12.061
Library: Ashrama dharmas elaborated by referencing Nārāyaṇa Gīta
भीष्म उवाच॥
आश्रमाणां महाबाहो शृणु सत्यपराक्रम। चतुर्णामिह वर्णानां कर्माणि च युधिष्ठिर ॥१२-६१-१॥
वानप्रस्थं भैक्षचर्यां गार्हस्थ्यं च महाश्रमम्। ब्रह्मचर्याश्रमं प्राहुश्चतुर्थं ब्राह्मणैर्वृतम् ॥१२-६१-२॥
जटाकरणसंस्कारं द्विजातित्वमवाप्य च। आधानादीनि कर्माणि प्राप्य वेदमधीत्य च ॥१२-६१-३॥
सदारो वाप्यदारो वा आत्मवान्संयतेन्द्रियः। वानप्रस्थाश्रमं गच्छेत्कृतकृत्यो गृहाश्रमात् ॥१२-६१-४॥
तत्रारण्यकशास्त्राणि समधीत्य स धर्मवित्। ऊर्ध्वरेताः प्रजायित्वा गच्छत्यक्षरसात्मताम् ॥१२-६१-५॥
एतान्येव निमित्तानि मुनीनामूर्ध्वरेतसाम्। कर्तव्यानीह विप्रेण राजन्नादौ विपश्चिता ॥१२-६१-६॥
चरितब्रह्मचर्यस्य ब्राह्मणस्य विशां पते। भैक्षचर्यास्वधीकारः प्रशस्त इह मोक्षिणः ॥१२-६१-७॥
यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः। यथोपलब्धजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः ॥१२-६१-८॥
निराशीः स्यात्सर्वसमो निर्भोगो निर्विकारवान्। विप्रः क्षेमाश्रमं प्राप्तो गच्छत्यक्षरसात्मताम् ॥१२-६१-९॥
अधीत्य वेदान्कृतसर्वकृत्यः; सन्तानमुत्पाद्य सुखानि भुक्त्वा। समाहितः प्रचरेद्दुश्चरं तं; गार्हस्थ्यधर्मं मुनिधर्मदृष्टम् ॥१२-६१-१०॥
स्वदारतुष्ट ऋतुकालगामी; नियोगसेवी नशठो नजिह्मः। मिताशनो देवपरः कृतज्ञः; सत्यो मृदुश्चानृशंसः क्षमावान् ॥१२-६१-११॥
दान्तो विधेयो हव्यकव्येऽप्रमत्तो; अन्नस्य दाता सततं द्विजेभ्यः। अमत्सरी सर्वलिङ्गिप्रदाता; वैताननित्यश्च गृहाश्रमी स्यात् ॥१२-६१-१२॥
अथात्र नारायणगीतमाहु; र्महर्षयस्तात महानुभावाः। महार्थमत्यर्थतपःप्रयुक्तं; तदुच्यमानं हि मया निबोध ॥१२-६१-१३॥
सत्यार्जवं चातिथिपूजनं च; धर्मस्तथार्थश्च रतिश्च दारे। निषेवितव्यानि सुखानि लोके; ह्यस्मिन्परे चैव मतं ममैतत् ॥१२-६१-१४॥
भरणं पुत्रदाराणां वेदानां पारणं तथा। सतां तमाश्रमं श्रेष्ठं वदन्ति परमर्षयः ॥१२-६१-१५॥
एवं हि यो ब्राह्मणो यज्ञशीलो; गार्हस्थ्यमध्यावसते यथावत्। गृहस्थवृत्तिं प्रविशोध्य सम्य; क्स्वर्गे विषुद्धं फलमाप्नुते सः ॥१२-६१-१६॥
तस्य देहपरित्यागादिष्टाः कामाक्षया मताः। आनन्त्यायोपतिष्ठन्ति सर्वतोक्षिशिरोमुखाः ॥१२-६१-१७॥
खादन्नेको जपन्नेकः सर्पन्नेको युधिष्ठिर। एकस्मिन्नेव आचार्ये शुश्रूषुर्मलपङ्कवान् ॥१२-६१-१८॥
ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी। अविचार्य तथा वेदं कृत्यं कुर्वन्वसेत्सदा ॥१२-६१-१९॥
शुश्रूषां सततं कुर्वन्गुरोः सम्प्रणमेत च। षट्कर्मस्वनिवृत्तश्च नप्रवृत्तश्च सर्वशः ॥१२-६१-२०॥
न चरत्यधिकारेण सेवितं द्विषतो न च। एषोऽऽश्रमपदस्तात ब्रह्मचारिण इष्यते ॥१२-६१-२१॥