Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.069
युधिष्ठिर उवाच॥
पार्थिवेन विशेषेण किं कार्यमवशिष्यते। कथं रक्ष्यो जनपदः कथं रक्ष्याश्च शत्रवः ॥१२-६९-१॥
कथं चारं प्रयुञ्जीत वर्णान्विश्वासयेत्कथम्। कथं भृत्यान्कथं दारान्कथं पुत्रांश्च भारत ॥१२-६९-२॥
भीष्म उवाच॥
राजवृत्तं महाराज शृणुष्वावहितोऽखिलम्। यत्कार्यं पार्थिवेनादौ पार्थिवप्रकृतेन वा ॥१२-६९-३॥
आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः। अजितात्मा नरपतिर्विजयेत कथं रिपून् ॥१२-६९-४॥
एतावानात्मविजयः पञ्चवर्गविनिग्रहः। जितेन्द्रियो नरपतिर्बाधितुं शक्नुयादरीन् ॥१२-६९-५॥
न्यसेत गुल्मान्दुर्गेषु सन्धौ च कुरुनन्दन। नगरोपवने चैव पुरोद्यानेषु चैव ह ॥१२-६९-६॥
संस्थानेषु च सर्वेषु पुरेषु नगरस्य च। मध्ये च नरशार्दूल तथा राजनिवेशने ॥१२-६९-७॥
प्रणिधींश्च ततः कुर्याज्जडान्धबधिराकृतीन्। पुंसः परीक्षितान्प्राज्ञान्क्षुत्पिपासातपक्षमान् ॥१२-६९-८॥
अमात्येषु च सर्वेषु मित्रेषु त्रिविधेषु च। पुत्रेषु च महाराज प्रणिदध्यात्समाहितः ॥१२-६९-९॥
पुरे जनपदे चैव तथा सामन्तराजसु। यथा न विद्युरन्योन्यं प्रणिधेयास्तथा हि ते ॥१२-६९-१०॥
चारांश्च विद्यात्प्रहितान्परेण भरतर्षभ। आपणेषु विहारेषु समवायेषु भिक्षुषु ॥१२-६९-११॥
आरामेषु तथोद्याने पण्डितानां समागमे। वेशेषु चत्वरे चैव सभास्वावसथेषु च ॥१२-६९-१२॥
एवं विहन्याच्चारेण परचारं विचक्षणः। चारेण विहतं सर्वं हतं भवति पाण्डव ॥१२-६९-१३॥
अज्ञायमानो हीनत्वे कुर्यात्सन्धिं परेण वै। लिप्सुर्वा कञ्चिदेवार्थं त्वरमाणो विचक्षणः ॥१२-६९-१५॥
गुणवन्तो महोत्साहा धर्मज्ञाः साधवश्च ये। संदधीत नृपस्तैश्च राष्ट्रं धर्मेण पालयन् ॥१२-६९-१६॥
उच्छिद्यमानमात्मानं ज्ञात्वा राजा महामतिः। पूर्वापकारिणो हन्याल्लोकद्विष्टांश्च सर्वशः ॥१२-६९-१७॥
यो नोपकर्तुं शक्नोति नापकर्तुं महीपतिः। अशक्यरूपश्चोद्धर्तुमुपेक्ष्यस्तादृशो भवेत् ॥१२-६९-१८॥
यात्रां यायादविज्ञातमनाक्रन्दमनन्तरम्। व्यासक्तं च प्रमत्तं च दुर्बलं च विचक्षणः ॥१२-६९-१९॥
यात्रामाज्ञापयेद्वीरः कल्यपुष्टबलः सुखी। पूर्वं कृत्वा विधानं च यात्रायां नगरे तथा ॥१२-६९-२०॥
न च वश्यो भवेदस्य नृपो यद्यपि वीर्यवान्। हीनश्च बलवीर्याभ्यां कर्शयंस्तं परावसेत् ॥१२-६९-२१॥
राष्ट्रं च पीडयेत्तस्य शस्त्राग्निविषमूर्छनैः। अमात्यवल्लभानां च विवादांस्तस्य कारयेत् ॥ वर्जनीयं सदा युद्धं राज्यकामेन धीमता ॥१२-६९-२२॥
उपायैस्त्रिभिरादानमर्थस्याह बृहस्पतिः। सान्त्वेनानुप्रदानेन भेदेन च नराधिप ॥ यमर्थं शक्नुयात्प्राप्तुं तेन तुष्येद्धि पण्डितः ॥१२-६९-२३॥
आददीत बलिं चैव प्रजाभ्यः कुरुनन्दन। षड्भागममितप्रज्ञस्तासामेवाभिगुप्तये ॥१२-६९-२४॥
दशधर्मगतेभ्यो यद्वसु बह्वल्पमेव च। तन्नाददीत सहसा पौराणां रक्षणाय वै ॥१२-६९-२५॥
यथा पुत्रास्तथा पौरा द्रष्टव्यास्ते न संशयः। भक्तिश्चैषां प्रकर्तव्या व्यवहारे प्रदर्शिते ॥१२-६९-२६॥
सुतं च स्थापयेद्राजा प्राज्ञं सर्वार्थदर्शिनम्। व्यवहारेषु सततं तत्र राज्यं व्यवस्थितम् ॥१२-६९-२७॥
आकरे लवणे शुल्के तरे नागवने तथा। न्यसेदमात्यान्नृपतिः स्वाप्तान्वा पुरुषान्हितान् ॥१२-६९-२८॥
सम्यग्दण्डधरो नित्यं राजा धर्ममवाप्नुयात्। नृपस्य सततं दण्डः सम्यग्धर्मे प्रशस्यते ॥१२-६९-२९॥
वेदवेदाङ्गवित्प्राज्ञः सुतपस्वी नृपो भवेत्। दानशीलश्च सततं यज्ञशीलश्च भारत ॥१२-६९-३०॥
एते गुणाः समस्ताः स्युर्नृपस्य सततं स्थिराः। क्रियालोपे तु नृपतेः कुतः स्वर्गः कुतो यशः ॥१२-६९-३१॥
यदा तु पीडितो राजा भवेद्राज्ञा बलीयसा। त्रिधा त्वाक्रन्द्य मित्राणि विधानमुपकल्पयेत् ॥१२-६९-३२॥
घोषान्न्यसेत मार्गेषु ग्रामानुत्थापयेदपि। प्रवेशयेच्च तान्सर्वाञ्शाखानगरकेष्वपि ॥१२-६९-३३॥
ये गुप्ताश्चैव दुर्गाश्च देशास्तेषु प्रवेशयेत्। धनिनो बलमुख्यांश्च सान्त्वयित्वा पुनः पुनः ॥१२-६९-३४॥
सस्याभिहारं कुर्याच्च स्वयमेव नराधिपः। असम्भवे प्रवेशस्य दाहयेदग्निना भृशम् ॥१२-६९-३५॥
क्षेत्रस्थेषु च सस्येषु शत्रोरुपजपेन्नरान्। विनाशयेद्वा सर्वस्वं बलेनाथ स्वकेन वै ॥१२-६९-३६॥
नदीषु मार्गेषु सदा सङ्क्रमानवसादयेत्। जलं निस्रावयेत्सर्वमनिस्राव्यं च दूषयेत् ॥१२-६९-३७॥
तदात्वेनायतीभिश्च विवदन्भूम्यनन्तरम्। प्रतीघातः परस्याजौ मित्रकालेऽप्युपस्थिते ॥१२-६९-३८॥
दुर्गाणां चाभितो राजा मूलच्छेदं प्रकारयेत्। सर्वेषां क्षुद्रवृक्षाणां चैत्यवृक्षान्विवर्जयेत् ॥१२-६९-३९॥
प्रवृद्धानां च वृक्षाणां शाखाः प्रच्छेदयेत्तथा। चैत्यानां सर्वथा वर्ज्यमपि पत्रस्य पातनम् ॥१२-६९-४०॥
प्रकण्ठीः कारयेत्सम्यगाकाशजननीस्तथा। आपूरयेच्च परिखाः स्थाणुनक्रझषाकुलाः ॥१२-६९-४१॥
कडङ्गद्वारकाणि स्युरुच्छ्वासार्थे पुरस्य ह। तेषां च द्वारवद्गुप्तिः कार्या सर्वात्मना भवेत् ॥१२-६९-४२॥
द्वारेषु च गुरूण्येव यन्त्राणि स्थापयेत्सदा। आरोपयेच्छतघ्नीश्च स्वाधीनानि च कारयेत् ॥१२-६९-४३॥
काष्ठानि चाभिहार्याणि तथा कूपांश्च खानयेत्। संशोधयेत्तथा कूपान्कृतान्पूर्वं पयोर्थिभिः ॥१२-६९-४४॥
तृणच्छन्नानि वेश्मानि पङ्केनापि प्रलेपयेत्। निर्हरेच्च तृणं मासे चैत्रे वह्निभयात्पुरः ॥१२-६९-४५॥
नक्तमेव च भक्तानि पाचयेत नराधिपः। न दिवाग्निर्ज्वलेद्गेहे वर्जयित्वाग्निहोत्रिकम् ॥१२-६९-४६॥
कर्मारारिष्टशालासु ज्वलेदग्निः समाहितः। गृहाणि च प्रविश्याथ विधेयः स्याद्धुताशनः ॥१२-६९-४७॥
महादण्डश्च तस्य स्याद्यस्याग्निर्वै दिवा भवेत्। प्रघोषयेदथैवं च रक्षणार्थं पुरस्य वै ॥१२-६९-४८॥
भिक्षुकांश्चाक्रिकांश्चैव क्षीबोन्मत्तान्कुशीलवान्। बाह्यान्कुर्यान्नरश्रेष्ठ दोषाय स्युर्हि तेऽन्यथा ॥१२-६९-४९॥
चत्वरेषु च तीर्थेषु सभास्वावसथेषु च। यथार्हवर्णं प्रणिधिं कुर्यात्सर्वत्र पार्थिवः ॥१२-६९-५०॥
विशालान्राजमार्गांश्च कारयेत नराधिपः। प्रपाश्च विपणीश्चैव यथोद्देशं समादिशेत् ॥१२-६९-५१॥
भाण्डागारायुधागारान्धान्यागारांश्च सर्वशः। अश्वागारान्गजागारान्बलाधिकरणानि च ॥१२-६९-५२॥
परिखाश्चैव कौरव्य प्रतोलीः सङ्कटानि च। न जातु कश्चित्पश्येत्तु गुह्यमेतद्युधिष्ठिर ॥१२-६९-५३॥
अथ संनिचयं कुर्याद्राजा परबलार्दितः। तैलं मधु घृतं सस्यमौषधानि च सर्वशः ॥१२-६९-५४॥
अङ्गारकुशमुञ्जानां पलाशशरपर्णिनाम्। यवसेन्धनदिग्धानां कारयेत च सञ्चयान् ॥१२-६९-५५॥
आयुधानां च सर्वेषां शक्त्यृष्टिप्रासवर्मणाम्। सञ्चयानेवमादीनां कारयेत नराधिपः ॥१२-६९-५६॥
औषधानि च सर्वाणि मूलानि च फलानि च। चतुर्विधांश्च वैद्यान्वै सङ्गृह्णीयाद्विशेषतः ॥१२-६९-५७॥
नटाश्च नर्तकाश्चैव मल्ला मायाविनस्तथा। शोभयेयुः पुरवरं मोदयेयुश्च सर्वशः ॥१२-६९-५८॥
यतः शङ्का भवेच्चापि भृत्यतो वापि मन्त्रितः। पौरेभ्यो नृपतेर्वापि स्वाधीनान्कारयेत तान् ॥१२-६९-५९॥
कृते कर्मणि राजेन्द्र पूजयेद्धनसञ्चयैः। मानेन च यथार्हेण सान्त्वेन विविधेन च ॥१२-६९-६०॥
निर्वेदयित्वा तु परं हत्वा वा कुरुनन्दन। गतानृण्यो भवेद्राजा यथा शास्त्रेषु दर्शितम् ॥१२-६९-६१॥
राज्ञा सप्तैव रक्ष्याणि तानि चापि निबोध मे। आत्मामात्यश्च कोशश्च दण्डो मित्राणि चैव हि ॥१२-६९-६२॥
तथा जनपदश्चैव पुरं च कुरुनन्दन। एतत्सप्तात्मकं राज्यं परिपाल्यं प्रयत्नतः ॥१२-६९-६३॥
षाड्गुण्यं च त्रिवर्गं च त्रिवर्गमपरं तथा। यो वेत्ति पुरुषव्याघ्र स भुनक्ति महीमिमाम् ॥१२-६९-६४॥
षाड्गुण्यमिति यत्प्रोक्तं तन्निबोध युधिष्ठिर। सन्धायासनमित्येव यात्रासन्धानमेव च ॥१२-६९-६५॥
विगृह्यासनमित्येव यात्रां सम्परिगृह्य च। द्वैधीभावस्तथान्येषां संश्रयोऽथ परस्य च ॥१२-६९-६६॥
त्रिवर्गश्चापि यः प्रोक्तस्तमिहैकमनाः शृणु। क्षयः स्थानं च वृद्धिश्च त्रिवर्गमपरं तथा ॥१२-६९-६७॥
धर्मश्चार्थश्च कामश्च सेवितव्योऽथ कालतः। धर्मेण हि महीपालश्चिरं पालयते महीम् ॥१२-६९-६८॥
अस्मिन्नर्थे च यौ श्लोकौ गीतावङ्गिरसा स्वयम्। यादवीपुत्र भद्रं ते श्रोतुमर्हसि तावपि ॥१२-६९-६९॥
कृत्वा सर्वाणि कार्याणि सम्यक्सम्पाल्य मेदिनीम्। पालयित्वा तथा पौरान्परत्र सुखमेधते ॥१२-६९-७०॥
किं तस्य तपसा राज्ञः किं च तस्याध्वरैरपि। अपालिताः प्रजा यस्य सर्वा धर्मविनाकृताः ॥१२-६९-७१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.