12.098
युधिष्ठिर उवाच॥
क्षत्रधर्मान्न पापीयान्धर्मोऽस्ति भरतर्षभ। अभियाने च युद्धे च राजा हन्ति महाजनम् ॥१२-९८-१॥
अथ स्म कर्मणा येन लोकाञ्जयति पार्थिवः। विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ ॥१२-९८-२॥
भीष्म उवाच॥
निग्रहेण च पापानां साधूनां प्रग्रहेण च। यज्ञैर्दानैश्च राजानो भवन्ति शुचयोऽमलाः ॥१२-९८-३॥
उपरुन्धन्ति राजानो भूतानि विजयार्थिनः। त एव विजयं प्राप्य वर्धयन्ति पुनः प्रजाः ॥१२-९८-४॥
अपविध्यन्ति पापानि दानयज्ञतपोबलैः। अनुग्रहेण भूतानां पुण्यमेषां प्रवर्धते ॥१२-९८-५॥
यथैव क्षेत्रनिर्दाता निर्दन्वै क्षेत्रमेकदा। हिनस्ति कक्षं धान्यं च न च धान्यं विनश्यति ॥१२-९८-६॥
एवं शस्त्राणि मुञ्चन्तो घ्नन्ति वध्यानथैकदा। तस्यैषा निष्कृतिः कृत्स्ना भूतानां भावनं पुनः ॥१२-९८-७॥
यो भूतानि धनज्यानाद्वधात्क्लेशाच्च रक्षति। दस्युभ्यः प्राणदानात्स धनदः सुखदो विराट् ॥१२-९८-८॥
स सर्वयज्ञैरीजानो राजाथाभयदक्षिणैः। अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् ॥१२-९८-९॥
ब्राह्मणार्थे समुत्पन्ने योऽभिनिःसृत्य युध्यते। आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः ॥१२-९८-१०॥
अभीतो विकिरञ्शत्रून्प्रतिगृह्णञ्शरांस्तथा। न तस्मात्त्रिदशाः श्रेयो भुवि पश्यन्ति किञ्चन ॥१२-९८-११॥
तस्य यावन्ति शस्त्राणि त्वचं भिन्दन्ति संयुगे। तावतः सोऽश्नुते लोकान्सर्वकामदुहोऽक्षयान् ॥१२-९८-१२॥
न तस्य रुधिरं गात्रादावेधेभ्यः प्रवर्तते। स ह तेनैव रक्तेन सर्वपापैः प्रमुच्यते ॥१२-९८-१३॥
यानि दुःखानि सहते व्रणानामभितापने। न ततोऽस्ति तपो भूय इति धर्मविदो विदुः ॥१२-९८-१४॥
पृष्ठतो भीरवः सङ्ख्ये वर्तन्तेऽधमपूरुषाः। शूराच्छरणमिच्छन्तः पर्जन्यादिव जीवनम् ॥१२-९८-१५॥
यदि शूरस्तथा क्षेमे प्रतिरक्षेत्तथा भये। प्रतिरूपं जनाः कुर्युर्न च तद्वर्तते तथा ॥१२-९८-१६॥
यदि ते कृतमाज्ञाय नमस्कुर्युः सदैव तम्। युक्तं न्याय्यं च कुर्युस्ते न च तद्वर्तते तथा ॥१२-९८-१७॥
पुरुषाणां समानानां दृश्यते महदन्तरम्। सङ्ग्रामेऽनीकवेलायामुत्क्रुष्टेऽभिपतत्सु च ॥१२-९८-१८॥
पतत्यभिमुखः शूरः परान्भीरुः पलायते। आस्थायास्वर्ग्यमध्वानं सहायान्विषमे त्यजन् ॥१२-९८-१९॥
मा स्म तांस्तादृशांस्तात जनिष्ठाः पुरुषाधमान्। ये सहायान्रणे हित्वा स्वस्तिमन्तो गृहान्ययुः ॥१२-९८-२०॥
अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्रपुरोगमाः। त्यागेन यः सहायानां स्वान्प्राणांस्त्रातुमिच्छति ॥१२-९८-२१॥
तं हन्युः काष्ठलोष्टैर्वा दहेयुर्वा कटाग्निना। पशुवन्मारयेयुर्वा क्षत्रिया ये स्युरीदृशाः ॥१२-९८-२२॥
अधर्मः क्षत्रियस्यैष यच्छय्यामरणं भवेत्। विसृजञ्श्लेष्मपित्तानि कृपणं परिदेवयन् ॥१२-९८-२३॥
अविक्षतेन देहेन प्रलयं योऽधिगच्छति। क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः ॥१२-९८-२४॥
न गृहे मरणं तात क्षत्रियाणां प्रशस्यते। शौटीराणामशौटीरमधर्म्यं कृपणं च तत् ॥१२-९८-२५॥
इदं दुःखमहो कष्टं पापीय इति निष्टनन्। प्रतिध्वस्तमुखः पूतिरमात्यान्बहु शोचयन् ॥१२-९८-२६॥
अरोगाणां स्पृहयते मुहुर्मृत्युमपीच्छति। वीरो दृप्तोऽभिमानी च नेदृशं मृत्युमर्हति ॥१२-९८-२७॥
रणेषु कदनं कृत्वा ज्ञातिभिः परिवारितः। तीक्ष्णैः शस्त्रैः सुविक्लिष्टः क्षत्रियो मृत्युमर्हति ॥१२-९८-२८॥
शूरो हि सत्यमन्युभ्यामाविष्टो युध्यते भृशम्। कृत्यमानानि गात्राणि परैर्नैवावबुध्यते ॥१२-९८-२९॥
स सङ्ख्ये निधनं प्राप्य प्रशस्तं लोकपूजितम्। स्वधर्मं विपुलं प्राप्य शक्रस्यैति सलोकताम् ॥१२-९८-३०॥
सर्वो योधः परं त्यक्तुमाविष्टस्त्यक्तजीवितः। प्राप्नोतीन्द्रस्य सालोक्यं शूरः पृष्ठमदर्शयन् ॥१२-९८-३१॥