Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.064
Library: An ancient conversation between King Mandhata and Indra regarding importance of kingly duties.
भीष्म उवाच॥
चातुराश्रम्यधर्माश्च जातिधर्माश्च पाण्डव। लोकपालोत्तराश्चैव क्षात्रे धर्मे व्यवस्थिताः ॥१२-६४-१॥
सर्वाण्येतानि धर्माणि क्षात्रे भरतसत्तम। निराशिषो जीवलोके क्षात्रे धर्मे व्यवस्थिताः ॥१२-६४-२॥
अप्रत्यक्षं बहुद्वारं धर्ममाश्रमवासिनाम्। प्ररूपयन्ति तद्भावमागमैरेव शाश्वतम् ॥१२-६४-३॥
अपरे वचनैः पुण्यैर्वादिनो लोकनिश्चयम्। अनिश्चयज्ञा धर्माणामदृष्टान्ते परे रताः ॥१२-६४-४॥
प्रत्यक्षसुखभूयिष्ठमात्मसाक्षिकमच्छलम्। सर्वलोकहितं धर्मं क्षत्रियेषु प्रतिष्ठितम् ॥१२-६४-५॥
धर्माश्रमव्यवसिनां ब्राह्मणानां युधिष्ठिर। यथा त्रयाणां वर्णानां सङ्ख्यातोपश्रुतिः पुरा ॥ राजधर्मेष्वनुपमा लोक्या सुचरितैरिह ॥१२-६४-६॥
उदाहृतं ते राजेन्द्र यथा विष्णुं महौजसम्। सर्वभूतेश्वरं देवं प्रभुं नारायणं पुरा ॥ जग्मुः सुबहवः शूरा राजानो दण्डनीतये ॥१२-६४-७॥
एकैकमात्मनः कर्म तुलयित्वाश्रमे पुरा। राजानः पर्युपातिष्ठन्दृष्टान्तवचने स्थिताः ॥१२-६४-८॥
साध्या देवा वसवश्चाश्विनौ च; रुद्राश्च विश्वे मरुतां गणाश्च। सृष्टाः पुरा आदिदेवेन देवा; क्षात्रे धर्मे वर्तयन्ते च सिद्धाः ॥१२-६४-९॥
अत्र ते वर्तयिष्यामि धर्ममर्थविनिश्चयम्। निर्मर्यादे वर्तमाने दानवैकायने कृते ॥ बभूव राजा राजेन्द्र मान्धाता नाम वीर्यवान् ॥१२-६४-१०॥
पुरा वसुमतीपालो यज्ञं चक्रे दिदृक्षया। अनादिमध्यनिधनं देवं नारायणं प्रति ॥१२-६४-११॥
स राजा राजशार्दूल मान्धाता परमेष्ठिनः। जग्राह शिरसा पादौ यज्ञे विष्णोर्महात्मनः ॥१२-६४-१२॥
दर्शयामास तं विष्णू रूपमास्थाय वासवम्। स पार्थिवैर्वृतः सद्भिरर्चयामास तं प्रभुम् ॥१२-६४-१३॥
तस्य पार्थिवसङ्घस्य तस्य चैव महात्मनः। संवादोऽयं महानासीद्विष्णुं प्रति महाद्युते ॥१२-६४-१४॥
इन्द्र उवाच॥
किमिष्यते धर्मभृतां वरिष्ठ; यद्द्रष्टुकामोऽसि तमप्रमेयम्। अनन्तमायामितसत्त्ववीर्यं; नारायणं ह्यादिदेवं पुराणम् ॥१२-६४-१५॥
नासौ देवो विश्वरूपो मयापि; शक्यो द्रष्टुं ब्रह्मणा वापि साक्षात्। येऽन्ये कामास्तव राजन्हृदिस्था; दास्यामि तांस्त्वं हि मर्त्येषु राजा ॥१२-६४-१६॥
सत्ये स्थितो धर्मपरो जितेन्द्रियः; शूरो दृढं प्रीतिरतः सुराणाम्। बुद्ध्या भक्त्या चोत्तमश्रद्धया च; ततस्तेऽहं दद्मि वरं यथेष्टम् ॥१२-६४-१७॥
मान्धातोवाच॥
असंशयं भगवन्नादिदेवं; द्रक्ष्याम्यहं शिरसाहं प्रसाद्य। त्यक्त्वा भोगान्धर्मकामो ह्यरण्य; मिच्छे गन्तुं सत्पथं लोकजुष्टम् ॥१२-६४-१८॥
क्षात्राद्धर्माद्विपुलादप्रमेया; ल्लोकाः प्राप्ताः स्थापितं स्वं यशश्च। धर्मो योऽसावादिदेवात्प्रवृत्तो; लोकज्येष्ठस्तं न जानामि कर्तुम् ॥१२-६४-१९॥
इन्द्र उवाच॥
असैनिकोऽधर्मपरश्चरेथाः; परां गतिं लप्स्यसे चाप्रमत्तः। क्षात्रो धर्मो ह्यादिदेवात्प्रवृत्तः; पश्चादन्ये शेषभूताश्च धर्माः ॥१२-६४-२०॥
शेषाः सृष्टा ह्यन्तवन्तो ह्यनन्ताः; सुप्रस्थानाः क्षत्रधर्माविशिष्टाः। अस्मिन्धर्मे सर्वधर्माः प्रविष्टा; स्तस्माद्धर्मं श्रेष्ठमिमं वदन्ति ॥१२-६४-२१॥
कर्मणा वै पुरा देवा ऋषयश्चामितौजसः। त्राताः सर्वे प्रमथ्यारीन्क्षत्रधर्मेण विष्णुना ॥१२-६४-२२॥
यदि ह्यसौ भगवान्नाहनिष्य; द्रिपून्सर्वान्वसुमानप्रमेयः। न ब्राह्मणा न च लोकादिकर्ता; न सद्धर्मा नादिधर्मा भवेयुः ॥१२-६४-२३॥
इमामुर्वीं न जयेद्विक्रमेण; देवश्रेष्ठोऽसौ पुरा चेदमेयः। चातुर्वर्ण्यं चातुराश्रम्यधर्माः; सर्वे न स्युर्ब्रह्मणो वै विनाशात् ॥१२-६४-२४॥
दृष्टा धर्माः शतधा शाश्वतेन; क्षात्रेण धर्मेण पुनः प्रवृत्ताः। युगे युगे ह्यादिधर्माः प्रवृत्ता; लोकज्येष्ठं क्षत्रधर्मं वदन्ति ॥१२-६४-२५॥
आत्मत्यागः सर्वभूतानुकम्पा; लोकज्ञानं मोक्षणं पालनं च। विषण्णानां मोक्षणं पीडितानां; क्षात्रे धर्मे विद्यते पार्थिवानाम् ॥१२-६४-२६॥
निर्मर्यादाः काममन्युप्रवृत्ता; भीता राज्ञो नाधिगच्छन्ति पापम्। शिष्टाश्चान्ये सर्वधर्मोपपन्नाः; साध्वाचाराः साधु धर्मं चरन्ति ॥१२-६४-२७॥
पुत्रवत्परिपाल्यानि लिङ्गधर्मेण पार्थिवैः। लोके भूतानि सर्वाणि विचरन्ति न संशयः ॥१२-६४-२८॥
सर्वधर्मपरं क्षत्रं लोकज्येष्ठं सनातनम्। शश्वदक्षरपर्यन्तमक्षरं सर्वतोमुखम् ॥१२-६४-२९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.