Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.070
युधिष्ठिर उवाच॥
दण्डनीतिश्च राजा च समस्तौ तावुभावपि। कस्य किं कुर्वतः सिद्ध्यै तन्मे ब्रूहि पितामह ॥१२-७०-१॥
भीष्म उवाच॥
महाभाग्यं दण्डनीत्याः सिद्धैः शब्दैः सहेतुकैः। शृणु मे शंसतो राजन्यथावदिह भारत ॥१२-७०-२॥
दण्डनीतिः स्वधर्मेभ्यश्चातुर्वर्ण्यं नियच्छति। प्रयुक्ता स्वामिना सम्यगधर्मेभ्यश्च यच्छति ॥१२-७०-३॥
चातुर्वर्ण्ये स्वधर्मस्थे मर्यादानामसङ्करे। दण्डनीतिकृते क्षेमे प्रजानामकुतोभये ॥१२-७०-४॥
सोमे प्रयत्नं कुर्वन्ति त्रयो वर्णा यथाविधि। तस्माद्देवमनुष्याणां सुखं विद्धि समाहितम् ॥१२-७०-५॥
कालो वा कारणं राज्ञो राजा वा कालकारणम्। इति ते संशयो मा भूद्राजा कालस्य कारणम् ॥१२-७०-६॥
दण्डनीत्या यदा राजा सम्यक्कार्त्स्न्येन वर्तते। तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते ॥१२-७०-७॥
भवेत्कृतयुगे धर्मो नाधर्मो विद्यते क्वचित्। सर्वेषामेव वर्णानां नाधर्मे रमते मनः ॥१२-७०-८॥
योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः। वैदिकानि च कर्माणि भवन्त्यविगुणान्युत ॥१२-७०-९॥
ऋतवश्च सुखाः सर्वे भवन्त्युत निरामयाः। प्रसीदन्ति नराणां च स्वरवर्णमनांसि च ॥१२-७०-१०॥
व्याधयो न भवन्त्यत्र नाल्पायुर्दृश्यते नरः। विधवा न भवन्त्यत्र नृशंसो नाभिजायते ॥१२-७०-११॥
अकृष्टपच्या पृथिवी भवन्त्योषधयस्तथा। त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्ति च ॥१२-७०-१२॥
नाधर्मो विद्यते तत्र धर्म एव तु केवलः। इति कार्तयुगानेतान्गुणान्विद्धि युधिष्ठिर ॥१२-७०-१३॥
दण्डनीत्या यदा राजा त्रीनंशाननुवर्तते। चतुर्थमंशमुत्सृज्य तदा त्रेता प्रवर्तते ॥१२-७०-१४॥
अशुभस्य चतुर्थांशस्त्रीनंशाननुवर्तते। कृष्टपच्यैव पृथिवी भवन्त्योषधयस्तथा ॥१२-७०-१५॥
अर्धं त्यक्त्वा यदा राजा नीत्यर्धमनुवर्तते। ततस्तु द्वापरं नाम स कालः सम्प्रवर्तते ॥१२-७०-१६॥
अशुभस्य तदा अर्धं द्वावंशावनुवर्तते। कृष्टपच्यैव पृथिवी भवत्यल्पफला तथा ॥१२-७०-१७॥
दण्डनीतिं परित्यज्य यदा कार्त्स्न्येन भूमिपः। प्रजाः क्लिश्नात्ययोगेन प्रविश्यति तदा कलिः ॥१२-७०-१८॥
कलावधर्मो भूयिष्ठं धर्मो भवति तु क्वचित्। सर्वेषामेव वर्णानां स्वधर्माच्च्यवते मनः ॥१२-७०-१९॥
शूद्रा भैक्षेण जीवन्ति ब्राह्मणाः परिचर्यया। योगक्षेमस्य नाशश्च वर्तते वर्णसङ्करः ॥१२-७०-२०॥
वैदिकानि च कर्माणि भवन्ति विगुणान्युत। ऋतवो नसुखाः सर्वे भवन्त्यामयिनस्तथा ॥१२-७०-२१॥
ह्रसन्ति च मनुष्याणां स्वरवर्णमनांस्युत। व्याधयश्च भवन्त्यत्र म्रियन्ते चागतायुषः ॥१२-७०-२२॥
विधवाश्च भवन्त्यत्र नृशंसा जायते प्रजा। क्वचिद्वर्षति पर्जन्यः क्वचित्सस्यं प्ररोहति ॥१२-७०-२३॥
रसाः सर्वे क्षयं यान्ति यदा नेच्छति भूमिपः। प्रजाः संरक्षितुं सम्यग्दण्डनीतिसमाहितः ॥१२-७०-२४॥
राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च। युगस्य च चतुर्थस्य राजा भवति कारणम् ॥१२-७०-२५॥
कृतस्य करणाद्राजा स्वर्गमत्यन्तमश्नुते। त्रेतायाः करणाद्राजा स्वर्गं नात्यन्तमश्नुते ॥१२-७०-२६॥
प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते। कलेः प्रवर्तनाद्राजा पापमत्यन्तमश्नुते ॥१२-७०-२७॥
ततो वसति दुष्कर्मा नरके शाश्वतीः समाः। प्रजानां कल्मषे मग्नोऽकीर्तिं पापं च विन्दति ॥१२-७०-२८॥
दण्डनीतिं पुरस्कृत्य विजानन्क्षत्रियः सदा। अनवाप्तं च लिप्सेत लब्धं च परिपालयेत् ॥१२-७०-२९॥
लोकस्य सीमन्तकरी मर्यादा लोकभावनी। सम्यङ्नीता दण्डनीतिर्यथा माता यथा पिता ॥१२-७०-३०॥
यस्यां भवन्ति भूतानि तद्विद्धि भरतर्षभ। एष एव परो धर्मो यद्राजा दण्डनीतिमान् ॥१२-७०-३१॥
तस्मात्कौरव्य धर्मेण प्रजाः पालय नीतिमान्। एवंवृत्तः प्रजा रक्षन्स्वर्गं जेतासि दुर्जयम् ॥१२-७०-३२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.