Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.076
युधिष्ठिर उवाच॥
यया वृत्त्या महीपालो विवर्धयति मानवान्। पुण्यांश्च लोकाञ्जयति तन्मे ब्रूहि पितामह ॥१२-७६-१॥
भीष्म उवाच॥
दानशीलो भवेद्राजा यज्ञशीलश्च भारत। उपवासतपःशीलः प्रजानां पालने रतः ॥१२-७६-२॥
सर्वाश्चैव प्रजा नित्यं राजा धर्मेण पालयेत्। उत्थानेनाप्रमादेन पूजयेच्चैव धार्मिकान् ॥१२-७६-३॥
राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते। यद्यदाचरते राजा तत्प्रजानां हि रोचते ॥१२-७६-४॥
नित्यमुद्यतदण्डश्च भवेन्मृत्युरिवारिषु। निहन्यात्सर्वतो दस्यून्न कामात्कस्यचित्क्षमेत् ॥१२-७६-५॥
यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः। चतुर्थं तस्य धर्मस्य राजा भारत विन्दति ॥१२-७६-६॥
यदधीते यद्यजते यद्ददाति यदर्चति। राजा चतुर्थभाक्तस्य प्रजा धर्मेण पालयन् ॥१२-७६-७॥
यद्राष्ट्रेऽकुशलं किञ्चिद्राज्ञोऽरक्षयतः प्रजाः। चतुर्थं तस्य पापस्य राजा भारत विन्दति ॥१२-७६-८॥
अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः। कर्मणः पृथिवीपाल नृशंसोऽनृतवागपि ॥ तादृशात्किल्बिषाद्राजा शृणु येन प्रमुच्यते ॥१२-७६-९॥
प्रत्याहर्तुमशक्यं स्याद्धनं चोरैर्हृतं यदि। स्वकोशात्तत्प्रदेयं स्यादशक्तेनोपजीवता ॥१२-७६-१०॥
सर्ववर्णैः सदा रक्ष्यं ब्रह्मस्वं ब्राह्मणास्तथा। न स्थेयं विषये तेषु योऽपकुर्याद्द्विजातिषु ॥१२-७६-११॥
ब्रह्मस्वे रक्ष्यमाणे हि सर्वं भवति रक्षितम्। तेषां प्रसादे निर्वृत्ते कृतकृत्यो भवेन्नृपः ॥१२-७६-१२॥
पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः। नरास्तमुपजीवन्ति नृपं सर्वार्थसाधकम् ॥१२-७६-१३॥
न हि कामात्मना राज्ञा सततं शठबुद्धिना। नृशंसेनातिलुब्धेन शक्याः पालयितुं प्रजाः ॥१२-७६-१४॥
युधिष्ठिर उवाच॥
नाहं राज्यसुखान्वेषी राज्यमिच्छाम्यपि क्षणम्। धर्मार्थं रोचये राज्यं धर्मश्चात्र न विद्यते ॥१२-७६-१५॥
तदलं मम राज्येन यत्र धर्मो न विद्यते। वनमेव गमिष्यामि तस्माद्धर्मचिकीर्षया ॥१२-७६-१६॥
तत्र मेध्येष्वरण्येषु न्यस्तदण्डो जितेन्द्रियः। धर्ममाराधयिष्यामि मुनिर्मूलफलाशनः ॥१२-७६-१७॥
भीष्म उवाच॥
वेदाहं तव या बुद्धिरानृशंस्यगुणैव सा। न च शुद्धानृशंस्येन शक्यं महदुपासितुम् ॥१२-७६-१८॥
अपि तु त्वा मृदुं दान्तमत्यार्यमतिधार्मिकम्। क्लीबं धर्मघृणायुक्तं न लोको बहु मन्यते ॥१२-७६-१९॥
राजधर्मानवेक्षस्व पितृपैतामहोचितान्। नैतद्राज्ञामथो वृत्तं यथा त्वं स्थातुमिच्छसि ॥१२-७६-२०॥
न हि वैक्लव्यसंसृष्टमानृशंस्यमिहास्थितः। प्रजापालनसम्भूतं प्राप्ता धर्मफलं ह्यसि ॥१२-७६-२१॥
न ह्येतामाशिषं पाण्डुर्न च कुन्त्यन्वयाचत। न चैतां प्राज्ञतां तात यया चरसि मेधया ॥१२-७६-२२॥
शौर्यं बलं च सत्त्वं च पिता तव सदाब्रवीत्। माहात्म्यं बलमौदार्यं तव कुन्त्यन्वयाचत ॥१२-७६-२३॥
नित्यं स्वाहा स्वधा नित्यमुभे मानुषदैवते। पुत्रेष्वाशासते नित्यं पितरो दैवतानि च ॥१२-७६-२४॥
दानमध्ययनं यज्ञः प्रजानां परिपालनम्। धर्ममेतमधर्मं वा जन्मनैवाभ्यजायिथाः ॥१२-७६-२५॥
काले धुरि नियुक्तानां वहतां भार आहिते। सीदतामपि कौन्तेय न कीर्तिरवसीदति ॥१२-७६-२६॥
समन्ततो विनियतो वहत्यस्खलितो हि यः। निर्दोषकर्मवचनात्सिद्धिः कर्मण एव सा ॥१२-७६-२७॥
नैकान्तविनिपातेन विचचारेह कश्चन। धर्मी गृही वा राजा वा ब्रह्मचार्यथ वा पुनः ॥१२-७६-२८॥
अल्पं तु साधुभूयिष्ठं यत्कर्मोदारमेव तत्। कृतमेवाकृताच्छ्रेयो न पापीयोऽस्त्यकर्मणः ॥१२-७६-२९॥
यदा कुलीनो धर्मज्ञः प्राप्नोत्यैश्वर्यमुत्तमम्। योगक्षेमस्तदा राजन्कुशलायैव कल्पते ॥१२-७६-३०॥
दानेनान्यं बलेनान्यमन्यं सूनृतया गिरा। सर्वतः परिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः ॥१२-७६-३१॥
यं हि वैद्याः कुले जाता अवृत्तिभयपीडिताः। प्राप्य तृप्ताः प्रतिष्ठन्ति धर्मः कोऽभ्यधिकस्ततः ॥१२-७६-३२॥
युधिष्ठिर उवाच॥
किं न्वतः परमं स्वर्ग्यं का न्वतः प्रीतिरुत्तमा। किं न्वतः परमैश्वर्यं ब्रूहि मे यदि मन्यसे ॥१२-७६-३३॥
भीष्म उवाच॥
यस्मिन्प्रतिष्ठिताः सम्यक्क्षेमं विन्दन्ति तत्क्षणम्। स स्वर्गजित्तमोऽस्माकं सत्यमेतद्ब्रवीमि ते ॥१२-७६-३४॥
त्वमेव प्रीतिमांस्तस्मात्कुरूणां कुरुसत्तम। भव राजा जय स्वर्गं सतो रक्षासतो जहि ॥१२-७६-३५॥
अनु त्वा तात जीवन्तु सुहृदः साधुभिः सह। पर्जन्यमिव भूतानि स्वादुद्रुममिवाण्डजाः ॥१२-७६-३६॥
धृष्टं शूरं प्रहर्तारमनृशंसं जितेन्द्रियम्। वत्सलं संविभक्तारमनु जीवन्तु त्वां जनाः ॥१२-७६-३७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.