12.081
युधिष्ठिर उवाच॥
यदप्यल्पतरं कर्म तदप्येकेन दुष्करम्। पुरुषेणासहायेन किमु राज्यं पितामह ॥१२-८१-१॥
किंशीलः किंसमाचारो राज्ञोऽर्थसचिवो भवेत्। कीदृशे विश्वसेद्राजा कीदृशे नापि विश्वसेत् ॥१२-८१-२॥
भीष्म उवाच॥
चतुर्विधानि मित्राणि राज्ञां राजन्भवन्त्युत। सहार्थो भजमानश्च सहजः कृत्रिमस्तथा ॥१२-८१-३॥
धर्मात्मा पञ्चमं मित्रं स तु नैकस्य न द्वयोः। यतो धर्मस्ततो वा स्यान्मध्यस्थो वा ततो भवेत् ॥१२-८१-४॥
यस्तस्यार्थो न रोचेत न तं तस्य प्रकाशयेत्। धर्माधर्मेण राजानश्चरन्ति विजिगीषवः ॥१२-८१-५॥
चतुर्णां मध्यमौ श्रेष्ठौ नित्यं शङ्क्यौ तथापरौ। सर्वे नित्यं शङ्कितव्याः प्रत्यक्षं कार्यमात्मनः ॥१२-८१-६॥
न हि राज्ञा प्रमादो वै कर्तव्यो मित्ररक्षणे। प्रमादिनं हि राजानं लोकाः परिभवन्त्युत ॥१२-८१-७॥
असाधुः साधुतामेति साधुर्भवति दारुणः। अरिश्च मित्रं भवति मित्रं चापि प्रदुष्यति ॥१२-८१-८॥
अनित्यचित्तः पुरुषस्तस्मिन्को जातु विश्वसेत्। तस्मात्प्रधानं यत्कार्यं प्रत्यक्षं तत्समाचरेत् ॥१२-८१-९॥
एकान्तेन हि विश्वासः कृत्स्नो धर्मार्थनाशकः। अविश्वासश्च सर्वत्र मृत्युना न विशिष्यते ॥१२-८१-१०॥
अकालमृत्युर्विश्वासो विश्वसन्हि विपद्यते। यस्मिन्करोति विश्वासमिच्छतस्तस्य जीवति ॥१२-८१-११॥
तस्माद्विश्वसितव्यं च शङ्कितव्यं च केषुचित्। एषा नीतिगतिस्तात लक्ष्मीश्चैव सनातनी ॥१२-८१-१२॥
यं मन्येत ममाभावादिममर्थागमः स्पृशेत्। नित्यं तस्माच्छङ्कितव्यममित्रं तं विदुर्बुधाः ॥१२-८१-१३॥
यस्य क्षेत्रादप्युदकं क्षेत्रमन्यस्य गच्छति। न तत्रानिच्छतस्तस्य भिद्येरन्सर्वसेतवः ॥१२-८१-१४॥
तथैवात्युदकाद्भीतस्तस्य भेदनमिच्छति। यमेवंलक्षणं विद्यात्तममित्रं विनिर्दिशेत् ॥१२-८१-१५॥
यः समृद्ध्या न तुष्येत क्षये दीनतरो भवेत्। एतदुत्तममित्रस्य निमित्तमभिचक्षते ॥१२-८१-१६॥
यं मन्येत ममाभावादस्याभावो भवेदिति। तस्मिन्कुर्वीत विश्वासं यथा पितरि वै तथा ॥१२-८१-१७॥
तं शक्त्या वर्धमानश्च सर्वतः परिबृंहयेत्। नित्यं क्षताद्वारयति यो धर्मेष्वपि कर्मसु ॥१२-८१-१८॥
क्षताद्भीतं विजानीयादुत्तमं मित्रलक्षणम्। ये तस्य क्षतमिच्छन्ति ते तस्य रिपवः स्मृताः ॥१२-८१-१९॥
व्यसनान्नित्यभीतोऽसौ समृद्ध्यामेव तृप्यते। यत्स्यादेवंविधं मित्रं तदात्मसममुच्यते ॥१२-८१-२०॥
रूपवर्णस्वरोपेतस्तितिक्षुरनसूयकः। कुलीनः शीलसम्पन्नः स ते स्यात्प्रत्यनन्तरः ॥१२-८१-२१॥
मेधावी स्मृतिमान्दक्षः प्रकृत्या चानृशंसवान्। यो मानितोऽमानितो वा न संदूष्येत्कदाचन ॥१२-८१-२२॥
ऋत्विग्वा यदि वाचार्यः सखा वात्यन्तसंस्तुतः। गृहे वसेदमात्यस्ते यः स्यात्परमपूजितः ॥१२-८१-२३॥
स ते विद्यात्परं मन्त्रं प्रकृतिं चार्थधर्मयोः। विश्वासस्ते भवेत्तत्र यथा पितरि वै तथा ॥१२-८१-२४॥
नैव द्वौ न त्रयः कार्या न मृष्येरन्परस्परम्। एकार्थादेव भूतानां भेदो भवति सर्वदा ॥१२-८१-२५॥
कीर्तिप्रधानो यश्च स्याद्यश्च स्यात्समये स्थितः। समर्थान्यश्च न द्वेष्टि समर्थान्कुरुते च यः ॥१२-८१-२६॥
यो न कामाद्भयाल्लोभात्क्रोधाद्वा धर्ममुत्सृजेत्। दक्षः पर्याप्तवचनः स ते स्यात्प्रत्यनन्तरः ॥१२-८१-२७॥
शूरश्चार्यश्च विद्वांश्च प्रतिपत्तिविशारदः। कुलीनः शीलसम्पन्नस्तितिक्षुरनसूयकः ॥१२-८१-२८॥
एते ह्यमात्याः कर्तव्याः सर्वकर्मस्ववस्थिताः। पूजिताः संविभक्ताश्च सुसहायाः स्वनुष्ठिताः ॥१२-८१-२९॥
कृत्स्नमेते विनिक्षिप्ताः प्रतिरूपेषु कर्मसु। युक्ता महत्सु कार्येषु श्रेयांस्युत्पादयन्ति च ॥१२-८१-३०॥
एते कर्माणि कुर्वन्ति स्पर्धमाना मिथः सदा। अनुतिष्ठन्ति चैवार्थानाचक्षाणाः परस्परम् ॥१२-८१-३१॥
ज्ञातिभ्यश्चैव बिभ्येथा मृत्योरिव यतः सदा। उपराजेव राजर्धिं ज्ञातिर्न सहते सदा ॥१२-८१-३२॥
ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः। नान्यो ज्ञातेर्महाबाहो विनाशमभिनन्दति ॥१२-८१-३३॥
अज्ञातिता नातिसुखा नावज्ञेयास्त्वतः परम्। अज्ञातिमन्तं पुरुषं परे परिभवन्त्युत ॥१२-८१-३४॥
निकृतस्य नरैरन्यैर्ज्ञातिरेव परायणम्। नान्यैर्निकारं सहते ज्ञातेर्ज्ञातिः कदाचन ॥१२-८१-३५॥
आत्मानमेव जानाति निकृतं बान्धवैरपि। तेषु सन्ति गुणाश्चैव नैर्गुण्यं तेषु लक्ष्यते ॥१२-८१-३६॥
नाज्ञातिरनुगृह्णाति नाज्ञातिर्दिग्धमस्यति। उभयं ज्ञातिलोकेषु दृश्यते साध्वसाधु च ॥१२-८१-३७॥
तान्मानयेत्पूजयेच्च नित्यं वाचा च कर्मणा। कुर्याच्च प्रियमेतेभ्यो नाप्रियं किञ्चिदाचरेत् ॥१२-८१-३८॥
विश्वस्तवदविश्वस्तस्तेषु वर्तेत सर्वदा। न हि दोषो गुणो वेति निस्पृक्तस्तेषु दृश्यते ॥१२-८१-३९॥
तस्यैवं वर्तमानस्य पुरुषस्याप्रमादिनः। अमित्राः सम्प्रसीदन्ति तथा मित्रीभवन्त्यपि ॥१२-८१-४०॥
य एवं वर्तते नित्यं ज्ञातिसम्बन्धिमण्डले। मित्रेष्वमित्रेष्वैश्वर्ये चिरं यशसि तिष्ठति ॥१२-८१-४१॥