Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.096
युधिष्ठिर उवाच॥
अथ यो विजिगीषेत क्षत्रियः क्षत्रियं युधि। कस्तस्य धर्म्यो विजय एतत्पृष्टो ब्रवीहि मे ॥१२-९६-१॥
भीष्म उवाच॥
ससहायोऽसहायो वा राष्ट्रमागम्य भूमिपः। ब्रूयादहं वो राजेति रक्षिष्यामि च वः सदा ॥१२-९६-२॥
मम धर्म्यं बलिं दत्त किं वा मां प्रतिपत्स्यथ। ते चेत्तमागतं तत्र वृणुयुः कुशलं भवेत् ॥१२-९६-३॥
ते चेदक्षत्रियाः सन्तो विरुध्येयुः कथञ्चन। सर्वोपायैर्नियन्तव्या विकर्मस्था नराधिप ॥१२-९६-४॥
अशक्तं क्षत्रियं मत्वा शस्त्रं गृह्णात्यथापरः। त्राणायाप्यसमर्थं तं मन्यमानमतीव च ॥१२-९६-५॥
युधिष्ठिर उवाच॥
अथ यः क्षत्रियो राजा क्षत्रियं प्रत्युपाव्रजेत्। कथं स प्रतियोद्धव्यस्तन्मे ब्रूहि पितामह ॥१२-९६-६॥
भीष्म उवाच॥
नासंनद्धो नाकवचो योद्धव्यः क्षत्रियो रणे। एक एकेन वाच्यश्च विसृजस्व क्षिपामि च ॥१२-९६-७॥
स चेत्संनद्ध आगच्छेत्संनद्धव्यं ततो भवेत्। स चेत्ससैन्य आगच्छेत्ससैन्यस्तमथाह्वयेत् ॥१२-९६-८॥
स चेन्निकृत्या युध्येत निकृत्या तं प्रयोधयेत्। अथ चेद्धर्मतो युध्येद्धर्मेणैव निवारयेत् ॥१२-९६-९॥
नाश्वेन रथिनं यायादुदियाद्रथिनं रथी। व्यसने न प्रहर्तव्यं न भीताय जिताय च ॥१२-९६-१०॥
नेषुर्लिप्तो न कर्णी स्यादसतामेतदायुधम्। जयार्थमेव योद्धव्यं न क्रुध्येदजिघांसतः ॥१२-९६-११॥
साधूनां तु मिथोभेदात्साधुश्चेद्व्यसनी भवेत्। सव्रणो नाभिहन्तव्यो नानपत्यः कथञ्चन ॥१२-९६-१२॥
भग्नशस्त्रो विपन्नाश्वश्छिन्नज्यो हतवाहनः। चिकित्स्यः स्यात्स्वविषये प्राप्यो वा स्वगृहान्भवेत् ॥ निर्व्रणोऽपि च मोक्तव्य एष धर्मः सनातनः ॥१२-९६-१३॥
तस्माद्धर्मेण योद्धव्यं मनुः स्वायम्भुवोऽब्रवीत्। सत्सु नित्यं सतां धर्मस्तमास्थाय न नाशयेत् ॥१२-९६-१४॥
यो वै जयत्यधर्मेण क्षत्रियो वर्धमानकः। आत्मानमात्मना हन्ति पापो निकृतिजीवनः ॥१२-९६-१५॥
कर्म चैतदसाधूनामसाधुं साधुना जयेत्। धर्मेण निधनं श्रेयो न जयः पापकर्मणा ॥१२-९६-१६॥
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव। मूलान्यस्य प्रशाखाश्च दहन्समनुगच्छति ॥१२-९६-१७॥
पापेन कर्मणा वित्तं लब्ध्वा पापः प्रहृष्यति। स वर्धमानः स्तेयेन पापः पापे प्रसज्जति ॥१२-९६-१८॥
न धर्मोऽस्तीति मन्वानः शुचीनवहसन्निव। अश्रद्दधानभावाच्च विनाशमुपगच्छति ॥१२-९६-१९॥
स बद्धो वारुणैः पाशैरमर्त्य इव मन्यते। महादृतिरिवाध्मातः स्वकृतेन विवर्धते ॥१२-९६-२०॥
ततः समूलो ह्रियते नदीकूलादिव द्रुमः। अथैनमभिनिन्दन्ति भिन्नं कुम्भमिवाश्मनि ॥ तस्माद्धर्मेण विजयं कामं लिप्सेत भूमिपः ॥१२-९६-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.