Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.085
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। बृहस्पतेश्च संवादं शक्रस्य च युधिष्ठिर ॥१२-८५-१॥
शक्र उवाच॥
किं स्विदेकपदं ब्रह्मन्पुरुषः सम्यगाचरन्। प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत् ॥१२-८५-२॥
बृहस्पतिरुवाच॥
सान्त्वमेकपदं शक्र पुरुषः सम्यगाचरन्। प्रमाणं सर्वभूतानां यशश्चैवाप्नुयान्महत् ॥१२-८५-३॥
एतदेकपदं शक्र सर्वलोकसुखावहम्। आचरन्सर्वभूतेषु प्रियो भवति सर्वदा ॥१२-८५-४॥
यो हि नाभाषते किञ्चित्सततं भ्रुकुटीमुखः। द्वेष्यो भवति भूतानां स सान्त्वमिह नाचरन् ॥१२-८५-५॥
यस्तु पूर्वमभिप्रेक्ष्य पूर्वमेवाभिभाषते। स्मितपूर्वाभिभाषी च तस्य लोकः प्रसीदति ॥१२-८५-६॥
दानमेव हि सर्वत्र सान्त्वेनानभिजल्पितम्। न प्रीणयति भूतानि निर्व्यञ्जनमिवाशनम् ॥१२-८५-७॥
अदाता ह्यपि भूतानां मधुरामीरयन्गिरम्। सर्वलोकमिमं शक्र सान्त्वेन कुरुते वशे ॥१२-८५-८॥
तस्मात्सान्त्वं प्रकर्तव्यं दण्डमाधित्सतामिह। फलं च जनयत्येवं न चास्योद्विजते जनः ॥१२-८५-९॥
सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च। सम्यगासेव्यमानस्य तुल्यं जातु न विद्यते ॥१२-८५-१०॥
भीष्म उवाच॥
इत्युक्तः कृतवान्सर्वं तथा शक्रः पुरोधसा। तथा त्वमपि कौन्तेय सम्यगेतत्समाचर ॥१२-८५-११॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.