्छिद्रदर्शी नृपतिर्नित्यमेव प्रशस्यते। त्रिवर्गविदितार्थश्च युक्तचारोपधिश्च यः ॥१२-५७-१७॥
कोशस्योपार्जनरतिर्यमवैश्रवणोपमः। वेत्ता च दशवर्गस्य स्थानवृद्धिक्षयात्मनः ॥१२-५७-१८॥
अभृतानां भवेद्भर्ता भृतानां चान्ववेक्षकः। नृपतिः सुमुखश्च स्यात्स्मितपूर्वाभिभाषिता ॥१२-५७-१९॥
उपासिता च वृद्धानां जिततन्द्रीरलोलुपः। सतां वृत्ते स्थितमतिः सन्तो ह्याचारदर्शिनः ॥१२-५७-२०॥
न चाददीत वित्तानि सतां हस्तात्कदाचन। असद्भ्यस्तु समादद्यात्सद्भ्यः सम्प्रतिपादयेत् ॥१२-५७-२१॥
स्वयं प्रहर्तादाता च वश्यात्मा वश्यसाधनः। काले दाता च भोक्ता च शुद्धाचारस्तथैव च ॥१२-५७-२२॥
शूरान्भक्तानसंहार्यान्कुले जातानरोगिणः। शिष्टाञ्शिष्टाभिसम्बन्धान्मानिनो नावमानिनः ॥१२-५७-२३॥
विद्याविदो लोकविदः परलोकान्ववेक्षकान्। धर्मेषु निरतान्साधूनचलानचलानिव ॥१२-५७-२४॥
सहायान्सततं कुर्याद्राजा भूतिपुरस्कृतः। तैस्तुल्यश्च भवेद्भोगैश्छत्रमात्राज्ञयाधिकः ॥१२-५७-२५॥
प्रत्यक्षा च परोक्षा च वृत्तिश्चास्य भवेत्सदा। एवं कृत्वा नरेन्द्रो हि न खेदमिह विन्दति ॥१२-५७-२६॥
सर्वातिशङ्की नृपतिर्यश्च सर्वहरो भवेत्। स क्षिप्रमनृजुर्लुब्धः स्वजनेनैव बाध्यते ॥१२-५७-२७॥
शुचिस्तु पृथिवीपालो लोकचित्तग्रहे रतः। न पतत्यरिभिर्ग्रस्तः पतितश्चावतिष्ठते ॥१२-५७-२८॥
अक्रोधनोऽथाव्यसनी मृदुदण्डो जितेन्द्रियः। राजा भवति भूतानां विश्वास्यो हिमवानिव ॥१२-५७-२९॥
प्राज्ञो न्यायगुणोपेतः पररन्ध्रेषु तत्परः। सुदर्शः सर्ववर्णानां नयापनयवित्तथा ॥१२-५७-३०॥
क्षिप्रकारी जितक्रोधः सुप्रसादो महामनाः। अरोगप्रकृतिर्युक्तः क्रियावानविकत्थनः ॥१२-५७-३१॥
आरब्धान्येव कार्याणि न पर्यवसितानि च। यस्य राज्ञः प्रदृश्यन्ते स राजा राजसत्तमः ॥१२-५७-३२॥
पुत्रा इव पितुर्गेहे विषये यस्य मानवाः। निर्भया विचरिष्यन्ति स राजा राजसत्तमः ॥१२-५७-३३॥
अगूढविभवा यस्य पौरा राष्ट्रनिवासिनः। नयापनयवेत्तारः स राजा राजसत्तमः ॥१२-५७-३४॥
स्वकर्मनिरता यस्य जना विषयवासिनः। असङ्घातरता दान्ताः पाल्यमाना यथाविधि ॥१२-५७-३५॥
वश्या नेया विनीताश्च न च सङ्घर्षशीलिनः। विषये दानरुचयो नरा यस्य स पार्थिवः ॥१२-५७-३६॥
न यस्य कूटकपटं न माया न च मत्सरः। विषये भूमिपालस्य तस्य धर्मः सनातनः ॥१२-५७-३७॥
यः सत्करोति ज्ञानानि नेयः पौरहिते रतः। सतां धर्मानुगस्त्यागी स राजा राज्यमर्हति ॥१२-५७-३८॥
यस्य चारश्च मन्त्रश्च नित्यं चैव कृताकृते। न ज्ञायते हि रिपुभिः स राजा राज्यमर्हति ॥१२-५७-३९॥
श्लोकश्चायं पुरा गीतो भार्गवेण महात्मना। आख्याते रामचरिते नृपतिं प्रति भारत ॥१२-५७-४०॥
राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम्। राजन्यसति लोकस्य कुतो भार्या कुतो धनम् ॥१२-५७-४१॥
तद्राजन्राजसिंहानां नान्यो धर्मः सनातनः। ऋते रक्षां सुविस्पष्टां रक्षा लोकस्य धारणम् ॥१२-५७-४२॥
प्राचेतसेन मनुना श्लोकौ चेमावुदाहृतौ। राजधर्मेषु राजेन्द्र ताविहैकमनाः शृणु ॥१२-५७-४३॥
षडेतान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे। अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥१२-५७-४४॥
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम्। ग्रामकामं च गोपालं वनकामं च नापितम् ॥१२-५७-४५॥