Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.074
Library: When the brāhmaṇa abandons the kṣatriya, or when the kṣatriya abandons the brāhmaṇa, which among them in this situation partake of strength, and which among them are dispersed in weakness?
भीष्म उवाच॥
राज्ञा पुरोहितः कार्यो भवेद्विद्वान्बहुश्रुतः। उभौ समीक्ष्य धर्मार्थावप्रमेयावनन्तरम् ॥१२-७४-१॥
धर्मात्मा धर्मविद्येषां राज्ञां राजन्पुरोहितः। राजा चैवं गुणो येषां कुशलं तेषु सर्वशः ॥१२-७४-२॥
उभौ प्रजा वर्धयतो देवान्पूर्वान्परान्पितॄन्। यौ समेयास्थितौ धर्मे श्रद्धेयौ सुतपस्विनौ ॥१२-७४-३॥
परस्परस्य सुहृदौ संमतौ समचेतसौ। ब्रह्मक्षत्रस्य संमानात्प्रजाः सुखमवाप्नुयुः ॥१२-७४-४॥
विमाननात्तयोरेव प्रजा नश्येयुरेव ह। ब्रह्मक्षत्रं हि सर्वेषां धर्माणां मूलमुच्यते ॥१२-७४-५॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। ऐलकश्यपसंवादं तं निबोध युधिष्ठिर ॥१२-७४-६॥
ऐल उवाच॥
यदा हि ब्रह्म प्रजहाति क्षत्रं; क्षत्रं यदा वा प्रजहाति ब्रह्म। अन्वग्बलं कतमेऽस्मिन्भजन्ते; तथाबल्यं कतमेऽस्मिन्वियन्ति ॥१२-७४-७॥
कश्यप उवाच॥
व्यृद्धं राष्ट्रं भवति क्षत्रियस्य; ब्रह्म क्षत्रं यत्र विरुध्यते ह। अन्वग्बलं दस्यवस्तद्भजन्ते; ऽबल्यं तथा तत्र वियन्ति सन्तः ॥१२-७४-८॥
नैषामुक्षा वर्धते नोत उस्रा; न गर्गरो मथ्यते नो यजन्ते। नैषां पुत्रा वेदमधीयते च; यदा ब्रह्म क्षत्रियाः सन्त्यजन्ति ॥१२-७४-९॥
नैषामुक्षा वर्धते जातु गेहे; नाधीयते सप्रजा नो यजन्ते। अपध्वस्ता दस्युभूता भवन्ति; ये ब्राह्मणाः क्षत्रियान्सन्त्यजन्ति ॥१२-७४-१०॥
एतौ हि नित्यसंयुक्तावितरेतरधारणे। क्षत्रं हि ब्रह्मणो योनिर्योनिः क्षत्रस्य च द्विजाः ॥१२-७४-११॥
उभावेतौ नित्यमभिप्रपन्नौ; सम्प्रापतुर्महतीं श्रीप्रतिष्ठाम्। तयोः सन्धिर्भिद्यते चेत्पुराण; स्ततः सर्वं भवति हि सम्प्रमूढम् ॥१२-७४-१२॥
नात्र प्लवं लभते पारगामी; महागाधे नौरिव सम्प्रणुन्ना। चातुर्वर्ण्यं भवति च सम्प्रमूढं; ततः प्रजाः क्षयसंस्था भवन्ति ॥१२-७४-१३॥
ब्रह्मवृक्षो रक्ष्यमाणो मधु हेम च वर्षति। अरक्ष्यमाणः सततमश्रु पापं च वर्षति ॥१२-७४-१४॥
अब्रह्मचारी चरणादपेतो; यदा ब्रह्मा ब्रह्मणि त्राणमिच्छेत्। आश्चर्यशो वर्षति तत्र देव; स्तत्राभीक्ष्णं दुःसहाश्चाविशन्ति ॥१२-७४-१५॥
स्त्रियं हत्वा ब्राह्मणं वापि पापः; सभायां यत्र लभतेऽनुवादम्। राज्ञः सकाशे न बिभेति चापि; ततो भयं जायते क्षत्रियस्य ॥१२-७४-१६॥
पापैः पापे क्रियमाणेऽतिवेलं; ततो रुद्रो जायते देव एषः। पापैः पापाः सञ्जनयन्ति रुद्रं; ततः सर्वान्साध्वसाधून्हिनस्ति ॥१२-७४-१७॥
ऐल उवाच॥
कुतो रुद्रः कीदृशो वापि रुद्रः; सत्त्वैः सत्त्वं दृश्यते वध्यमानम्। एतद्विद्वन्कश्यप मे प्रचक्ष्व; यतो रुद्रो जायते देव एषः ॥१२-७४-१८॥
कश्यप उवाच॥
आत्मा रुद्रो हृदये मानवानां; स्वं स्वं देहं परदेहं च हन्ति। वातोत्पातैः सदृशं रुद्रमाहु; र्दावैर्जीमूतैः सदृशं रूपमस्य ॥१२-७४-१९॥
ऐल उवाच॥
न वै वातं परिवृनोति कश्चिन्न जीमूतो वर्षति नैव दावः। तथायुक्तो दृश्यते मानवेषु; कामद्वेषाद्बध्यते मुच्यते च ॥१२-७४-२०॥
कश्यप उवाच॥
यथैकगेहे जातवेदाः प्रदीप्तः; कृत्स्नं ग्रामं प्रदहेत्स त्वरावान्। विमोहनं कुरुते देव एष; ततः सर्वं स्पृश्यते पुण्यपापैः ॥१२-७४-२१॥
ऐल उवाच॥
यदि दण्डः स्पृशते पुण्यभाजं; पापैः पापे क्रियमाणेऽविशेषात्। कस्य हेतोः सुकृतं नाम कुर्या; द्दुष्कृतं वा कस्य हेतोर्न कुर्यात् ॥१२-७४-२२॥
कश्यप उवाच॥
असन्त्यागात्पापकृतामपापां; स्तुल्यो दण्डः स्पृशते मिश्रभावात्। शुष्केणार्द्रं दह्यते मिश्रभावा; न्न मिश्रः स्यात्पापकृद्भिः कथञ्चित् ॥१२-७४-२३॥
ऐल उवाच॥
साध्वसाधून्धारयतीह भूमिः; साध्वसाधूंस्तापयतीह सूर्यः। साध्वसाधून्वातयतीह वायु; रापस्तथा साध्वसाधून्वहन्ति ॥१२-७४-२४॥
कश्यप उवाच॥
एवमस्मिन्वर्तते लोक एव; नामुत्रैवं वर्तते राजपुत्र। प्रेत्यैतयोरन्तरवान्विशेषो; यो वै पुण्यं चरते यश्च पापम् ॥१२-७४-२५॥
पुण्यस्य लोको मधुमान्घृतार्चि; र्हिरण्यज्योतिरमृतस्य नाभिः। तत्र प्रेत्य मोदते ब्रह्मचारी; न तत्र मृत्युर्न जरा नोत दुःखम् ॥१२-७४-२६॥
पापस्य लोको निरयोऽप्रकाशो; नित्यं दुःखः शोकभूयिष्ठ एव। तत्रात्मानं शोचते पापकर्मा; बह्वीः समाः प्रपतन्नप्रतिष्ठः ॥१२-७४-२७॥
मिथो भेदाद्ब्राह्मणक्षत्रियाणां; प्रजा दुःखं दुःसहं चाविशन्ति। एवं ज्ञात्वा कार्य एवेह विद्वा; न्पुरोहितो नैकविद्यो नृपेण ॥१२-७४-२८॥
तं चैवान्वभिषिच्येत तथा धर्मो विधीयते। अग्र्यो हि ब्राह्मणः प्रोक्तः सर्वस्यैवेह धर्मतः ॥१२-७४-२९॥
पूर्वं हि ब्राह्मणाः सृष्टा इति धर्मविदो विदुः। ज्येष्ठेनाभिजनेनास्य प्राप्तं सर्वं यदुत्तरम् ॥१२-७४-३०॥
तस्मान्मान्यश्च पूज्यश्च ब्राह्मणः प्रसृताग्रभुक्। सर्वं श्रेष्ठं वरिष्ठं च निवेद्यं तस्य धर्मतः ॥१२-७४-३१॥
अवश्यमेतत्कर्तव्यं राज्ञा बलवतापि हि। ब्रह्म वर्धयति क्षत्रं क्षत्रतो ब्रह्म वर्धते ॥१२-७४-३२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.