12.073
भीष्म उवाच॥
य एव तु सतो रक्षेदसतश्च निबर्हयेत्। स एव राज्ञा कर्तव्यो राजन्राजपुरोहितः ॥१२-७३-१॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। पुरूरवस ऐलस्य संवादं मातरिश्वनः ॥१२-७३-२॥
ऐल उवाच॥
कुतः स्विद्ब्राह्मणो जातो वर्णाश्चापि कुतस्त्रयः। कस्माच्च भवति श्रेयानेतद्वायो विचक्ष्व मे ॥१२-७३-३॥
वायुरुवाच॥
ब्रह्मणो मुखतः सृष्टो ब्राह्मणो राजसत्तम। बाहुभ्यां क्षत्रियः सृष्ट ऊरुभ्यां वैश्य उच्यते ॥१२-७३-४॥
वर्णानां परिचर्यार्थं त्रयाणां पुरुषर्षभ। वर्णश्चतुर्थः पश्चात्तु पद्भ्यां शूद्रो विनिर्मितः ॥१२-७३-५॥
ब्राह्मणो जातमात्रस्तु पृथिवीमन्वजायत। ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥१२-७३-६॥
ततः पृथिव्या गोप्तारं क्षत्रियं दण्डधारिणम्। द्वितीयं वर्णमकरोत्प्रजानामनुगुप्तये ॥१२-७३-७॥
वैश्यस्तु धनधान्येन त्रीन्वर्णान्बिभृयादिमान्। शूद्रो ह्येनान्परिचरेदिति ब्रह्मानुशासनम् ॥१२-७३-८॥
ऐल उवाच॥
द्विजस्य क्षत्रबन्धोर्वा कस्येयं पृथिवी भवेत्। धर्मतः सह वित्तेन सम्यग्वायो प्रचक्ष्व मे ॥१२-७३-९॥
वायुरुवाच॥
विप्रस्य सर्वमेवैतद्यत्किञ्चिज्जगतीगतम्। ज्येष्ठेनाभिजनेनेह तद्धर्मकुशला विदुः ॥१२-७३-१०॥
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च। गुरुर्हि सर्ववर्णानां ज्येष्ठः श्रेष्ठश्च वै द्विजः ॥१२-७३-११॥
पत्यभावे यथा स्त्री हि देवरं कुरुते पतिम्। आनन्तर्यात्तथा क्षत्रं पृथिवी कुरुते पतिम् ॥१२-७३-१२॥
एष ते प्रथमः कल्प आपद्यन्यो भवेदतः। यदि स्वर्गे परं स्थानं धर्मतः परिमार्गसि ॥१२-७३-१३॥
यः कश्चिद्विजयेद्भूमिं ब्राह्मणाय निवेदयेत्। श्रुतवृत्तोपपन्नाय धर्मज्ञाय तपस्विने ॥१२-७३-१४॥
स्वधर्मपरितृप्ताय यो न वित्तपरो भवेत्। यो राजानं नयेद्बुद्ध्या सर्वतः परिपूर्णया ॥१२-७३-१५॥
ब्राह्मणो हि कुले जातः कृतप्रज्ञो विनीतवाक्। श्रेयो नयति राजानं ब्रुवंश्चित्रां सरस्वतीम् ॥१२-७३-१६॥
राजा चरति यं धर्मं ब्राह्मणेन निदर्शितम्। शुश्रूषुरनहंवादी क्षत्रधर्मव्रते स्थितः ॥१२-७३-१७॥
तावता स कृतप्रज्ञश्चिरं यशसि तिष्ठति। तस्य धर्मस्य सर्वस्य भागी राजपुरोहितः ॥१२-७३-१८॥
एवमेव प्रजाः सर्वा राजानमभिसंश्रिताः। सम्यग्वृत्ताः स्वधर्मस्था न कुतश्चिद्भयान्विताः ॥१२-७३-१९॥
राष्ट्रे चरन्ति यं धर्मं राज्ञा साध्वभिरक्षिताः। चतुर्थं तस्य धर्मस्य राजा भागं स विन्दति ॥१२-७३-२०॥
देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः। यज्ञमेवोपजीवन्ति नास्ति चेष्टमराजके ॥१२-७३-२१॥
इतो दत्तेन जीवन्ति देवताः पितरस्तथा। राजन्येवास्य धर्मस्य योगक्षेमः प्रतिष्ठितः ॥१२-७३-२२॥
छायायामप्सु वायौ च सुखमुष्णेऽधिगच्छति। अग्नौ वाससि सूर्ये च सुखं शीतेऽधिगच्छति ॥१२-७३-२३॥
शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः। तेषु भोगेषु सर्वेषु नभीतो लभते सुखम् ॥१२-७३-२४॥
अभयस्यैव यो दाता तस्यैव सुमहत्फलम्। न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ॥१२-७३-२५॥
इन्द्रो राजा यमो राजा धर्मो राजा तथैव च। राजा बिभर्ति रूपाणि राज्ञा सर्वमिदं धृतम् ॥१२-७३-२६॥