Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.069
Library: How should the country be protected, and how should the enemies be guarded against? How should one employ a spy? How should one win the trust of the classes? And how should one win over servants, wives, and sons?
युधिष्ठिर उवाच॥
पार्थिवेन विशेषेण किं कार्यमवशिष्यते। कथं रक्ष्यो जनपदः कथं रक्ष्याश्च शत्रवः ॥१२-६९-१॥
कथं चारं प्रयुञ्जीत वर्णान्विश्वासयेत्कथम्। कथं भृत्यान्कथं दारान्कथं पुत्रांश्च भारत ॥१२-६९-२॥
भीष्म उवाच॥
राजवृत्तं महाराज शृणुष्वावहितोऽखिलम्। यत्कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा ॥१२-६९-३॥
आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः। अजितात्मा नरपतिर्विजयेत कथं रिपून् ॥१२-६९-४॥
एतावानात्मविजयः पञ्चवर्गविनिग्रहः। जितेन्द्रियो नरपतिर्बाधितुं शक्नुयादरीन् ॥१२-६९-५॥
न्यसेत गुल्मान्दुर्गेषु सन्धौ च कुरुनन्दन। नगरोपवने चैव पुरोद्यानेषु चैव ह ॥१२-६९-६॥
संस्थानेषु च सर्वेषु पुरेषु नगरस्य च। मध्ये च नरशार्दूल तथा राजनिवेशने ॥१२-६९-७॥
प्रणिधींश्च ततः कुर्याज्जडान्धबधिराकृतीन्। पुंसः परीक्षितान्प्राज्ञान्क्षुत्पिपासातपक्षमान् ॥१२-६९-८॥
अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च। पुत्रेषु च महाराज प्रणिदध्यात्समाहितः ॥१२-६९-९॥
पुरे जनपदे चैव तथा सामन्तराजसु। यथा न विद्युरन्योन्यं प्रणिधेयास्तथा हि ते ॥१२-६९-१०॥
चारांश्च विद्यात्प्रहितान्परेण भरतर्षभ। आपणेषु विहारेषु समवायेषु भिक्षुषु ॥१२-६९-११॥
आरामेषु तथोद्याने पण्डितानां समागमे। वेशेषु चत्वरे चैव सभास्वावसथेषु च ॥१२-६९-१२॥
एवं विहन्याच्चारेण परचारं विचक्षणः। चारेण विहतं सर्वं हतं भवति पाण्डव ॥१२-६९-१३॥
अज्ञायमानो हीनत्वे कुर्यात्सन्धिं परेण वै। लिप्सुर्वा कञ्चिदेवार्थं त्वरमाणो विचक्षणः ॥१२-६९-१५॥
गुणवन्तो महोत्साहा धर्मज्ञाः साधवश्च ये। संदधीत नृपस्तैश्च राष्ट्रं धर्मेण पालयन् ॥१२-६९-१६॥
उच्छिद्यमानमात्मानं ज्ञात्वा राजा महामतिः। पूर्वापकारिणो हन्याल्लोकद्विष्टांश्च सर्वशः ॥१२-६९-१७॥
यो नोपकर्तुं शक्नोति नापकर्तुं महीपतिः। अशक्यरूपश्चोद्धर्तुमुपेक्ष्यस्तादृशो भवेत् ॥१२-६९-१८॥
यात्रां यायादविज्ञातमनाक्रन्दमनन्तरम्। व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः ॥१२-६९-१९॥
यात्रामाज्ञापयेद्वीरः कल्यपुष्टबलः सुखी। पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा ॥१२-६९-२०॥
न च वश्यो भवेदस्य नृपो यद्यपि वीर्यवान्। हीनश्च बलवीर्याभ्यां कर्शयंस्तं परावसेत् ॥१२-६९-२१॥
राष्ट्रं च पीडयेत्तस्य शस्त्राग्निविषमूर्छनैः। अमात्यवल्लभानां च विवादांस्तस्य कारयेत् ॥ वर्जनीयं सदा युद्धं राज्यकामेन धीमता ॥१२-६९-२२॥
उपायैस्त्रिभिरादानमर्थस्याह बृहस्पतिः। सान्त्वेनानुप्रदानेन भेदेन च नराधिप ॥ यमर्थं शक्नुयात्प्राप्तुं तेन तुष्येद्धि पण्डितः ॥१२-६९-२३॥
आददीत बलिं चैव प्रजाभ्यः कुरुनन्दन। षड्भागममितप्रज्ञस्तासामेवाभिगुप्तये ॥१२-६९-२४॥
दशधर्मगतेभ्यो यद्वसु बह्वल्पमेव च। तन्नाददीत सहसा पौराणां रक्षणाय वै ॥१२-६९-२५॥
यथा पुत्रास्तथा पौरा द्रष्टव्यास्ते न संशयः। भक्तिश्चैषां प्रकर्तव्या व्यवहारे प्रदर्शिते ॥१२-६९-२६॥
सुतं च स्थापयेद्राजा प्राज्ञं सर्वार्थदर्शिनम्। व्यवहारेषु सततं तत्र राज्यं व्यवस्थितम् ॥१२-६९-२७॥
आकरे लवणे शुल्के तरे नागवने तथा। न्यसेदमात्यान्नृपतिः स्वाप्तान्वा पुरुषान्हितान् ॥१२-६९-२८॥
सम्यग्दण्डधरो नित्यं राजा धर्ममवाप्नुयात्। नृपस्य सततं दण्डः सम्यग्धर्मे प्रशस्यते ॥१२-६९-२९॥
वेदवेदाङ्गवित्प्राज्ञः सुतपस्वी नृपो भवेत्। दानशीलश्च सततं यज्ञशीलश्च भारत ॥१२-६९-३०॥
एते गुणाः समस्ताः स्युर्नृपस्य सततं स्थिराः। क्रियालोपे तु नृपतेः कुतः स्वर्गः कुतो यशः ॥१२-६९-३१॥
यदा तु पीडितो राजा भवेद्राज्ञा बलीयसा। त्रिधा त्वाक्रन्द्य मित्राणि विधानमुपकल्पयेत् ॥१२-६९-३२॥
घोषान्न्यसेत मार्गेषु ग्रामानुत्थापयेदपि। प्रवेशयेच्च तान्सर्वाञ्शाखानगरकेष्वपि ॥१२-६९-३३॥
ये गुप्ताश्चैव दुर्गाश्च देशास्तेषु प्रवेशयेत्। धनिनो बलमुख्यांश्च सान्त्वयित्वा पुनः पुनः ॥१२-६९-३४॥
सस्याभिहारं कुर्याच्च स्वयमेव नराधिपः। असम्भवे प्रवेशस्य दाहयेदग्निना भृशम् ॥१२-६९-३५॥
क्षेत्रस्थेषु च सस्येषु शत्रोरुपजपेन्नरान्। विनाशयेद्वा सर्वस्वं बलेनाथ स्वकेन वै ॥१२-६९-३६॥
नदीषु मार्गेषु सदा सङ्क्रमानवसादयेत्। जलं निस्रावयेत्सर्वमनिस्राव्यं च दूषयेत् ॥१२-६९-३७॥
तदात्वेनायतीभिश्च विवदन्भूम्यनन्तरम्। प्रतीघातः परस्याजौ मित्रकालेऽप्युपस्थिते ॥१२-६९-३८॥
दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारयेत्। सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान्विवर्जयेत् ॥१२-६९-३९॥
प्रवृद्धानां च वृक्षाणां शाखाः प्रच्छेदयेत्तथा। चैत्यानां सर्वथा वर्ज्यमपि पत्रस्य पातनम् ॥१२-६९-४०॥
प्रकण्ठीः कारयेत्सम्यगाकाशजननीस्तथा। आपूरयेच्च परिखाः स्थाणुनक्रझषाकुलाः ॥१२-६९-४१॥
कडङ्गद्वारकाणि स्युरुच्छ्वासार्थे पुरस्य ह। तेषां च द्वारवद्गुप्तिः कार्या सर्वात्मना भवेत् ॥१२-६९-४२॥
द्वारेषु च गुरूण्येव यन्त्राणि स्थापयेत्सदा। आरोपयेच्छतघ्नीश्च स्वाधीनानि च कारयेत् ॥१२-६९-४३॥
काष्ठानि चाभिहार्याणि तथा कूपांश्च खानयेत्। संशोधयेत्तथा कूपान्कृतान्पूर्वं पयोर्थिभिः ॥१२-६९-४४॥
तृणच्छन्नानि वेश्मानि पङ्केनापि प्रलेपयेत्। निर्हरेच्च तृणं मासे चैत्रे वह्निभयात्पुरः ॥१२-६९-४५॥
नक्तमेव च भक्तानि पाचयेत नराधिपः। न दिवाग्निर्ज्वलेद्गेहे वर्जयित्वाग्निहोत्रिकम् ॥१२-६९-४६॥
कर्मारारिष्टशालासु ज्वलेदग्निः समाहितः। गृहाणि च प्रविश्याथ विधेयः स्याद्धुताशनः ॥१२-६९-४७॥
महादण्डश्च तस्य स्याद्यस्याग्निर्वै दिवा भवेत्। प्रघोषयेदथैवं च रक्षणार्थं पुरस्य वै ॥१२-६९-४८॥
भिक्षुकांश्चाक्रिकांश्चैव क्षीबोन्मत्तान्कुशीलवान्। बाह्यान्कुर्यान्नरश्रेष्ठ दोषाय स्युर्हि तेऽन्यथा ॥१२-६९-४९॥
चत्वरेषु च तीर्थेषु सभास्वावसथेषु च। यथार्हवर्णं प्रणिधिं कुर्यात्सर्वत्र पार्थिवः ॥१२-६९-५०॥
विशालान्राजमार्गांश्च कारयेत नराधिपः। प्रपाश्च विपणीश्चैव यथोद्देशं समादिशेत् ॥१२-६९-५१॥
भाण्डागारायुधागारान्धान्यागारांश्च सर्वशः। अश्वागारान्गजागारान्बलाधिकरणानि च ॥१२-६९-५२॥
परिखाश्चैव कौरव्य प्रतोलीः सङ्कटानि च। न जातु कश्चित्पश्येत्तु गुह्यमेतद्युधिष्ठिर ॥१२-६९-५३॥
अथ संनिचयं कुर्याद्राजा परबलार्दितः। तैलं मधु घृतं सस्यमौषधानि च सर्वशः ॥१२-६९-५४॥
अङ्गारकुशमुञ्जानां पलाशशरपर्णिनाम्। यवसेन्धनदिग्धानां कारयेत च सञ्चयान् ॥१२-६९-५५॥
आयुधानां च सर्वेषां शक्त्यृष्टिप्रासवर्मणाम्। सञ्चयानेवमादीनां कारयेत नराधिपः ॥१२-६९-५६॥
औषधानि च सर्वाणि मूलानि च फलानि च। चतुर्विधांश्च वैद्यान्वै सङ्गृह्णीयाद्विशेषतः ॥१२-६९-५७॥
नटाश्च नर्तकाश्चैव मल्ला मायाविनस्तथा। शोभयेयुः पुरवरं मोदयेयुश्च सर्वशः ॥१२-६९-५८॥
यतः शङ्का भवेच्चापि भृत्यतो वापि मन्त्रितः। पौरेभ्यो नृपतेर्वापि स्वाधीनान्कारयेत तान् ॥१२-६९-५९॥
कृते कर्मणि राजेन्द्र पूजयेद्धनसञ्चयैः। मानेन च यथार्हेण सान्त्वेन विविधेन च ॥१२-६९-६०॥
निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन। गतानृण्यो भवेद्राजा यथा शास्त्रेषु दर्शितम् ॥१२-६९-६१॥
राज्ञा सप्तैव रक्ष्याणि तानि चापि निबोध मे। आत्मामात्यश्च कोशश्च दण्डो मित्राणि चैव हि ॥१२-६९-६२॥
तथा जनपदश्चैव पुरं च कुरुनन्दन। एतत्सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः ॥१२-६९-६३॥
षाड्गुण्यं च त्रिवर्गं च त्रिवर्गमपरं तथा। यो वेत्ति पुरुषव्याघ्र स भुनक्ति महीमिमाम् ॥१२-६९-६४॥
षाड्गुण्यमिति यत्प्रोक्तं तन्निबोध युधिष्ठिर। सन्धायासनमित्येव यात्रासन्धानमेव च ॥१२-६९-६५॥
विगृह्यासनमित्येव यात्रां सम्परिगृह्य च। द्वैधीभावस्तथान्येषां संश्रयोऽथ परस्य च ॥१२-६९-६६॥
त्रिवर्गश्चापि यः प्रोक्तस्तमिहैकमनाः शृणु। क्षयः स्थानं च वृद्धिश्च त्रिवर्गमपरं तथा ॥१२-६९-६७॥
धर्मश्चार्थश्च कामश्च सेवितव्योऽथ कालतः। धर्मेण हि महीपालश्चिरं पालयते महीम् ॥१२-६९-६८॥
अस्मिन्नर्थे च यौ श्लोकौ गीतावङ्गिरसा स्वयम्। यादवीपुत्र भद्रं ते श्रोतुमर्हसि तावपि ॥१२-६९-६९॥
कृत्वा सर्वाणि कार्याणि सम्यक्सम्पाल्य मेदिनीम्। पालयित्वा तथा पौरान्परत्र सुखमेधते ॥१२-६९-७०॥
किं तस्य तपसा राज्ञः किं च तस्याध्वरैरपि। अपालिताः प्रजा यस्य सर्वा धर्मविनाकृताः ॥१२-६९-७१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.