12.090
भीष्म उवाच॥
वनस्पतीन्भक्ष्यफलान्न छिन्द्युर्विषये तव। ब्राह्मणानां मूलफलं धर्म्यमाहुर्मनीषिणः ॥१२-९०-१॥
ब्राह्मणेभ्योऽतिरिक्तं च भुञ्जीरन्नितरे जनाः। न ब्राह्मणोपरोधेन हरेदन्यः कथञ्चन ॥१२-९०-२॥
विप्रश्चेत्त्यागमातिष्ठेदाख्यायावृत्तिकर्शितः। परिकल्प्यास्य वृत्तिः स्यात्सदारस्य नराधिप ॥१२-९०-३॥
स चेन्नोपनिवर्तेत वाच्यो ब्राह्मणसंसदि। कस्मिन्निदानीं मर्यादामयं लोकः करिष्यति ॥१२-९०-४॥
असंशयं निवर्तेत न चेद्वक्ष्यत्यतः परम्। पूर्वं परोक्षं कर्तव्यमेतत्कौन्तेय शासनम् ॥१२-९०-५॥
आहुरेतज्जना ब्रह्मन्न चैतच्छ्रद्दधाम्यहम्। निमन्त्र्यश्च भवेद्भोगैरवृत्त्या चेत्तदाचरेत् ॥१२-९०-६॥
कृषिगोरक्ष्यवाणिज्यं लोकानामिह जीवनम्। ऊर्ध्वं चैव त्रयी विद्या सा भूतान्भावयत्युत ॥१२-९०-७॥
तस्यां प्रयतमानायां ये स्युस्तत्परिपन्थिनः। दस्यवस्तद्वधायेह ब्रह्मा क्षत्रमथासृजत् ॥१२-९०-८॥
शत्रूञ्जहि प्रजा रक्ष यजस्व क्रतुभिर्नृप। युध्यस्व समरे वीरो भूत्वा कौरवनन्दन ॥१२-९०-९॥
संरक्ष्यान्पालयेद्राजा यः स राजार्यकृत्तमः। ये केचित्तान्न रक्षन्ति तैरर्थो नास्ति कश्चन ॥१२-९०-१०॥
सदैव राज्ञा बोद्धव्यं सर्वलोकाद्युधिष्ठिर। तस्माद्धेतोर्हि भुञ्जीत मनुष्यानेव मानवः ॥१२-९०-११॥
अन्तरेभ्यः परान्रक्षन्परेभ्यः पुनरन्तरान्। परान्परेभ्यः स्वान्स्वेभ्यः सर्वान्पालय नित्यदा ॥१२-९०-१२॥
आत्मानं सर्वतो रक्षन्राजा रक्षेत मेदिनीम्। आत्ममूलमिदं सर्वमाहुर्हि विदुषो जनाः ॥१२-९०-१३॥
किं छिद्रं कोऽनुषङ्गो मे किं वास्त्यविनिपातितम्। कुतो मामास्रवेद्दोष इति नित्यं विचिन्तयेत् ॥१२-९०-१४॥
गुप्तैश्चारैरनुमतैः पृथिवीमनुचारयेत्। सुनीतं यदि मे वृत्तं प्रशंसन्ति न वा पुनः ॥ कच्चिद्रोचेज्जनपदे कच्चिद्राष्ट्रे च मे यशः ॥१२-९०-१५॥
धर्मज्ञानां धृतिमतां सङ्ग्रामेष्वपलायिनाम्। राष्ट्रं च येऽनुजीवन्ति ये च राज्ञोऽनुजीविनः ॥१२-९०-१६॥
अमात्यानां च सर्वेषां मध्यस्थानां च सर्वशः। ये च त्वाभिप्रशंसेयुर्निन्देयुरथ वा पुनः ॥ सर्वान्सुपरिणीतांस्तान्कारयेत युधिष्ठिर ॥१२-९०-१७॥
एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम्। मित्रामित्रमथो मध्यं सर्वभूतेषु भारत ॥१२-९०-१८॥
तुल्यबाहुबलानां च गुणैरपि निषेविनाम्। कथं स्यादधिकः कश्चित्स तु भुञ्जीत मानवान् ॥१२-९०-१९॥
ये चरा ह्यचरानद्युरदंष्ट्रान्दंष्ट्रिणस्तथा। आशीविषा इव क्रुद्धा भुजगा भुजगानिव ॥१२-९०-२०॥
एतेभ्यश्चाप्रमत्तः स्यात्सदा यत्तो युधिष्ठिर। भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः ॥१२-९०-२१॥
कच्चित्ते वणिजो राष्ट्रे नोद्विजन्ते करार्दिताः। क्रीणन्तो बहु वाल्पेन कान्तारकृतनिश्रमाः ॥१२-९०-२२॥
कच्चित्कृषिकरा राष्ट्रं न जहत्यतिपीडिताः। ये वहन्ति धुरं राज्ञां सम्भरन्तीतरानपि ॥१२-९०-२३॥
इतो दत्तेन जीवन्ति देवाः पितृगणास्तथा। मनुष्योरगरक्षांसि वयांसि पशवस्तथा ॥१२-९०-२४॥
एषा ते राष्ट्रवृत्तिश्च राष्ट्रगुप्तिश्च भारत। एतमेवार्थमाश्रित्य भूयो वक्ष्यामि पाण्डव ॥१२-९०-२५॥