Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.071
युधिष्ठिर उवाच॥
केन वृत्तेन वृत्तज्ञ वर्तमानो महीपतिः। सुखेनार्थान्सुखोदर्कानिह च प्रेत्य चाप्नुयात् ॥१२-७१-१॥
भीष्म उवाच॥
इयं गुणानां षट्त्रिंशत्षट्त्रिंशद्गुणसंयुता। यान्गुणांस्तु गुणोपेतः कुर्वन्गुणमवाप्नुयात् ॥१२-७१-२॥
चरेद्धर्मानकटुको मुञ्चेत्स्नेहं न नास्तिकः। अनृशंसश्चरेदर्थं चरेत्काममनुद्धतः ॥१२-७१-३॥
प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः। दाता नापात्रवर्षी स्यात्प्रगल्भः स्यादनिष्ठुरः ॥१२-७१-४॥
संदधीत न चानार्यैर्विगृह्णीयान्न बन्धुभिः। नानाप्तैः कारयेच्चारं कुर्यात्कार्यमपीडया ॥१२-७१-५॥
अर्थान्ब्रूयान्न चासत्सु गुणान्ब्रूयान्न चात्मनः। आदद्यान्न च साधुभ्यो नासत्पुरुषमाश्रयेत् ॥१२-७१-६॥
नापरीक्ष्य नयेद्दण्डं न च मन्त्रं प्रकाशयेत्। विसृजेन्न च लुब्धेभ्यो विश्वसेन्नापकारिषु ॥१२-७१-७॥
अनीर्षुर्गुप्तदारः स्याच्चोक्षः स्यादघृणी नृपः। स्त्रियं सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम् ॥१२-७१-८॥
अस्तब्धः पूजयेन्मान्यान्गुरून्सेवेदमायया। अर्चेद्देवान्न दम्भेन श्रियमिच्छेदकुत्सिताम् ॥१२-७१-९॥
सेवेत प्रणयं हित्वा दक्षः स्यान्न त्वकालवित्। सान्त्वयेन्न च भोगार्थमनुगृह्णन्न चाक्षिपेत् ॥१२-७१-१०॥
प्रहरेन्न त्वविज्ञाय हत्वा शत्रून्न शेषयेत्। क्रोधं कुर्यान्न चाकस्मान्मृदुः स्यान्नापकारिषु ॥१२-७१-११॥
एवं चरस्व राज्यस्थो यदि श्रेय इहेच्छसि। अतोऽन्यथा नरपतिर्भयमृच्छत्यनुत्तमम् ॥१२-७१-१२॥
इति सर्वान्गुणानेतान्यथोक्तान्योऽनुवर्तते। अनुभूयेह भद्राणि प्रेत्य स्वर्गे महीयते ॥१२-७१-१३॥
वैशम्पायन उवाच॥
इदं वचः शान्तनवस्य शुश्रुवा; न्युधिष्ठिरः पाण्डवमुख्यसंवृतः। तदा ववन्दे च पितामहं नृपो; यथोक्तमेतच्च चकार बुद्धिमान् ॥१२-७१-१४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.