Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.091
भीष्म उवाच॥
यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्मवित्तमः। मान्धात्रे यौवनाश्वाय प्रीतिमानभ्यभाषत ॥१२-९१-१॥
स यथानुशशासैनमुतथ्यो ब्रह्मवित्तमः। तत्ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर ॥१२-९१-२॥
उतथ्य उवाच॥
धर्माय राजा भवति न कामकरणाय तु। मान्धातरेवं जानीहि राजा लोकस्य रक्षिता ॥१२-९१-३॥
राजा चरति वै धर्मं देवत्वायैव गच्छति। न चेद्धर्मं स चरति नरकायैव गच्छति ॥१२-९१-४॥
धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति। तं राजा साधु यः शास्ति स राजा पृथिवीपतिः ॥१२-९१-५॥
राजा परमधर्मात्मा लक्ष्मीवान्पाप उच्यते। देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते ॥१२-९१-६॥
अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते। तदेव मङ्गलं सर्वं लोकः समनुवर्तते ॥१२-९१-७॥
उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान्। भयमाहुर्दिवारात्रं यदा पापो न वार्यते ॥१२-९१-८॥
न वेदाननुवर्तन्ति व्रतवन्तो द्विजातयः। न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते ॥१२-९१-९॥
वध्यानामिव सर्वेषां मनो भवति विह्वलम्। मनुष्याणां महाराज यदा पापो न वार्यते ॥१२-९१-१०॥
उभौ लोकावभिप्रेक्ष्य राजानमृषयः स्वयम्। असृजन्सुमहद्भूतमयं धर्मो भविष्यति ॥१२-९१-११॥
यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते। यस्मिन्विलीयते धर्मस्तं देवा वृषलं विदुः ॥१२-९१-१२॥
वृषो हि भगवान्धर्मो यस्तस्य कुरुते ह्यलम्। वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् ॥१२-९१-१३॥
धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा। तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं प्रवर्धयेत् ॥१२-९१-१४॥
धनात्स्रवति धर्मो हि धारणाद्वेति निश्चयः। अकार्याणां मनुष्येन्द्र स सीमान्तकरः स्मृतः ॥१२-९१-१५॥
प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयम्भुवा। तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रहकारणात् ॥१२-९१-१६॥
तस्माद्धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः। स राजा यः प्रजाः शास्ति साधुकृत्पुरुषर्षभः ॥१२-९१-१७॥
कामक्रोधावनादृत्य धर्ममेवानुपालयेत्। धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम ॥१२-९१-१८॥
धर्मस्य ब्राह्मणा योनिस्तस्मात्तान्पूजयेत्सदा। ब्राह्मणानां च मान्धातः कामान्कुर्यादमत्सरी ॥१२-९१-१९॥
तेषां ह्यकामकरणाद्राज्ञः सञ्जायते भयम्। मित्राणि च न वर्धन्ते तथामित्रीभवन्त्यपि ॥१२-९१-२०॥
ब्राह्मणान्वै तदासूयाद्यदा वैरोचनो बलिः। अथास्माच्छ्रीरपाक्रामद्यास्मिन्नासीत्प्रतापिनी ॥१२-९१-२१॥
ततस्तस्मादपक्रम्य सागच्छत्पाकशासनम्। अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरंदरे ॥१२-९१-२२॥
एतत्फलमसूयाया अभिमानस्य चाभिभो। तस्माद्बुध्यस्व मान्धातर्मा त्वा जह्यात्प्रतापिनी ॥१२-९१-२३॥
दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः। तेन देवासुरा राजन्नीताः सुबहुशो वशम् ॥१२-९१-२४॥
राजर्षयश्च बहवस्तस्माद्बुध्यस्व पार्थिव। राजा भवति तं जित्वा दासस्तेन पराजितः ॥१२-९१-२५॥
स यथा दर्पसहितमधर्मं नानुसेवसे। तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि ॥१२-९१-२६॥
मत्तात्प्रमत्तात्पोगण्डादुन्मत्ताच्च विशेषतः। तदभ्यासादुपावर्तादहितानां च सेवनात् ॥१२-९१-२७॥
निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः। पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात् ॥१२-९१-२८॥
एतेभ्यो नित्ययत्तः स्यान्नक्तञ्चर्यां च वर्जयेत्। अत्यायं चातिमानं च दम्भं क्रोधं च वर्जयेत् ॥१२-९१-२९॥
अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च। परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः ॥१२-९१-३०॥
कुलेषु पापरक्षांसि जायन्ते वर्णसङ्करात्। अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः ॥१२-९१-३१॥
एते चान्ये च जायन्ते यदा राजा प्रमाद्यति। तस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते ॥१२-९१-३२॥
क्षत्रियस्य प्रमत्तस्य दोषः सञ्जायते महान्। अधर्माः सम्प्रवर्तन्ते प्रजासङ्करकारकाः ॥१२-९१-३३॥
अशीते विद्यते शीतं शीते शीतं न विद्यते। अवृष्टिरतिवृष्टिश्च व्याधिश्चाविशति प्रजाः ॥१२-९१-३४॥
नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथापरे। उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः ॥१२-९१-३५॥
अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति। प्रजाश्च तस्य क्षीयन्ते ताश्च सोऽनु विनश्यति ॥१२-९१-३६॥
द्वावाददाते ह्येकस्य द्वयोश्च बहवोऽपरे। कुमार्यः सम्प्रलुप्यन्ते तदाहुर्नृपदूषणम् ॥१२-९१-३७॥
ममैतदिति नैकस्य मनुष्येष्ववतिष्ठते। त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति ॥१२-९१-३८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.