Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.097
भीष्म उवाच॥
नाधर्मेण महीं जेतुं लिप्सेत जगतीपतिः। अधर्मविजयं लब्ध्वा कोऽनुमन्येत भूमिपः ॥१२-९७-१॥
अधर्मयुक्तो विजयो ह्यध्रुवोऽस्वर्ग्य एव च। सादयत्येष राजानं महीं च भरतर्षभ ॥१२-९७-२॥
विशीर्णकवचं चैव तवास्मीति च वादिनम्। कृताञ्जलिं न्यस्तशस्त्रं गृहीत्वा न विहिंसयेत् ॥१२-९७-३॥
बलेनावजितो यश्च न तं युध्येत भूमिपः। संवत्सरं विप्रणयेत्तस्माज्जातः पुनर्भवेत् ॥१२-९७-४॥
नार्वाक्संवत्सरात्कन्या स्प्रष्टव्या विक्रमाहृता। एवमेव धनं सर्वं यच्चान्यत्सहसाहृतम् ॥१२-९७-५॥
न तु वन्ध्यं धनं तिष्ठेत्पिबेयुर्ब्राह्मणाः पयः। युञ्जीरन्वाप्यनडुहः क्षन्तव्यं वा तदा भवेत् ॥१२-९७-६॥
राज्ञा राजैव योद्धव्यस्तथा धर्मो विधीयते। नान्यो राजानमभ्यसेदराजन्यः कथञ्चन ॥१२-९७-७॥
अनीकयोः संहतयोर्यदीयाद्ब्राह्मणोऽन्तरा। शान्तिमिच्छन्नुभयतो न योद्धव्यं तदा भवेत् ॥ मर्यादां शाश्वतीं भिन्द्याद्ब्राह्मणं योऽभिलङ्घयेत् ॥१२-९७-८॥
अथ चेल्लङ्घयेदेनां मर्यादां क्षत्रियब्रुवः। अप्रशस्यस्तदूर्ध्वं स्यादनादेयश्च संसदि ॥१२-९७-९॥
या तु धर्मविलोपेन मर्यादाभेदनेन च। तां वृत्तिं नानुवर्तेत विजिगीषुर्महीपतिः ॥ धर्मलब्धाद्धि विजयात्को लाभोऽभ्यधिको भवेत् ॥१२-९७-१०॥
सहसा नाम्य भूतानि क्षिप्रमेव प्रसादयेत्। सान्त्वेन भोगदानेन स राज्ञां परमो नयः ॥१२-९७-११॥
भुज्यमाना ह्ययोगेन स्वराष्ट्रादभितापिताः। अमित्रान्पर्युपासीरन्व्यसनौघप्रतीक्षिणः ॥१२-९७-१२॥
अमित्रोपग्रहं चास्य ते कुर्युः क्षिप्रमापदि। संदुष्टाः सर्वतो राजन्राजव्यसनकाङ्क्षिणः ॥१२-९७-१३॥
नामित्रो विनिकर्तव्यो नातिच्छेद्यः कथञ्चन। जीवितं ह्यप्यतिच्छिन्नः सन्त्यजत्येकदा नरः ॥१२-९७-१४॥
अल्पेनापि हि संयुक्तस्तुष्यत्येवापराधिकः। शुद्धं जीवितमेवापि तादृशो बहु मन्यते ॥१२-९७-१५॥
यस्य स्फीतो जनपदः सम्पन्नः प्रियराजकः। सन्तुष्टभृत्यसचिवो दृढमूलः स पार्थिवः ॥१२-९७-१६॥
ऋत्विक्पुरोहिताचार्या ये चान्ये श्रुतसंमताः। पूजार्हाः पूजिता यस्य स वै लोकजिदुच्यते ॥१२-९७-१७॥
एतेनैव च वृत्तेन महीं प्राप सुरोत्तमः। अन्वेव चैन्द्रं विजयं व्यजिगीषन्त पार्थिवाः ॥१२-९७-१८॥
भूमिवर्जं पुरं राजा जित्वा राजानमाहवे। अमृताश्चौषधीः शश्वदाजहार प्रतर्दनः ॥१२-९७-१९॥
अग्निहोत्राण्यग्निशेषं हविर्भाजनमेव च। आजहार दिवोदासस्ततो विप्रकृतोऽभवत् ॥१२-९७-२०॥
सराजकानि राष्ट्राणि नाभागो दक्षिणां ददौ। अन्यत्र श्रोत्रियस्वाच्च तापसस्वाच्च भारत ॥१२-९७-२१॥
उच्चावचानि वृत्तानि धर्मज्ञानां युधिष्ठिर। आसन्राज्ञां पुराणानां सर्वं तन्मम रोचते ॥१२-९७-२२॥
सर्वविद्यातिरेकाद्वा जयमिच्छेन्महीपतिः। न मायया न दम्भेन य इच्छेद्भूतिमात्मनः ॥१२-९७-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.