Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.086
युधिष्ठिर उवाच॥
कथं स्विदिह राजेन्द्र पालयन्पार्थिवः प्रजाः। प्रति धर्मं विशेषेण कीर्तिमाप्नोति शाश्वतीम् ॥१२-८६-१॥
भीष्म उवाच॥
व्यवहारेण शुद्धेन प्रजापालनतत्परः। प्राप्य धर्मं च कीर्तिं च लोकावाप्नोत्युभौ शुचिः ॥१२-८६-२॥
युधिष्ठिर उवाच॥
कीदृशं व्यवहारं तु कैश्च व्यवहरेन्नृपः। एतत्पृष्टो महाप्राज्ञ यथावद्वक्तुमर्हसि ॥१२-८६-३॥
ये चैते पूर्वकथिता गुणास्ते पुरुषं प्रति। नैकस्मिन्पुरुषे ह्येते विद्यन्त इति मे मतिः ॥१२-८६-४॥
भीष्म उवाच॥
एवमेतन्महाप्राज्ञ यथा वदसि बुद्धिमान्। दुर्लभः पुरुषः कश्चिदेभिर्गुणगुणैर्युतः ॥१२-८६-५॥
किं तु सङ्क्षेपतः शीलं प्रयत्ने नेह दुर्लभम्। वक्ष्यामि तु यथामात्यान्यादृशांश्च करिष्यसि ॥१२-८६-६॥
चतुरो ब्राह्मणान्वैद्यान्प्रगल्भान्सात्त्विकाञ्शुचीन्। त्रींश्च शूद्रान्विनीतांश्च शुचीन्कर्मणि पूर्वके ॥१२-८६-७॥
अष्टाभिश्च गुणैर्युक्तं सूतं पौराणिकं चरेत्। पञ्चाशद्वर्षवयसं प्रगल्भमनसूयकम् ॥१२-८६-८॥
मतिस्मृतिसमायुक्तं विनीतं समदर्शनम्। कार्ये विवदमानानां शक्तमर्थेष्वलोलुपम् ॥१२-८६-९॥
विवर्जितानां व्यसनैः सुघोरैः सप्तभिर्भृशम्। अष्टानां मन्त्रिणां मध्ये मन्त्रं राजोपधारयेत् ॥१२-८६-१०॥
ततः सम्प्रेषयेद्राष्ट्रे राष्ट्रायाथ च दर्शयेत्। अनेन व्यवहारेण द्रष्टव्यास्ते प्रजाः सदा ॥१२-८६-११॥
न चापि गूढं कार्यं ते ग्राह्यं कार्योपघातकम्। कार्ये खलु विपन्ने त्वां सोऽधर्मस्तांश्च पीडयेत् ॥१२-८६-१२॥
विद्रवेच्चैव राष्ट्रं ते श्येनात्पक्षिगणा इव। परिस्रवेच्च सततं नौर्विशीर्णेव सागरे ॥१२-८६-१३॥
प्रजाः पालयतोऽसम्यगधर्मेणेह भूपतेः। हार्दं भयं सम्भवति स्वर्गश्चास्य विरुध्यते ॥१२-८६-१४॥
अथ योऽधर्मतः पाति राजामात्योऽथ वात्मजः। धर्मासने नियुक्तः सन्धर्ममूलं नरर्षभ ॥१२-८६-१५॥
कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाः। आत्मानं पुरतः कृत्वा यान्त्यधः सहपार्थिवाः ॥१२-८६-१६॥
बलात्कृतानां बलिभिः कृपणं बहु जल्पताम्। नाथो वै भूमिपो नित्यमनाथानां नृणां भवेत् ॥१२-८६-१७॥
ततः साक्षिबलं साधु द्वैधे वादकृतं भवेत्। असाक्षिकमनाथं वा परीक्ष्यं तद्विशेषतः ॥१२-८६-१८॥
अपराधानुरूपं च दण्डं पापेषु पातयेत्। उद्वेजयेद्धनैरृद्धान्दरिद्रान्वधबन्धनैः ॥१२-८६-१९॥
विनयैरपि दुर्वृत्तान्प्रहारैरपि पार्थिवः। सान्त्वेनोपप्रदानेन शिष्टांश्च परिपालयेत् ॥१२-८६-२०॥
राज्ञो वधं चिकीर्षेद्यस्तस्य चित्रो वधो भवेत्। आजीवकस्य स्तेनस्य वर्णसङ्करकस्य च ॥१२-८६-२१॥
सम्यक्प्रणयतो दण्डं भूमिपस्य विशां पते। युक्तस्य वा नास्त्यधर्मो धर्म एवेह शाश्वतः ॥१२-८६-२२॥
कामकारेण दण्डं तु यः कुर्यादविचक्षणः। स इहाकीर्तिसंयुक्तो मृतो नरकमाप्नुयात् ॥१२-८६-२३॥
न परस्य श्रवादेव परेषां दण्डमर्पयेत्। आगमानुगमं कृत्वा बध्नीयान्मोक्षयेत वा ॥१२-८६-२४॥
न तु हन्यान्नृपो जातु दूतं कस्याञ्चिदापदि। दूतस्य हन्ता निरयमाविशेत्सचिवैः सह ॥१२-८६-२५॥
यथोक्तवादिनं दूतं क्षत्रधर्मरतो नृपः। यो हन्यात्पितरस्तस्य भ्रूणहत्यामवाप्नुयुः ॥१२-८६-२६॥
कुलीनः शीलसम्पन्नो वाग्मी दक्षः प्रियंवदः। यथोक्तवादी स्मृतिमान्दूतः स्यात्सप्तभिर्गुणैः ॥१२-८६-२७॥
एतैरेव गुणैर्युक्तः प्रतीहारोऽस्य रक्षिता। शिरोरक्षश्च भवति गुणैरेतैः समन्वितः ॥१२-८६-२८॥
धर्मार्थशास्त्रतत्त्वज्ञः सन्धिविग्रहको भवेत्। मतिमान्धृतिमान्धीमान्रहस्यविनिगूहिता ॥१२-८६-२९॥
कुलीनः सत्यसम्पन्नः शक्तोऽमात्यः प्रशंसितः। एतैरेव गुणैर्युक्तस्तथा सेनापतिर्भवेत् ॥१२-८६-३०॥
व्यूहयन्त्रायुधीयानां तत्त्वज्ञो विक्रमान्वितः। वर्षशीतोष्णवातानां सहिष्णुः पररन्ध्रवित् ॥१२-८६-३१॥
विश्वासयेत्परांश्चैव विश्वसेन्न तु कस्यचित्। पुत्रेष्वपि हि राजेन्द्र विश्वासो न प्रशस्यते ॥१२-८६-३२॥
एतच्छास्त्रार्थतत्त्वं तु तवाख्यातं मयानघ। अविश्वासो नरेन्द्राणां गुह्यं परममुच्यते ॥१२-८६-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.