Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.078
युधिष्ठिर उवाच॥
केषां राजा प्रभवति वित्तस्य भरतर्षभ। कया च वृत्त्या वर्तेत तन्मे ब्रूहि पितामह ॥१२-७८-१॥
भीष्म उवाच॥
अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम्। ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत ॥१२-७८-२॥
विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथञ्चन। इति राज्ञां पुरावृत्तमभिजल्पन्ति साधवः ॥१२-७८-३॥
यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः। राज्ञ एवापराधं तं मन्यन्ते किल्बिषं नृप ॥१२-७८-४॥
अभिशस्तमिवात्मानं मन्यन्ते तेन कर्मणा। तस्माद्राजर्षयः सर्वे ब्राह्मणानन्वपालयन् ॥१२-७८-५॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। गीतं केकयराजेन ह्रियमाणेन रक्षसा ॥१२-७८-६॥
केकयानामधिपतिं रक्षो जग्राह दारुणम्। स्वाध्यायेनान्वितं राजन्नरण्ये संशितव्रतम् ॥१२-७८-७॥
राजोवाच॥
न मे स्तेनो जनपदे न कदर्यो न मद्यपः। नानाहिताग्निर्नायज्वा मामकान्तरमाविशः ॥१२-७८-८॥
न च मे ब्राह्मणोऽविद्वान्नाव्रती नाप्यसोमपः। नानाहिताग्निर्विषये मामकान्तरमाविशः ॥१२-७८-९॥
नानाप्तदक्षिणैर्यज्ञैर्यजन्ते विषये मम। अधीते नाव्रती कश्चिन्मामकान्तरमाविशः ॥१२-७८-१०॥
अधीयतेऽध्यापयन्ति यजन्ते याजयन्ति च। ददति प्रतिगृह्णन्ति षट्सु कर्मस्ववस्थिताः ॥१२-७८-११॥
पूजिताः संविभक्ताश्च मृदवः सत्यवादिनः। ब्राह्मणा मे स्वकर्मस्था मामकान्तरमाविशः ॥१२-७८-१२॥
न याचन्ते प्रयच्छन्ति सत्यधर्मविशारदाः। नाध्यापयन्त्यधीयन्ते यजन्ते न च याजकाः ॥१२-७८-१३॥
ब्राह्मणान्परिरक्षन्ति सङ्ग्रामेष्वपलायिनः। क्षत्रिया मे स्वकर्मस्था मामकान्तरमाविशः ॥१२-७८-१४॥
कृषिगोरक्षवाणिज्यमुपजीवन्त्यमायया। अप्रमत्ताः क्रियावन्तः सुव्रताः सत्यवादिनः ॥१२-७८-१५॥
संविभागं दमं शौचं सौहृदं च व्यपाश्रिताः। मम वैश्याः स्वकर्मस्था मामकान्तरमाविशः ॥१२-७८-१६॥
त्रीन्वर्णाननुतिष्ठन्ति यथावदनसूयकाः। मम शूद्राः स्वकर्मस्था मामकान्तरमाविशः ॥१२-७८-१७॥
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम्। संविभक्तास्मि सर्वेषां मामकान्तरमाविशः ॥१२-७८-१८॥
कुलदेशादिधर्माणां प्रथितानां यथाविधि। अव्युच्छेत्तास्मि सर्वेषां मामकान्तरमाविशः ॥१२-७८-१९॥
तपस्विनो मे विषये पूजिताः परिपालिताः। संविभक्ताश्च सत्कृत्य मामकान्तरमाविशः ॥१२-७८-२०॥
नासंविभज्य भोक्तास्मि न विशामि परस्त्रियम्। स्वतन्त्रो जातु न क्रीडे मामकान्तरमाविशः ॥१२-७८-२१॥
नाब्रह्मचारी भिक्षावान्भिक्षुर्वाब्रह्मचारिकः। अनृत्विजं हुतं नास्ति मामकान्तरमाविशः ॥१२-७८-२२॥
नावजानाम्यहं वृद्धान्न वैद्यान्न तपस्विनः। राष्ट्रे स्वपति जागर्मि मामकान्तरमाविशः ॥१२-७८-२३॥
वेदाध्ययनसम्पन्नस्तपस्वी सर्वधर्मवित्। स्वामी सर्वस्य राज्यस्य श्रीमान्मम पुरोहितः ॥१२-७८-२४॥
दानेन दिव्यानभिवाञ्छामि लोका; न्सत्येनाथो ब्राह्मणानां च गुप्त्या। शुश्रूषया चापि गुरूनुपैमि; न मे भयं विद्यते राक्षसेभ्यः ॥१२-७८-२५॥
न मे राष्ट्रे विधवा ब्रह्मबन्धु; र्न ब्राह्मणः कृपणो नोत चोरः। न पारजायी न च पापकर्मा; न मे भयं विद्यते राक्षसेभ्यः ॥१२-७८-२६॥
न मे शस्त्रैरनिर्भिन्नमङ्गे द्व्यङ्गुलमन्तरम्। धर्मार्थं युध्यमानस्य मामकान्तरमाविशः ॥१२-७८-२७॥
गोब्राह्मणे च यज्ञे च नित्यं स्वस्त्ययनं मम। आशासते जना राष्ट्रे मामकान्तरमाविशः ॥१२-७८-२८॥
राक्षस उवाच॥
यस्मात्सर्वास्ववस्थासु धर्ममेवान्ववेक्षसे। तस्मात्प्राप्नुहि कैकेय गृहान्स्वस्ति व्रजाम्यहम् ॥१२-७८-२९॥
येषां गोब्राह्मणा रक्ष्याः प्रजा रक्ष्याश्च केकय। न रक्षोभ्यो भयं तेषां कुत एव तु मानुषात् ॥१२-७८-३०॥
येषां पुरोगमा विप्रा येषां ब्रह्मबलं बलम्। प्रियातिथ्यास्तथा दारास्ते वै स्वर्गजितो नराः ॥१२-७८-३१॥
भीष्म उवाच॥
तस्माद्द्विजातीन्रक्षेत ते हि रक्षन्ति रक्षिताः। आशीरेषां भवेद्राज्ञां राष्ट्रं सम्यक्प्रवर्धते ॥१२-७८-३२॥
तस्माद्राज्ञा विशेषेण विकर्मस्था द्विजातयः। नियम्याः संविभज्याश्च प्रजानुग्रहकारणात् ॥१२-७८-३३॥
य एवं वर्तते राजा पौरजानपदेष्विह। अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् ॥१२-७८-३४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.