Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.062
Library: A Brahmana engaging in the duties of other orders is not recommended. Same holds good for others.
युधिष्ठिर उवाच॥
शिवान्सुखान्महोदर्कानहिंस्राँल्लोकसंमतान्। ब्रूहि धर्मान्सुखोपायान्मद्विधानां सुखावहान् ॥१२-६२-१॥
भीष्म उवाच॥
ब्राह्मणस्येह चत्वार आश्रमा विहिताः प्रभो। वर्णास्ताननुवर्तन्ते त्रयो भरतसत्तम ॥१२-६२-२॥
उक्तानि कर्माणि बहूनि राज; न्स्वर्ग्याणि राजन्यपरायणानि। नेमानि दृष्टान्तविधौ स्मृतानि; क्षात्रे हि सर्वं विहितं यथावत् ॥१२-६२-३॥
क्षात्राणि वैश्यानि च सेवमानः; शौद्राणि कर्माणि च ब्राह्मणः सन्। अस्मिँल्लोके निन्दितो मन्दचेताः; परे च लोके निरयं प्रयाति ॥१२-६२-४॥
या सञ्ज्ञा विहिता लोके दासे शुनि वृके पशौ। विकर्मणि स्थिते विप्रे तां सञ्ज्ञां कुरु पाण्डव ॥१२-६२-५॥
षट्कर्मसम्प्रवृत्तस्य आश्रमेषु चतुर्ष्वपि। सर्वधर्मोपपन्नस्य सम्भूतस्य कृतात्मनः ॥१२-६२-६॥
ब्राह्मणस्य विशुद्धस्य तपस्यभिरतस्य च। निराशिषो वदान्यस्य लोका ह्यक्षरसञ्ज्ञिताः ॥१२-६२-७॥
यो यस्मिन्कुरुते कर्म यादृशं येन यत्र च। तादृशं तादृशेनैव स गुणं प्रतिपद्यते ॥१२-६२-८॥
वृद्ध्या कृषिवणिक्त्वेन जीवसञ्जीवनेन च। वेत्तुमर्हसि राजेन्द्र स्वाध्यायगणितं महत् ॥१२-६२-९॥
कालसञ्चोदितः कालः कालपर्यायनिश्चितः। उत्तमाधममध्यानि कर्माणि कुरुतेऽवशः ॥१२-६२-१०॥
अन्तवन्ति प्रदानानि पुरा श्रेयस्कराणि च। स्वकर्मनिरतो लोको ह्यक्षरः सर्वतोमुखः ॥१२-६२-११॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.