12.084
भीष्म उवाच॥
ह्रीनिषेधाः सदा सन्तः सत्यार्जवसमन्विताः। शक्ताः कथयितुं सम्यक्ते तव स्युः सभासदः ॥१२-८४-१॥
अत्याढ्यांश्चातिशूरांश्च ब्राह्मणांश्च बहुश्रुतान्। सुसन्तुष्टांश्च कौन्तेय महोत्साहांश्च कर्मसु ॥१२-८४-२॥
एतान्सहायाँल्लिप्सेथाः सर्वास्वापत्सु भारत। कुलीनः पूजितो नित्यं न हि शक्तिं निगूहति ॥१२-८४-३॥
प्रसन्नं ह्यप्रसन्नं वा पीडितं हृतमेव वा। आवर्तयति भूयिष्ठं तदेको ह्यनुपालितः ॥१२-८४-४॥
कुलीना देशजाः प्राज्ञा रूपवन्तो बहुश्रुताः। प्रगल्भाश्चानुरक्ताश्च ते तव स्युः परिच्छदाः ॥१२-८४-५॥
दौष्कुलेयाश्च लुब्धाश्च नृशंसा निरपत्रपाः। ते त्वां तात निषेवेयुर्यावदार्द्रकपाणयः ॥१२-८४-६॥
अर्थमानार्घ्यसत्कारैर्भोगैरुच्चावचैः प्रियान्। यानर्थभाजो मन्येथास्ते ते स्युः सुखभागिनः ॥१२-८४-७॥
अभिन्नवृत्ता विद्वांसः सद्वृत्ताश्चरितव्रताः। न त्वां नित्यार्थिनो जह्युरक्षुद्राः सत्यवादिनः ॥१२-८४-८॥
अनार्या ये न जानन्ति समयं मन्दचेतसः। तेभ्यः प्रतिजुगुप्सेथा जानीयाः समयच्युतान् ॥१२-८४-९॥
नैकमिच्छेद्गणं हित्वा स्याच्चेदन्यतरग्रहः। यस्त्वेको बहुभिः श्रेयान्कामं तेन गणं त्यजेत् ॥१२-८४-१०॥
श्रेयसो लक्षणं ह्येतद्विक्रमो यस्य दृश्यते। कीर्तिप्रधानो यश्च स्यात्समये यश्च तिष्ठति ॥१२-८४-११॥
समर्थान्पूजयेद्यश्च नास्पर्ध्यैः स्पर्धते च यः। न च कामाद्भयात्क्रोधाल्लोभाद्वा धर्ममुत्सृजेत् ॥१२-८४-१२॥
अमानी सत्यवाक्षक्तो जितात्मा मान्यमानिता। स ते मन्त्रसहायः स्यात्सर्वावस्थं परीक्षितः ॥१२-८४-१३॥
कुलीनः सत्यसम्पन्नस्तितिक्षुर्दक्ष आत्मवान्। शूरः कृतज्ञः सत्यश्च श्रेयसः पार्थ लक्षणम् ॥१२-८४-१४॥
तस्यैवं वर्तमानस्य पुरुषस्य विजानतः। अमित्राः सम्प्रसीदन्ति ततो मित्रीभवन्त्यपि ॥१२-८४-१५॥
अत ऊर्ध्वममात्यानां परीक्षेत गुणागुणान्। संयतात्मा कृतप्रज्ञो भूतिकामश्च भूमिपः ॥१२-८४-१६॥
सम्बद्धाः पुरुषैराप्तैरभिजातैः स्वदेशजैः। अहार्यैरव्यभीचारैः सर्वतः सुपरीक्षितैः ॥१२-८४-१७॥
योधाः स्रौवास्तथा मौलास्तथैवान्येऽप्यवस्कृताः। कर्तव्या भूतिकामेन पुरुषेण बुभूषता ॥१२-८४-१८॥
येषां वैनयिकी बुद्धिः प्रकृता चैव शोभना। तेजो धैर्यं क्षमा शौचमनुराग स्थितिर्धृतिः ॥१२-८४-१९॥
परीक्षितगुणान्नित्यं प्रौढभावान्धुरन्धरान्। पञ्चोपधाव्यतीतांश्च कुर्याद्राजार्थकारिणः ॥१२-८४-२०॥
पर्याप्तवचनान्वीरान्प्रतिपत्तिविशारदान्। कुलीनान्सत्यसम्पन्नानिङ्गितज्ञाननिष्ठुरान् ॥१२-८४-२१॥
देशकालविधानज्ञान्भर्तृकार्यहितैषिणः। नित्यमर्थेषु सर्वेषु राजा कुर्वीत मन्त्रिणः ॥१२-८४-२२॥
हीनतेजा ह्यसंहृष्टो नैव जातु व्यवस्यति। अवश्यं जनयत्येव सर्वकर्मसु संशयान् ॥१२-८४-२३॥
एवमल्पश्रुतो मन्त्री कल्याणाभिजनोऽप्युत। धर्मार्थकामयुक्तोऽपि नालं मन्त्रं परीक्षितुम् ॥१२-८४-२४॥
तथैवानभिजातोऽपि काममस्तु बहुश्रुतः। अनायक इवाचक्षुर्मुह्यत्यूह्येषु कर्मसु ॥१२-८४-२५॥
यो वा ह्यस्थिरसङ्कल्पो बुद्धिमानागतागमः। उपायज्ञोऽपि नालं स कर्म यापयितुं चिरम् ॥१२-८४-२६॥
केवलात्पुनराचारात्कर्मणो नोपपद्यते। परिमर्शो विशेषाणामश्रुतस्येह दुर्मतेः ॥१२-८४-२७॥
मन्त्रिण्यननुरक्ते तु विश्वासो न हि विद्यते। तस्मादननुरक्ताय नैव मन्त्रं प्रकाशयेत् ॥१२-८४-२८॥
व्यथयेद्धि स राजानं मन्त्रिभिः सहितोऽनृजुः। मारुतोपहतच्छिद्रैः प्रविश्याग्निरिव द्रुमम् ॥१२-८४-२९॥
सङ्क्रुध्यत्येकदा स्वामी स्थानाच्चैवापकर्षति। वाचा क्षिपति संरब्धस्ततः पश्चात्प्रसीदति ॥१२-८४-३०॥
तानि तान्यनुरक्तेन शक्यान्यनुतितिक्षितुम्। मन्त्रिणां च भवेत्क्रोधो विस्फूर्जितमिवाशनेः ॥१२-८४-३१॥
यस्तु संहरते तानि भर्तुः प्रियचिकीर्षया। समानसुखदुःखं तं पृच्छेदर्थेषु मानवम् ॥१२-८४-३२॥
अनृजुस्त्वनुरक्तोऽपि सम्पन्नश्चेतरैर्गुणैः। राज्ञः प्रज्ञानयुक्तोऽपि न मन्त्रं श्रोतुमर्हति ॥१२-८४-३३॥
योऽमित्रैः सह सम्बद्धो न पौरान्बहु मन्यते। स सुहृत्तादृशो राज्ञो न मन्त्रं श्रोतुमर्हति ॥१२-८४-३४॥
अविद्वानशुचिः स्तब्धः शत्रुसेवी विकत्थनः। स सुहृत्क्रोधनो लुब्धो न मन्त्रं श्रोतुमर्हति ॥१२-८४-३५॥
आगन्तुश्चानुरक्तोऽपि काममस्तु बहुश्रुतः। सत्कृतः संविभक्तो वा न मन्त्रं श्रोतुमर्हति ॥१२-८४-३६॥
यस्त्वल्पेनापि कार्येण सकृदाक्षारितो भवेत्। पुनरन्यैर्गुणैर्युक्तो न मन्त्रं श्रोतुमर्हति ॥१२-८४-३७॥
कृतप्रज्ञश्च मेधावी बुधो जानपदः शुचिः। सर्वकर्मसु यः शुद्धः स मन्त्रं श्रोतुमर्हति ॥१२-८४-३८॥
ज्ञानविज्ञानसम्पन्नः प्रकृतिज्ञः परात्मनोः। सुहृदात्मसमो राज्ञः स मन्त्रं श्रोतुमर्हति ॥१२-८४-३९॥
सत्यवाक्षीलसम्पन्नो गम्भीरः सत्रपो मृदुः। पितृपैतामहो यः स्यात्स मन्त्रं श्रोतुमर्हति ॥१२-८४-४०॥
सन्तुष्टः संमतः सत्यः शौटीरो द्वेष्यपापकः। मन्त्रवित्कालविच्छूरः स मन्त्रं श्रोतुमर्हति ॥१२-८४-४१॥
सर्वलोकं समं शक्तः सान्त्वेन कुरुते वशे। तस्मै मन्त्रः प्रयोक्तव्यो दण्डमाधित्सता नृप ॥१२-८४-४२॥
पौरजानपदा यस्मिन्विश्वासं धर्मतो गताः। योद्धा नयविपश्चिच्च स मन्त्रं श्रोतुमर्हति ॥१२-८४-४३॥
तस्मात्सर्वैर्गुणैरेतैरुपपन्नाः सुपूजिताः। मन्त्रिणः प्रकृतिज्ञाः स्युस्त्र्यवरा महदीप्सवः ॥१२-८४-४४॥
स्वासु प्रकृतिषु छिद्रं लक्षयेरन्परस्य च। मन्त्रिणो मन्त्रमूलं हि राज्ञो राष्ट्रं विवर्धते ॥१२-८४-४५॥
नास्य छिद्रं परः पश्येच्छिद्रेषु परमन्वियात्। गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥१२-८४-४६॥
मन्त्रग्राहा हि राज्यस्य मन्त्रिणो ये मनीषिणः। मन्त्रसंहननो राजा मन्त्राङ्गानीतरो जनः ॥१२-८४-४७॥
राज्यं प्रणिधिमूलं हि मन्त्रसारं प्रचक्षते। स्वामिनं त्वनुवर्तन्ति वृत्त्यर्थमिह मन्त्रिणः ॥१२-८४-४८॥
स विनीय मदक्रोधौ मानमीर्ष्यां च निर्वृतः। नित्यं पञ्चोपधातीतैर्मन्त्रयेत्सह मन्त्रिभिः ॥१२-८४-४९॥
तेषां त्रयाणां विविधं विमर्शं; बुध्येत चित्तं विनिवेश्य तत्र। स्वनिश्चयं तं परनिश्चयं च; निवेदयेदुत्तरमन्त्रकाले ॥१२-८४-५०॥
धर्मार्थकामज्ञमुपेत्य पृच्छे; द्युक्तो गुरुं ब्राह्मणमुत्तमार्थम्। निष्ठा कृता तेन यदा सह स्या; त्तं तत्र मार्गं प्रणयेदसक्तम् ॥१२-८४-५१॥
एवं सदा मन्त्रयितव्यमाहु; र्ये मन्त्रतत्त्वार्थविनिश्चयज्ञाः। तस्मात्त्वमेवं प्रणयेः सदैव; मन्त्रं प्रजासङ्ग्रहणे समर्थम् ॥१२-८४-५२॥
न वामनाः कुब्जकृशा न खञ्जा; नान्धा जडाः स्त्री न नपुंसकं च। न चात्र तिर्यङ्न पुरो न पश्चा; न्नोर्ध्वं न चाधः प्रचरेत कश्चित् ॥१२-८४-५३॥
आरुह्य वातायनमेव शून्यं; स्थलं प्रकाशं कुशकाशहीनम्। वागङ्गदोषान्परिहृत्य मन्त्रं; संमन्त्रयेत्कार्यमहीनकालम् ॥१२-८४-५४॥