12.074
भीष्म उवाच॥
राज्ञा पुरोहितः कार्यो भवेद्विद्वान्बहुश्रुतः। उभौ समीक्ष्य धर्मार्थावप्रमेयावनन्तरम् ॥१२-७४-१॥
धर्मात्मा धर्मविद्येषां राज्ञां राजन्पुरोहितः। राजा चैवं गुणो येषां कुशलं तेषु सर्वशः ॥१२-७४-२॥
उभौ प्रजा वर्धयतो देवान्पूर्वान्परान्पितॄन्। यौ समेयास्थितौ धर्मे श्रद्धेयौ सुतपस्विनौ ॥१२-७४-३॥
परस्परस्य सुहृदौ संमतौ समचेतसौ। ब्रह्मक्षत्रस्य संमानात्प्रजाः सुखमवाप्नुयुः ॥१२-७४-४॥
विमाननात्तयोरेव प्रजा नश्येयुरेव ह। ब्रह्मक्षत्रं हि सर्वेषां धर्माणां मूलमुच्यते ॥१२-७४-५॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। ऐलकश्यपसंवादं तं निबोध युधिष्ठिर ॥१२-७४-६॥
ऐल उवाच॥
यदा हि ब्रह्म प्रजहाति क्षत्रं; क्षत्रं यदा वा प्रजहाति ब्रह्म। अन्वग्बलं कतमेऽस्मिन्भजन्ते; तथाबल्यं कतमेऽस्मिन्वियन्ति ॥१२-७४-७॥
कश्यप उवाच॥
व्यृद्धं राष्ट्रं भवति क्षत्रियस्य; ब्रह्म क्षत्रं यत्र विरुध्यते ह। अन्वग्बलं दस्यवस्तद्भजन्ते; ऽबल्यं तथा तत्र वियन्ति सन्तः ॥१२-७४-८॥
नैषामुक्षा वर्धते नोत उस्रा; न गर्गरो मथ्यते नो यजन्ते। नैषां पुत्रा वेदमधीयते च; यदा ब्रह्म क्षत्रियाः सन्त्यजन्ति ॥१२-७४-९॥
नैषामुक्षा वर्धते जातु गेहे; नाधीयते सप्रजा नो यजन्ते। अपध्वस्ता दस्युभूता भवन्ति; ये ब्राह्मणाः क्षत्रियान्सन्त्यजन्ति ॥१२-७४-१०॥
एतौ हि नित्यसंयुक्तावितरेतरधारणे। क्षत्रं हि ब्रह्मणो योनिर्योनिः क्षत्रस्य च द्विजाः ॥१२-७४-११॥
उभावेतौ नित्यमभिप्रपन्नौ; सम्प्रापतुर्महतीं श्रीप्रतिष्ठाम्। तयोः सन्धिर्भिद्यते चेत्पुराण; स्ततः सर्वं भवति हि सम्प्रमूढम् ॥१२-७४-१२॥
नात्र प्लवं लभते पारगामी; महागाधे नौरिव सम्प्रणुन्ना। चातुर्वर्ण्यं भवति च सम्प्रमूढं; ततः प्रजाः क्षयसंस्था भवन्ति ॥१२-७४-१३॥
ब्रह्मवृक्षो रक्ष्यमाणो मधु हेम च वर्षति। अरक्ष्यमाणः सततमश्रु पापं च वर्षति ॥१२-७४-१४॥
अब्रह्मचारी चरणादपेतो; यदा ब्रह्मा ब्रह्मणि त्राणमिच्छेत्। आश्चर्यशो वर्षति तत्र देव; स्तत्राभीक्ष्णं दुःसहाश्चाविशन्ति ॥१२-७४-१५॥
स्त्रियं हत्वा ब्राह्मणं वापि पापः; सभायां यत्र लभतेऽनुवादम्। राज्ञः सकाशे न बिभेति चापि; ततो भयं जायते क्षत्रियस्य ॥१२-७४-१६॥
पापैः पापे क्रियमाणेऽतिवेलं; ततो रुद्रो जायते देव एषः। पापैः पापाः सञ्जनयन्ति रुद्रं; ततः सर्वान्साध्वसाधून्हिनस्ति ॥१२-७४-१७॥
ऐल उवाच॥
कुतो रुद्रः कीदृशो वापि रुद्रः; सत्त्वैः सत्त्वं दृश्यते वध्यमानम्। एतद्विद्वन्कश्यप मे प्रचक्ष्व; यतो रुद्रो जायते देव एषः ॥१२-७४-१८॥
कश्यप उवाच॥
आत्मा रुद्रो हृदये मानवानां; स्वं स्वं देहं परदेहं च हन्ति। वातोत्पातैः सदृशं रुद्रमाहु; र्दावैर्जीमूतैः सदृशं रूपमस्य ॥१२-७४-१९॥
ऐल उवाच॥
न वै वातं परिवृनोति कश्चिन्न जीमूतो वर्षति नैव दावः। तथायुक्तो दृश्यते मानवेषु; कामद्वेषाद्बध्यते मुच्यते च ॥१२-७४-२०॥
कश्यप उवाच॥
यथैकगेहे जातवेदाः प्रदीप्तः; कृत्स्नं ग्रामं प्रदहेत्स त्वरावान्। विमोहनं कुरुते देव एष; ततः सर्वं स्पृश्यते पुण्यपापैः ॥१२-७४-२१॥
ऐल उवाच॥
यदि दण्डः स्पृशते पुण्यभाजं; पापैः पापे क्रियमाणेऽविशेषात्। कस्य हेतोः सुकृतं नाम कुर्या; द्दुष्कृतं वा कस्य हेतोर्न कुर्यात् ॥१२-७४-२२॥
कश्यप उवाच॥
असन्त्यागात्पापकृतामपापां; स्तुल्यो दण्डः स्पृशते मिश्रभावात्। शुष्केणार्द्रं दह्यते मिश्रभावा; न्न मिश्रः स्यात्पापकृद्भिः कथञ्चित् ॥१२-७४-२३॥
ऐल उवाच॥
साध्वसाधून्धारयतीह भूमिः; साध्वसाधूंस्तापयतीह सूर्यः। साध्वसाधून्वातयतीह वायु; रापस्तथा साध्वसाधून्वहन्ति ॥१२-७४-२४॥
कश्यप उवाच॥
एवमस्मिन्वर्तते लोक एव; नामुत्रैवं वर्तते राजपुत्र। प्रेत्यैतयोरन्तरवान्विशेषो; यो वै पुण्यं चरते यश्च पापम् ॥१२-७४-२५॥
पुण्यस्य लोको मधुमान्घृतार्चि; र्हिरण्यज्योतिरमृतस्य नाभिः। तत्र प्रेत्य मोदते ब्रह्मचारी; न तत्र मृत्युर्न जरा नोत दुःखम् ॥१२-७४-२६॥
पापस्य लोको निरयोऽप्रकाशो; नित्यं दुःखः शोकभूयिष्ठ एव। तत्रात्मानं शोचते पापकर्मा; बह्वीः समाः प्रपतन्नप्रतिष्ठः ॥१२-७४-२७॥
मिथो भेदाद्ब्राह्मणक्षत्रियाणां; प्रजा दुःखं दुःसहं चाविशन्ति। एवं ज्ञात्वा कार्य एवेह विद्वा; न्पुरोहितो नैकविद्यो नृपेण ॥१२-७४-२८॥
तं चैवान्वभिषिच्येत तथा धर्मो विधीयते। अग्र्यो हि ब्राह्मणः प्रोक्तः सर्वस्यैवेह धर्मतः ॥१२-७४-२९॥
पूर्वं हि ब्राह्मणाः सृष्टा इति धर्मविदो विदुः। ज्येष्ठेनाभिजनेनास्य प्राप्तं सर्वं यदुत्तरम् ॥१२-७४-३०॥
तस्मान्मान्यश्च पूज्यश्च ब्राह्मणः प्रसृताग्रभुक्। सर्वं श्रेष्ठं वरिष्ठं च निवेद्यं तस्य धर्मतः ॥१२-७४-३१॥
अवश्यमेतत्कर्तव्यं राज्ञा बलवतापि हि। ब्रह्म वर्धयति क्षत्रं क्षत्रतो ब्रह्म वर्धते ॥१२-७४-३२॥