12.072
युधिष्ठिर उवाच॥
कथं राजा प्रजा रक्षन्नाधिबन्धेन युज्यते। धर्मे च नापराध्नोति तन्मे ब्रूहि पितामह ॥१२-७२-१॥
भीष्म उवाच॥
समासेनैव ते तात धर्मान्वक्ष्यामि निश्चितान्। विस्तरेण हि धर्माणां न जात्वन्तमवाप्नुयात् ॥१२-७२-२॥
धर्मनिष्ठाञ्श्रुतवतो वेदव्रतसमाहितान्। अर्चितान्वासयेथास्त्वं गृहे गुणवतो द्विजान् ॥१२-७२-३॥
प्रत्युत्थायोपसङ्गृह्य चरणावभिवाद्य च। अथ सर्वाणि कुर्वीथाः कार्याणि सपुरोहितः ॥१२-७२-४॥
धर्मकार्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च। ब्राह्मणान्वाचयेथास्त्वमर्थसिद्धिजयाशिषः ॥१२-७२-५॥
आर्जवेन च सम्पन्नो धृत्या बुद्ध्या च भारत। अर्थार्थं परिगृह्णीयात्कामक्रोधौ च वर्जयेत् ॥१२-७२-६॥
कामक्रोधौ पुरस्कृत्य योऽर्थं राजानुतिष्ठति। न स धर्मं न चाप्यर्थं परिगृह्णाति बालिशः ॥१२-७२-७॥
मा स्म लुब्धांश्च मूर्खांश्च कामे चार्थेषु यूयुजः। अलुब्धान्बुद्धिसम्पन्नान्सर्वकर्मसु योजयेत् ॥१२-७२-८॥
मूर्खो ह्यधिकृतोऽर्थेषु कार्याणामविशारदः। प्रजाः क्लिश्नात्ययोगेन कामद्वेषसमन्वितः ॥१२-७२-९॥
बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम्। शास्त्रनीतेन लिप्सेथा वेतनेन धनागमम् ॥१२-७२-१०॥
दापयित्वा करं धर्म्यं राष्ट्रं नित्यं यथाविधि। अशेषान्कल्पयेद्राजा योगक्षेमानतन्द्रितः ॥१२-७२-११॥
गोपायितारं दातारं धर्मनित्यमतन्द्रितम्। अकामद्वेषसंयुक्तमनुरज्यन्ति मानवाः ॥१२-७२-१२॥
मा स्माधर्मेण लाभेन लिप्सेथास्त्वं धनागमम्। धर्मार्थावध्रुवौ तस्य योऽपशास्त्रपरो भवेत् ॥१२-७२-१३॥
अपशास्त्रपरो राजा सञ्चयान्नाधिगच्छति। अस्थाने चास्य तद्वित्तं सर्वमेव विनश्यति ॥१२-७२-१४॥
अर्थमूलोऽपहिंसां च कुरुते स्वयमात्मनः। करैरशास्त्रदृष्टैर्हि मोहात्सम्पीडयन्प्रजाः ॥१२-७२-१५॥
ऊधश्छिन्द्याद्धि यो धेन्वाः क्षीरार्थी न लभेत्पयः। एवं राष्ट्रमयोगेन पीडितं न विवर्धते ॥१२-७२-१६॥
यो हि दोग्ध्रीमुपास्ते तु स नित्यं लभते पयः। एवं राष्ट्रमुपायेन भुञ्जानो लभते फलम् ॥१२-७२-१७॥
अथ राष्ट्रमुपायेन भुज्यमानं सुरक्षितम्। जनयत्यतुलां नित्यं कोशवृद्धिं युधिष्ठिर ॥१२-७२-१८॥
दोग्धि धान्यं हिरण्यं च प्रजा राज्ञि सुरक्षिता। नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः ॥१२-७२-१९॥
मालाकारोपमो राजन्भव माङ्गारिकोपमः। तथा युक्तश्चिरं राष्ट्रं भोक्तुं शक्यसि पालयन् ॥१२-७२-२०॥
परचक्राभियानेन यदि ते स्याद्धनक्षयः। अथ साम्नैव लिप्सेथा धनमब्राह्मणेषु यत् ॥१२-७२-२१॥
मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रचलेन्मनः। अन्त्यायामप्यवस्थायां किमु स्फीतस्य भारत ॥१२-७२-२२॥
धनानि तेभ्यो दद्यास्त्वं यथाशक्ति यथार्हतः। सान्त्वयन्परिरक्षंश्च स्वर्गमाप्स्यसि दुर्जयम् ॥१२-७२-२३॥
एवं धर्मेण वृत्तेन प्रजास्त्वं परिपालयन्। स्वन्तं पुण्यं यशोवन्तं प्राप्स्यसे कुरुनन्दन ॥१२-७२-२४॥
धर्मेण व्यवहारेण प्रजाः पालय पाण्डव। युधिष्ठिर तथा युक्तो नाधिबन्धेन योक्ष्यसे ॥१२-७२-२५॥
एष एव परो धर्मो यद्राजा रक्षते प्रजाः। भूतानां हि यथा धर्मे रक्षणं च परा दया ॥१२-७२-२६॥
तस्मादेवं परं धर्मं मन्यन्ते धर्मकोविदाः। यद्राजा रक्षणे युक्तो भूतेषु कुरुते दयाम् ॥१२-७२-२७॥
यदह्ना कुरुते पापमरक्षन्भयतः प्रजाः। राजा वर्षसहस्रेण तस्यान्तमधिगच्छति ॥१२-७२-२८॥
यदह्ना कुरुते पुण्यं प्रजा धर्मेण पालयन्। दश वर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि ॥१२-७२-२९॥
स्विष्टिः स्वधीतिः सुतपा लोकाञ्जयति यावतः। क्षणेन तानवाप्नोति प्रजा धर्मेण पालयन् ॥१२-७२-३०॥
एवं धर्मं प्रयत्नेन कौन्तेय परिपालयन्। इह पुण्यफलं लब्ध्वा नाधिबन्धेन योक्ष्यसे ॥१२-७२-३१॥
स्वर्गलोके च महतीं श्रियं प्राप्स्यसि पाण्डव। असम्भवश्च धर्माणामीदृशानामराजसु ॥ तस्माद्राजैव नान्योऽस्ति यो महत्फलमाप्नुयात् ॥१२-७२-३२॥
स राज्यमृद्धिमत्प्राप्य धर्मेण परिपालयन्। इन्द्रं तर्पय सोमेन कामैश्च सुहृदो जनान् ॥१२-७२-३३॥