Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.089
युधिष्ठिर उवाच॥
यदा राजा समर्थोऽपि कोशार्थी स्यान्महामते। कथं प्रवर्तेत तदा तन्मे ब्रूहि पितामह ॥१२-८९-१॥
भीष्म उवाच॥
यथादेशं यथाकालमपि चैव यथाबलम्। अनुशिष्यात्प्रजा राजा धर्मार्थी तद्धिते रतः ॥१२-८९-२॥
यथा तासां च मन्येत श्रेय आत्मन एव च। तथा धर्म्याणि सर्वाणि राजा राष्ट्रे प्रवर्तयेत् ॥१२-८९-३॥
मधुदोहं दुहेद्राष्ट्रं भ्रमरान्न विपातयेत्। वत्सापेक्षी दुहेच्चैव स्तनांश्च न विकुट्टयेत् ॥१२-८९-४॥
जलौकावत्पिबेद्राष्ट्रं मृदुनैव नराधिप। व्याघ्रीव च हरेत्पुत्रमदष्ट्वा मा पतेदिति ॥१२-८९-५॥
अल्पेनाल्पेन देयेन वर्धमानं प्रदापयेत्। ततो भूयस्ततो भूयः कामं वृद्धिं समाचरेत् ॥१२-८९-६॥
दमयन्निव दम्यानां शश्वद्भारं प्रवर्धयेत्। मृदुपूर्वं प्रयत्नेन पाशानभ्यवहारयेत् ॥१२-८९-७॥
सकृत्पाशावकीर्णास्ते न भविष्यन्ति दुर्दमाः। उचितेनैव भोक्तव्यास्ते भविष्यन्ति यत्नतः ॥१२-८९-८॥
तस्मात्सर्वसमारम्भो दुर्लभः पुरुषव्रजः। यथामुख्यान्सान्त्वयित्वा भोक्तव्य इतरो जनः ॥१२-८९-९॥
ततस्तान्भेदयित्वाथ परस्परविवक्षितान्। भुञ्जीत सान्त्वयित्वैव यथासुखमयत्नतः ॥१२-८९-१०॥
न चास्थाने न चाकाले करानेभ्योऽनुपातयेत्। आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि ॥१२-८९-११॥
उपायान्प्रब्रवीम्येतान्न मे माया विवक्षिता। अनुपायेन दमयन्प्रकोपयति वाजिनः ॥१२-८९-१२॥
पानागाराणि वेशाश्च वेशप्रापणिकास्तथा। कुशीलवाः सकितवा ये चान्ये केचिदीदृशाः ॥१२-८९-१३॥
नियम्याः सर्व एवैते ये राष्ट्रस्योपघातकाः। एते राष्ट्रे हि तिष्ठन्तो बाधन्ते भद्रिकाः प्रजाः ॥१२-८९-१४॥
न केनचिद्याचितव्यः कश्चित्किञ्चिदनापदि। इति व्यवस्था भूतानां पुरस्तान्मनुना कृता ॥१२-८९-१५॥
सर्वे तथा न जीवेयुर्न कुर्युः कर्म चेदिह। सर्व एव त्रयो लोका न भवेयुरसंशयम् ॥१२-८९-१६॥
प्रभुर्नियमने राजा य एतान्न नियच्छति। भुङ्क्ते स तस्य पापस्य चतुर्भागमिति श्रुतिः ॥ तथा कृतस्य धर्मस्य चतुर्भागमुपाश्नुते ॥१२-८९-१७॥
स्थानान्येतानि सङ्गम्य प्रसङ्गे भूतिनाशनः। कामप्रसक्तः पुरुषः किमकार्यं विवर्जयेत् ॥१२-८९-१८॥
आपद्येव तु याचेरन्येषां नास्ति परिग्रहः। दातव्यं धर्मतस्तेभ्यस्त्वनुक्रोशाद्दयार्थिना ॥१२-८९-१९॥
मा ते राष्ट्रे याचनका मा ते भूयुश्च दस्यवः। इष्टादातार एवैते नैते भूतस्य भावकाः ॥१२-८९-२०॥
ये भूतान्यनुगृह्णन्ति वर्धयन्ति च ये प्रजाः। ते ते राष्ट्रे प्रवर्तन्तां मा भूतानामभावकाः ॥१२-८९-२१॥
दण्ड्यास्ते च महाराज धनादानप्रयोजनाः। प्रयोगं कारयेयुस्तान्यथा बलिकरांस्तथा ॥१२-८९-२२॥
कृषिगोरक्ष्यवाणिज्यं यच्चान्यत्किञ्चिदीदृशम्। पुरुषैः कारयेत्कर्म बहुभिः सह कर्मिभिः ॥१२-८९-२३॥
नरश्चेत्कृषिगोरक्ष्यं वाणिज्यं चाप्यनुष्ठितः। संशयं लभते किञ्चित्तेन राजा विगर्ह्यते ॥१२-८९-२४॥
धनिनः पूजयेन्नित्यं यानाच्छादनभोजनैः। वक्तव्याश्चानुगृह्णीध्वं पूजाः सह मयेति ह ॥१२-८९-२५॥
अङ्गमेतन्महद्राज्ञां धनिनो नाम भारत। ककुदं सर्वभूतानां धनस्थो नात्र संशयः ॥१२-८९-२६॥
प्राज्ञः शूरो धनस्थश्च स्वामी धार्मिक एव च। तपस्वी सत्यवादी च बुद्धिमांश्चाभिरक्षति ॥१२-८९-२७॥
तस्मादेतेषु सर्वेषु प्रीतिमान्भव पार्थिव। सत्यमार्जवमक्रोधमानृशंस्यं च पालय ॥१२-८९-२८॥
एवं दण्डं च कोशं च मित्रं भूमिं च लप्स्यसे। सत्यार्जवपरो राजन्मित्रकोशसमन्वितः ॥१२-८९-२९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.