12.075
Library: The king who knows Brahmana and acts with Brahmana as his foremost guide conquers the unconquered earth and attains great fame.
भीष्म उवाच॥
योगक्षेमो हि राष्ट्रस्य राजन्यायत्त उच्यते। योगक्षेमश्च राज्ञोऽपि समायत्तः पुरोहिते ॥१२-७५-१॥
यतादृष्टं भयं ब्रह्म प्रजानां शमयत्युत। दृष्टं च राजा बाहुभ्यां तद्राष्ट्रं सुखमेधते ॥१२-७५-२॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। मुचुकुन्दस्य संवादं राज्ञो वैश्रवणस्य च ॥१२-७५-३॥
मुचुकुन्दो विजित्येमां पृथिवीं पृथिवीपतिः। जिज्ञासमानः स्वबलमभ्ययादलकाधिपम् ॥१२-७५-४॥
ततो वैश्रवणो राजा रक्षांसि समवासृजत्। ते बलान्यवमृद्नन्तः प्राचरंस्तस्य नैरृताः ॥१२-७५-५॥
स हन्यमाने सैन्ये स्वे मुचुकुन्दो नराधिपः। गर्हयामास विद्वांसं पुरोहितमरिंदमः ॥१२-७५-६॥
तत उग्रं तपस्तप्त्वा वसिष्ठो ब्रह्मवित्तमः। रक्षांस्यपावधीत्तत्र पन्थानं चाप्यविन्दत ॥१२-७५-७॥
ततो वैश्रवणो राजा मुचुकुन्दमदर्शयत्। वध्यमानेषु सैन्येषु वचनं चेदमब्रवीत् ॥१२-७५-८॥
त्वत्तो हि बलिनः पूर्वे राजानः सपुरोहिताः। न चैवं समवर्तंस्ते यथा त्वमिह वर्तसे ॥१२-७५-९॥
ते खल्वपि कृतास्त्राश्च बलवन्तश्च भूमिपाः। आगम्य पर्युपासन्ते मामीशं सुखदुःखयोः ॥१२-७५-१०॥
यद्यस्ति बाहुवीर्यं ते तद्दर्शयितुमर्हसि। किं ब्राह्मणबलेन त्वमतिमात्रं प्रवर्तसे ॥१२-७५-११॥
मुचुकुन्दस्ततः क्रुद्धः प्रत्युवाच धनेश्वरम्। न्यायपूर्वमसंरब्धमसम्भ्रान्तमिदं वचः ॥१२-७५-१२॥
ब्रह्मक्षत्रमिदं सृष्टमेकयोनि स्वयम्भुवा। पृथग्बलविधानं च तल्लोकं परिरक्षति ॥१२-७५-१३॥
तपोमन्त्रबलं नित्यं ब्राह्मणेषु प्रतिष्ठितम्। अस्त्रबाहुबलं नित्यं क्षत्रियेषु प्रतिष्ठितम् ॥१२-७५-१४॥
ताभ्यां सम्भूय कर्तव्यं प्रजानां परिपालनम्। तथा च मां प्रवर्तन्तं गर्हयस्यलकाधिप ॥१२-७५-१५॥
ततोऽब्रवीद्वैश्रवणो राजानं सपुरोहितम्। नाहं राज्यमनिर्दिष्टं कस्मैचिद्विदधाम्युत ॥१२-७५-१६॥
नाच्छिन्दे चापि निर्दिष्टमिति जानीहि पार्थिव। प्रशाधि पृथिवीं वीर मद्दत्तामखिलामिमाम् ॥१२-७५-१७॥
मुचुकुन्द उवाच॥
नाहं राज्यं भवद्दत्तं भोक्तुमिच्छामि पार्थिव। बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये ॥१२-७५-१८॥
भीष्म उवाच॥
ततो वैश्रवणो राजा विस्मयं परमं ययौ। क्षत्रधर्मे स्थितं दृष्ट्वा मुचुकुन्दमसम्भ्रमम् ॥१२-७५-१९॥
ततो राजा मुचुकुन्दः सोऽन्वशासद्वसुन्धराम्। बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः ॥१२-७५-२०॥
एवं यो ब्रह्मविद्राजा ब्रह्मपूर्वं प्रवर्तते। जयत्यविजितामुर्वीं यशश्च महदश्नुते ॥१२-७५-२१॥
नित्योदको ब्राह्मणः स्यान्नित्यशस्त्रश्च क्षत्रियः। तयोर्हि सर्वमायत्तं यत्किञ्चिज्जगतीगतम् ॥१२-७५-२२॥