12.063
Library: Bhishma highlights the importance of kindly duties to sustain and govern four classes and four orders.
भीष्म उवाच॥
ज्याकर्षणं शत्रुनिबर्हणं च; कृषिर्वणिज्या पशुपालनं च। शुश्रूषणं चापि तथार्थहेतो; रकार्यमेतत्परमं द्विजस्य ॥१२-६३-१॥
सेव्यं तु ब्रह्मषट्कर्म गृहस्थेन मनीषिणा। कृतकृत्यस्य चारण्ये वासो विप्रस्य शस्यते ॥१२-६३-२॥
राजप्रैष्यं कृषिधनं जीवनं च वणिज्यया। कौटिल्यं कौलटेयं च कुसीदं च विवर्जयेत् ॥१२-६३-३॥
शूद्रो राजन्भवति ब्रह्मबन्धु; र्दुश्चारित्र्यो यश्च धर्मादपेतः। वृषलीपतिः पिशुनो नर्तकश्च; ग्रामप्रैष्यो यश्च भवेद्विकर्मा ॥१२-६३-४॥
जपन्वेदानजपंश्चापि राज; न्समः शूद्रैर्दासवच्चापि भोज्यः। एते सर्वे शूद्रसमा भवन्ति; राजन्नेतान्वर्जयेद्देवकृत्ये ॥१२-६३-५॥
निर्मर्यादे चाशने क्रूरवृत्तौ; हिंसात्मके त्यक्तधर्मस्ववृत्ते। हव्यं कव्यं यानि चान्यानि राज; न्देयान्यदेयानि भवन्ति तस्मिन् ॥१२-६३-६॥
तस्माद्धर्मो विहितो ब्राह्मणस्य; दमः शौचं चार्जवं चापि राजन्। तथा विप्रस्याश्रमाः सर्व एव; पुरा राजन्ब्रह्मणा वै निसृष्टाः ॥१२-६३-७॥
यः स्याद्दान्तः सोमप आर्यशीलः; सानुक्रोशः सर्वसहो निराशीः। ऋजुर्मृदुरनृशंसः क्षमावान् स वै विप्रो नेतरः पापकर्मा ॥१२-६३-८॥
शूद्रं वैश्यं राजपुत्रं च राजँ; ल्लोकाः सर्वे संश्रिता धर्मकामाः। तस्माद्वर्णाञ्जातिधर्मेषु सक्ता; न्मत्वा विष्णुर्नेच्छति पाण्डुपुत्र ॥१२-६३-९॥
लोके चेदं सर्वलोकस्य न स्या; च्चातुर्वर्ण्यं वेदवादाश्च न स्युः। सर्वाश्चेज्याः सर्वलोकक्रियाश्च; सद्यः सर्वे चाश्रमस्था न वै स्युः ॥१२-६३-१०॥
यश्च त्रयाणां वर्णानामिच्छेदाश्रमसेवनम्। कर्तुमाश्रमदृष्टांश्च धर्मांस्ताञ्शृणु पाण्डव ॥१२-६३-११॥
शुश्रूषाकृतकृत्यस्य कृतसन्तानकर्मणः। अभ्यनुज्ञाप्य राजानं शूद्रस्य जगतीपते ॥१२-६३-१२॥
अल्पान्तरगतस्यापि दशधर्मगतस्य वा। आश्रमा विहिताः सर्वे वर्जयित्वा निराशिषम् ॥१२-६३-१३॥
भैक्षचर्यां न तु प्राहुस्तस्य तद्धर्मचारिणः। तथा वैश्यस्य राजेन्द्र राजपुत्रस्य चैव हि ॥१२-६३-१४॥
कृतकृत्यो वयोतीतो राज्ञः कृतपरिश्रमः। वैश्यो गच्छेदनुज्ञातो नृपेणाश्रममण्डलम् ॥१२-६३-१५॥
वेदानधीत्य धर्मेण राजशास्त्राणि चानघ। सन्तानादीनि कर्माणि कृत्वा सोमं निषेव्य च ॥१२-६३-१६॥
पालयित्वा प्रजाः सर्वा धर्मेण वदतां वर। राजसूयाश्वमेधादीन्मखानन्यांस्तथैव च ॥१२-६३-१७॥
समानीय यथापाठं विप्रेभ्यो दत्तदक्षिणः। सङ्ग्रामे विजयं प्राप्य तथाल्पं यदि वा बहु ॥१२-६३-१८॥
स्थापयित्वा प्रजापालं पुत्रं राज्ये च पाण्डव। अन्यगोत्रं प्रशस्तं वा क्षत्रियं क्षत्रियर्षभ ॥१२-६३-१९॥
अर्चयित्वा पितॄन्सम्यक्पितृयज्ञैर्यथाविधि। देवान्यज्ञैरृषीन्वेदैरर्चित्वा चैव यत्नतः ॥१२-६३-२०॥
अन्तकाले च सम्प्राप्ते य इच्छेदाश्रमान्तरम्। आनुपूर्व्याश्रमान्राजन्गत्वा सिद्धिमवाप्नुयात् ॥१२-६३-२१॥
राजर्षित्वेन राजेन्द्र भैक्षचर्याध्वसेवया। अपेतगृहधर्मोऽपि चरेज्जीवितकाम्यया ॥१२-६३-२२॥
न चैतन्नैष्ठिकं कर्म त्रयाणां भरतर्षभ। चतुर्णां राजशार्दूल प्राहुराश्रमवासिनाम् ॥१२-६३-२३॥
बह्वायत्तं क्षत्रियैर्मानवानां; लोकश्रेष्ठं धर्ममासेवमानैः। सर्वे धर्माः सोपधर्मास्त्रयाणां; राज्ञो धर्मादिति वेदाच्छृणोमि ॥१२-६३-२४॥
यथा राजन्हस्तिपदे पदानि; संलीयन्ते सर्वसत्त्वोद्भवानि। एवं धर्मान्राजधर्मेषु सर्वा; न्सर्वावस्थं सम्प्रलीनान्निबोध ॥१२-६३-२५॥
अल्पाश्रयानल्पफलान्वदन्ति; धर्मानन्यान्धर्मविदो मनुष्याः। महाश्रयं बहुकल्याणरूपं; क्षात्रं धर्मं नेतरं प्राहुरार्याः ॥१२-६३-२६॥
सर्वे धर्मा राजधर्मप्रधानाः; सर्वे धर्माः पाल्यमाना भवन्ति। सर्वत्यागो राजधर्मेषु राजं; स्त्यागे चाहुर्धर्ममग्र्यं पुराणम् ॥१२-६३-२७॥
मज्जेत्त्रयी दण्डनीतौ हतायां; सर्वे धर्मा न भवेयुर्विरुद्धाः। सर्वे धर्माश्चाश्रमाणां गताः स्युः; क्षात्रे त्यक्ते राजधर्मे पुराणे ॥१२-६३-२८॥
सर्वे त्यागा राजधर्मेषु दृष्टाः; सर्वा दीक्षा राजधर्मेषु चोक्ताः। सर्वे योगा राजधर्मेषु चोक्ताः; सर्वे लोका राजधर्मान्प्रविष्टाः ॥१२-६३-२९॥
यथा जीवाः प्रकृतौ वध्यमाना; धर्माश्रितानामुपपीडनाय। एवं धर्मा राजधर्मैर्वियुक्ताः; सर्वावस्थं नाद्रियन्ते स्वधर्मम् ॥१२-६३-३०॥