12.077
युधिष्ठिर उवाच॥
स्वकर्मण्यपरे युक्तास्तथैवान्ये विकर्मणि। तेषां विशेषमाचक्ष्व ब्राह्मणानां पितामह ॥१२-७७-१॥
भीष्म उवाच॥
विद्यालक्षणसम्पन्नाः सर्वत्राम्नायदर्शिनः। एते ब्रह्मसमा राजन्ब्राह्मणाः परिकीर्तिताः ॥१२-७७-२॥
ऋत्विगाचार्यसम्पन्नाः स्वेषु कर्मस्ववस्थिताः। एते देवसमा राजन्ब्राह्मणानां भवन्त्युत ॥१२-७७-३॥
ऋत्विक्पुरोहितो मन्त्री दूतोऽथार्थानुशासकः। एते क्षत्रसमा राजन्ब्राह्मणानां भवन्त्युत ॥१२-७७-४॥
अश्वारोहा गजारोहा रथिनोऽथ पदातयः। एते वैश्यसमा राजन्ब्राह्मणानां भवन्त्युत ॥१२-७७-५॥
जन्मकर्मविहीना ये कदर्या ब्रह्मबन्धवः। एते शूद्रसमा राजन्ब्राह्मणानां भवन्त्युत ॥१२-७७-६॥
अश्रोत्रियाः सर्व एव सर्वे चानाहिताग्नयः। तान्सर्वान्धार्मिको राजा बलिं विष्टिं च कारयेत् ॥१२-७७-७॥
आह्वायका देवलका नक्षत्रग्रामयाजकाः। एते ब्राह्मणचण्डाला महापथिकपञ्चमाः ॥१२-७७-८॥
एतेभ्यो बलिमादद्याद्धीनकोशो महीपतिः। ऋते ब्रह्मसमेभ्यश्च देवकल्पेभ्य एव च ॥१२-७७-९॥
अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम्। ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत ॥१२-७७-१०॥
विकर्मस्थास्तु नोपेक्ष्या जातु राज्ञा कथञ्चन। नियम्याः संविभज्याश्च धर्मानुग्रहकाम्यया ॥१२-७७-११॥
यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः। राज्ञ एवापराधं तं मन्यन्ते तद्विदो जनाः ॥१२-७७-१२॥
अवृत्त्या यो भवेत्स्तेनो वेदवित्स्नातकस्तथा। राजन्स राज्ञा भर्तव्य इति धर्मविदो विदुः ॥१२-७७-१३॥
स चेन्नो परिवर्तेत कृतवृत्तिः परन्तप। ततो निर्वासनीयः स्यात्तस्माद्देशात्सबान्धवः ॥१२-७७-१४॥