Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.080
युधिष्ठिर उवाच॥
क्वसमुत्थाः कथंशीला ऋत्विजः स्युः पितामह। कथंविधाश्च राजेन्द्र तद्ब्रूहि वदतां वर ॥१२-८०-१॥
भीष्म उवाच॥
प्रतिकर्म पुराचार ऋत्विजां स्म विधीयते। आदौ छन्दांसि विज्ञाय द्विजानां श्रुतमेव च ॥१२-८०-२॥
ये त्वेकरतयो नित्यं धीरा नाप्रियवादिनः। परस्परस्य सुहृदः संमताः समदर्शिनः ॥१२-८०-३॥
येष्वानृशंस्यं सत्यं चाप्यहिंसा तप आर्जवम्। अद्रोहो नाभिमानश्च ह्रीस्तितिक्षा दमः शमः ॥१२-८०-४॥
ह्रीमान्सत्यधृतिर्दान्तो भूतानामविहिंसकः। अकामद्वेषसंयुक्तस्त्रिभिः शुक्लैः समन्वितः ॥१२-८०-५॥
अहिंसको ज्ञानतृप्तः स ब्रह्मासनमर्हति। एते महर्त्विजस्तात सर्वे मान्या यथातथम् ॥१२-८०-६॥
युधिष्ठिर उवाच॥
यदिदं वेदवचनं दक्षिणासु विधीयते। इदं देयमिदं देयं न क्वचिद्व्यवतिष्ठते ॥१२-८०-७॥
नेदं प्रति धनं शास्त्रमापद्धर्ममशास्त्रतः। आज्ञा शास्त्रस्य घोरेयं न शक्तिं समवेक्षते ॥१२-८०-८॥
श्रद्धामारभ्य यष्टव्यमित्येषा वैदिकी श्रुतिः। मिथ्योपेतस्य यज्ञस्य किमु श्रद्धा करिष्यति ॥१२-८०-९॥
भीष्म उवाच॥
न वेदानां परिभवान्न शाठ्येन न मायया। कश्चिन्महदवाप्नोति मा ते भूद्बुद्धिरीदृशी ॥१२-८०-१०॥
यज्ञाङ्गं दक्षिणास्तात वेदानां परिबृंहणम्। न मन्त्रा दक्षिणाहीनास्तारयन्ति कथञ्चन ॥१२-८०-११॥
शक्तिस्तु पूर्णपात्रेण संमितानवमा भवेत्। अवश्यं तात यष्टव्यं त्रिभिर्वर्णैर्यथाविधि ॥१२-८०-१२॥
सोमो राजा ब्राह्मणानामित्येषा वैदिकी श्रुतिः। तं च विक्रेतुमिच्छन्ति न वृथा वृत्तिरिष्यते ॥ तेन क्रीतेन धर्मेण ततो यज्ञः प्रतायते ॥१२-८०-१३॥
इत्येवं धर्मतः ख्यातमृषिभिर्धर्मवादिभिः। पुमान्यज्ञश्च सोमश्च न्यायवृत्तो यथा भवेत् ॥ अन्यायवृत्तः पुरुषो न परस्य न चात्मनः ॥१२-८०-१४॥
शरीरं यज्ञपात्राणि इत्येषा श्रूयते श्रुतिः। तानि सम्यक्प्रणीतानि ब्राह्मणानां महात्मनाम् ॥१२-८०-१५॥
तपो यज्ञादपि श्रेष्ठमित्येषा परमा श्रुतिः। तत्ते तपः प्रवक्ष्यामि विद्वंस्तदपि मे शृणु ॥१२-८०-१६॥
अहिंसा सत्यवचनमानृशंस्यं दमो घृणा। एतत्तपो विदुर्धीरा न शरीरस्य शोषणम् ॥१२-८०-१७॥
अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम्। अव्यवस्था च सर्वत्र तद्वै नाशनमात्मनः ॥१२-८०-१८॥
निबोध दशहोतॄणां विधानं पार्थ यादृशम्। चित्तिः स्रुक्चित्तमाज्यं च पवित्रं ज्ञानमुत्तमम् ॥१२-८०-१९॥
सर्वं जिह्मं मृत्युपदमार्जवं ब्रह्मणः पदम्। एतावाञ्ज्ञानविषयः किं प्रलापः करिष्यति ॥१२-८०-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.