Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.103
युधिष्ठिर उवाच॥
जैत्र्या वा कानि रूपाणि भवन्ति पुरुषर्षभ। पृतनायाः प्रशस्तानि तानीहेच्छामि वेदितुम् ॥१२-१०३-१॥
भीष्म उवाच॥
जैत्र्या वा यानि रूपाणि भवन्ति पुरुषर्षभ। पृतनायाः प्रशस्तानि तानि वक्ष्यामि सर्वशः ॥१२-१०३-२॥
दैवं पूर्वं विकुरुते मानुषे कालचोदिते। तद्विद्वांसोऽनुपश्यन्ति ज्ञानदीर्घेण चक्षुषा ॥१२-१०३-३॥
प्रायश्चित्तविधिं चात्र जपहोमांश्च तद्विदः। मङ्गलानि च कुर्वन्तः शमयन्त्यहितान्यपि ॥१२-१०३-४॥
उदीर्णमनसो योधा वाहनानि च भारत। यस्यां भवन्ति सेनायां ध्रुवं तस्यां जयं वदेत् ॥१२-१०३-५॥
अन्वेनां वायवो वान्ति तथैवेन्द्रधनूंषि च। अनुप्लवन्ते मेघाश्च तथादित्यस्य रश्मयः ॥१२-१०३-६॥
गोमायवश्चानुलोमा वडा गृध्राश्च सर्वशः। आचरेयुर्यदा सेनां तदा सिद्धिरनुत्तमा ॥१२-१०३-७॥
प्रसन्नभाः पावक ऊर्ध्वरश्मिः; प्रदक्षिणावर्तशिखो विधूमः। पुण्या गन्धाश्चाहुतीनां प्रवान्ति; जयस्यैतद्भाविनो रूपमाहुः ॥१२-१०३-८॥
गम्भीरशब्दाश्च महास्वनाश्च; शङ्खाश्च भेर्यश्च नदन्ति यत्र। युयुत्सवश्चाप्रतीपा भवन्ति; जयस्यैतद्भाविनो रूपमाहुः ॥१२-१०३-९॥
इष्टा मृगाः पृष्ठतो वामतश्च; सम्प्रस्थितानां च गमिष्यतां च। जिघांसतां दक्षिणाः सिद्धिमाहु; र्ये त्वग्रतस्ते प्रतिषेधयन्ति ॥१२-१०३-१०॥
मङ्गल्यशब्दाः शकुना वदन्ति; हंसाः क्रौञ्चाः शतपत्राश्च चाषाः। हृष्टा योधाः सत्त्ववन्तो भवन्ति; जयस्यैतद्भाविनो रूपमाहुः ॥१२-१०३-११॥
शस्त्रैः पत्रैः कवचैः केतुभिश्च; सुभानुभिर्मुखवर्णैश्च यूनाम्। भ्राजिष्मती दुष्प्रतिप्रेक्षणीया; येषां चमूस्तेऽभिभवन्ति शत्रून् ॥१२-१०३-१२॥
शुश्रूषवश्चानभिमानिनश्च; परस्परं सौहृदमास्थिताश्च। येषां योधाः शौचमनुष्ठिताश्च; जयस्यैतद्भाविनो रूपमाहुः ॥१२-१०३-१३॥
शब्दाः स्पर्शास्तथा गन्धा विचरन्ति मनःप्रियाः। धैर्यं चाविशते योधान्विजयस्य मुखं तु तत् ॥१२-१०३-१४॥
इष्टो वामः प्रविष्टस्य दक्षिणः प्रविविक्षतः। पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधति ॥१२-१०३-१५॥
सम्भृत्य महतीं सेनां चतुरङ्गां युधिष्ठिर। साम्नैवावर्तने पूर्वं प्रयतेथास्तथो युधि ॥१२-१०३-१६॥
जघन्य एष विजयो यद्युद्धं नाम भारत। यादृच्छिको युधि जयो दैवो वेति विचारणम् ॥१२-१०३-१७॥
अपामिव महावेगस्त्रस्ता मृगगणा इव। दुर्निवार्यतमा चैव प्रभग्ना महती चमूः ॥१२-१०३-१८॥
भग्ना इत्येव भज्यन्ते विद्वांसोऽपि नकारणम्। उदारसारा महती रुरुसङ्घोपमा चमूः ॥१२-१०३-१९॥
परस्परज्ञाः संहृष्टास्त्यक्तप्राणाः सुनिश्चिताः। अपि पञ्चाशतिः शूरा मृद्नन्ति परवाहिनीम् ॥१२-१०३-२०॥
अथ वा पञ्च षट्सप्त सहिताः कृतनिश्चयाः। कुलीनाः पूजिताः सम्यग्विजयन्तीह शात्रवान् ॥१२-१०३-२१॥
संनिपातो न गन्तव्यः शक्ये सति कथञ्चन। सान्त्वभेदप्रदानानां युद्धमुत्तरमुच्यते ॥१२-१०३-२२॥
संसर्पणाद्धि सेनाया भयं भीरून्प्रबाधते। वज्रादिव प्रज्वलितादियं क्व नु पतिष्यति ॥१२-१०३-२३॥
अभिप्रयातां समितिं ज्ञात्वा ये प्रतियान्त्यथ। तेषां स्पन्दन्ति गात्राणि योधानां विषयस्य च ॥१२-१०३-२४॥
विषयो व्यथते राजन्सर्वः सस्थाणुजङ्गमः। शस्त्रप्रतापतप्तानां मज्जा सीदति देहिनाम् ॥१२-१०३-२५॥
तेषां सान्त्वं क्रूरमिश्रं प्रणेतव्यं पुनः पुनः। सम्पीड्यमाना हि परे योगमायान्ति सर्वशः ॥१२-१०३-२६॥
अन्तराणां च भेदार्थं चारानभ्यवचारयेत्। यश्च तस्मात्परो राजा तेन सन्धिः प्रशस्यते ॥१२-१०३-२७॥
न हि तस्यान्यथा पीडा शक्या कर्तुं तथाविधा। यथा सार्धममित्रेण सर्वतः प्रतिबाधनम् ॥१२-१०३-२८॥
क्षमा वै साधुमाया हि न हि साध्वक्षमा सदा। क्षमायाश्चाक्षमायाश्च विद्धि पार्थ प्रयोजनम् ॥१२-१०३-२९॥
विजित्य क्षममाणस्य यशो राज्ञोऽभिवर्धते। महापराधा ह्यप्यस्मिन्विश्वसन्ति हि शत्रवः ॥१२-१०३-३०॥
मन्यते कर्शयित्वा तु क्षमा साध्विति शम्बरः। असन्तप्तं तु यद्दारु प्रत्येति प्रकृतिं पुनः ॥१२-१०३-३१॥
नैतत्प्रशंसन्त्याचार्या न च साधु निदर्शनम्। अक्लेशेनाविनाशेन नियन्तव्याः स्वपुत्रवत् ॥१२-१०३-३२॥
द्वेष्यो भवति भूतानामुग्रो राजा युधिष्ठिर। मृदुमप्यवमन्यन्ते तस्मादुभयभाग्भवेत् ॥१२-१०३-३३॥
प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत। प्रहृत्य च कृपायेत शोचन्निव रुदन्निव ॥१२-१०३-३४॥
न मे प्रियं यत्स हतः सम्प्राहैवं पुरो वचः। न चकर्थ च मे वाक्यमुच्यमानः पुनः पुनः ॥१२-१०३-३५॥
अहो जीवितमाकाङ्क्षे नेदृशो वधमर्हति। सुदुर्लभाः सुपुरुषाः सङ्ग्रामेष्वपलायिनः ॥१२-१०३-३६॥
कृतं ममाप्रियं तेन येनायं निहतो मृधे। इति वाचा वदन्हन्तॄन्पूजयेत रहोगतः ॥१२-१०३-३७॥
हन्तॄणां चाहतानां च यत्कुर्युरपराधिनः। क्रोशेद्बाहुं प्रगृह्यापि चिकीर्षञ्जनसङ्ग्रहम् ॥१२-१०३-३८॥
एवं सर्वास्ववस्थासु सान्त्वपूर्वं समाचरन्। प्रियो भवति भूतानां धर्मज्ञो वीतभीर्नृपः ॥१२-१०३-३९॥
विश्वासं चात्र गच्छन्ति सर्वभूतानि भारत। विश्वस्तः शक्यते भोक्तुं यथाकाममुपस्थितः ॥१२-१०३-४०॥
तस्माद्विश्वासयेद्राजा सर्वभूतान्यमायया। सर्वतः परिरक्षेच्च यो महीं भोक्तुमिच्छति ॥१२-१०३-४१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.