Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.087
युधिष्ठिर उवाच॥
कथंविधं पुरं राजा स्वयमावस्तुमर्हति। कृतं वा कारयित्वा वा तन्मे ब्रूहि पितामह ॥१२-८७-१॥
भीष्म उवाच॥
यत्र कौन्तेय वस्तव्यं सपुत्रभ्रातृबन्धुना। न्याय्यं तत्र परिप्रष्टुं गुप्तिं वृत्तिं च भारत ॥१२-८७-२॥
तस्मात्ते वर्तयिष्यामि दुर्गकर्म विशेषतः। श्रुत्वा तथा विधातव्यमनुष्ठेयं च यत्नतः ॥१२-८७-३॥
षड्विधं दुर्गमास्थाय पुराण्यथ निवेशयेत्। सर्वसम्पत्प्रधानं यद्बाहुल्यं वापि सम्भवेत् ॥१२-८७-४॥
धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव च। मनुष्यदुर्गमब्दुर्गं वनदुर्गं च तानि षट् ॥१२-८७-५॥
यत्पुरं दुर्गसम्पन्नं धान्यायुधसमन्वितम्। दृढप्राकारपरिखं हस्त्यश्वरथसङ्कुलम् ॥१२-८७-६॥
विद्वांसः शिल्पिनो यत्र निचयाश्च सुसञ्चिताः। धार्मिकश्च जनो यत्र दाक्ष्यमुत्तममास्थितः ॥१२-८७-७॥
ऊर्जस्विनरनागाश्वं चत्वरापणशोभितम्। प्रसिद्धव्यवहारं च प्रशान्तमकुतोभयम् ॥१२-८७-८॥
सुप्रभं सानुनादं च सुप्रशस्तनिवेशनम्। शूराढ्यजनसम्पन्नं ब्रह्मघोषानुनादितम् ॥१२-८७-९॥
समाजोत्सवसम्पन्नं सदापूजितदैवतम्। वश्यामात्यबलो राजा तत्पुरं स्वयमावसेत् ॥१२-८७-१०॥
तत्र कोशं बलं मित्रं व्यवहारं च वर्धयेत्। पुरे जनपदे चैव सर्वदोषान्निवर्तयेत् ॥१२-८७-११॥
भाण्डागारायुधागारं प्रयत्नेनाभिवर्धयेत्। निचयान्वर्धयेत्सर्वांस्तथा यन्त्रगदागदान् ॥१२-८७-१२॥
काष्ठलोहतुषाङ्गारदारुशृङ्गास्थिवैणवान्। मज्जास्नेहवसाक्षौद्रमौषधग्राममेव च ॥१२-८७-१३॥
शणं सर्जरसं धान्यमायुधानि शरांस्तथा। चर्म स्नायु तथा वेत्रं मुञ्जबल्बजधन्वनान् ॥१२-८७-१४॥
आशयाश्चोदपानाश्च प्रभूतसलिला वराः। निरोद्धव्याः सदा राज्ञा क्षीरिणश्च महीरुहाः ॥१२-८७-१५॥
सत्कृताश्च प्रयत्नेन आचार्यर्त्विक्पुरोहिताः। महेष्वासाः स्थपतयः सांवत्सरचिकित्सकाः ॥१२-८७-१६॥
प्राज्ञा मेधाविनो दान्ता दक्षाः शूरा बहुश्रुताः। कुलीनाः सत्त्वसम्पन्ना युक्ताः सर्वेषु कर्मसु ॥१२-८७-१७॥
पूजयेद्धार्मिकान्राजा निगृह्णीयादधार्मिकान्। नियुञ्ज्याच्च प्रयत्नेन सर्ववर्णान्स्वकर्मसु ॥१२-८७-१८॥
बाह्यमाभ्यन्तरं चैव पौरजानपदं जनम्। चारैः सुविदितं कृत्वा ततः कर्म प्रयोजयेत् ॥१२-८७-१९॥
चारान्मन्त्रं च कोशं च मन्त्रं चैव विशेषतः। अनुतिष्ठेत्स्वयं राजा सर्वं ह्यत्र प्रतिष्ठितम् ॥१२-८७-२०॥
उदासीनारिमित्राणां सर्वमेव चिकीर्षितम्। पुरे जनपदे चैव ज्ञातव्यं चारचक्षुषा ॥१२-८७-२१॥
ततस्तथा विधातव्यं सर्वमेवाप्रमादतः। भक्तान्पुजयता नित्यं द्विषतश्च निगृह्णता ॥१२-८७-२२॥
यष्टव्यं क्रतुभिर्नित्यं दातव्यं चाप्यपीडया। प्रजानां रक्षणं कार्यं न कार्यं कर्म गर्हितम् ॥१२-८७-२३॥
कृपणानाथवृद्धानां विधवानां च योषिताम्। योगक्षेमं च वृत्तिं च नित्यमेव प्रकल्पयेत् ॥१२-८७-२४॥
आश्रमेषु यथाकालं चेलभाजनभोजनम्। सदैवोपहरेद्राजा सत्कृत्यानवमन्य च ॥१२-८७-२५॥
आत्मानं सर्वकार्याणि तापसे राज्यमेव च। निवेदयेत्प्रयत्नेन तिष्ठेत्प्रह्वश्च सर्वदा ॥१२-८७-२६॥
सर्वार्थत्यागिनं राजा कुले जातं बहुश्रुतम्। पूजयेत्तादृशं दृष्ट्वा शयनासनभोजनैः ॥१२-८७-२७॥
तस्मिन्कुर्वीत विश्वासं राजा कस्याञ्चिदापदि। तापसेषु हि विश्वासमपि कुर्वन्ति दस्यवः ॥१२-८७-२८॥
तस्मिन्निधीनादधीत प्रज्ञां पर्याददीत च। न चाप्यभीक्ष्णं सेवेत भृशं वा प्रतिपूजयेत् ॥१२-८७-२९॥
अन्यः कार्यः स्वराष्ट्रेषु परराष्ट्रेषु चापरः। अटवीष्वपरः कार्यः सामन्तनगरेषु च ॥१२-८७-३०॥
तेषु सत्कारसंस्कारान्संविभागांश्च कारयेत्। परराष्ट्राटवीस्थेषु यथा स्वविषये तथा ॥१२-८७-३१॥
ते कस्याञ्चिदवस्थायां शरणं शरणार्थिने। राज्ञे दद्युर्यथाकामं तापसाः संशितव्रताः ॥१२-८७-३२॥
एष ते लक्षणोद्देशः सङ्क्षेपेण प्रकीर्तितः। यादृशं नगरं राजा स्वयमावस्तुमर्हति ॥१२-८७-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.