Mahabharata - Shanti Parva (महाभारत - शान्तिपर्वम्)
12.104
युधिष्ठिर उवाच॥
कथं मृदौ कथं तीक्ष्णे महापक्षे च पार्थिव। अरौ वर्तेत नृपतिस्तन्मे ब्रूहि पितामह ॥१२-१०४-१॥
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्। बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर ॥१२-१०४-२॥
बृहस्पतिं देवपतिरभिवाद्य कृताञ्जलिः। उपसङ्गम्य पप्रच्छ वासवः परवीरहा ॥१२-१०४-३॥
अहितेषु कथं ब्रह्मन्वर्तयेयमतन्द्रितः। असमुच्छिद्य चैवेनान्नियच्छेयमुपायतः ॥१२-१०४-४॥
सेनयोर्व्यतिषङ्गेण जयः साधारणो भवेत्। किं कुर्वाणं न मां जह्याज्ज्वलिता श्रीः प्रतापिनी ॥१२-१०४-५॥
ततो धर्मार्थकामानां कुशलः प्रतिभानवान्। राजधर्मविधानज्ञः प्रत्युवाच पुरंदरम् ॥१२-१०४-६॥
न जातु कलहेनेच्छेन्नियन्तुमपकारिणः। बालसंसेवितं ह्येतद्यदमर्षो यदक्षमा ॥ न शत्रुर्विवृतः कार्यो वधमस्याभिकाङ्क्षता ॥१२-१०४-७॥
क्रोधं बलममर्षं च नियम्यात्मजमात्मनि। अमित्रमुपसेवेत विश्वस्तवदविश्वसन् ॥१२-१०४-८॥
प्रियमेव वदेन्नित्यं नाप्रियं किञ्चिदाचरेत्। विरमेच्छुष्कवैरेभ्यः कण्ठायासं च वर्जयेत् ॥१२-१०४-९॥
यथा वैतंसिको युक्तो द्विजानां सदृशस्वनः। तान्द्विजान्कुरुते वश्यांस्तथा युक्तो महीपतिः ॥ वशं चोपनयेच्छत्रून्निहन्याच्च पुरंदर ॥१२-१०४-१०॥
न नित्यं परिभूयारीन्सुखं स्वपिति वासव। जागर्त्येव च दुष्टात्मा सङ्करेऽग्निरिवोत्थितः ॥१२-१०४-११॥
न संनिपातः कर्तव्यः सामान्ये विजये सति। विश्वास्यैवोपसंन्यास्यो वशे कृत्वा रिपुः प्रभो ॥१२-१०४-१२॥
सम्प्रधार्य सहामात्यैर्मन्त्रविद्भिर्महात्मभिः। उपेक्षमाणोऽवज्ञाते हृदयेनापराजितः ॥१२-१०४-१३॥
अथास्य प्रहरेत्काले किञ्चिद्विचलिते पदे। दण्डं च दूषयेदस्य पुरुषैराप्तकारिभिः ॥१२-१०४-१४॥
आदिमध्यावसानज्ञः प्रच्छन्नं च विचारयेत्। बलानि दूषयेदस्य जानंश्चैव प्रमाणतः ॥१२-१०४-१५॥
भेदेनोपप्रदानेन संसृजन्नौषधैस्तथा। न त्वेव चेलसंसर्गं रचयेदरिभिः सह ॥१२-१०४-१६॥
दीर्घकालमपि क्षान्त्वा विहन्यादेव शात्रवान्। कालाकाङ्क्षी यामयेच्च यथा विस्रम्भमाप्नुयुः ॥१२-१०४-१७॥
न सद्योऽरीन्विनिर्हन्याद्दृष्टस्य विजयोऽज्वरः। न यः शल्यं घट्टयति नवं च कुरुते व्रणम् ॥१२-१०४-१८॥
प्राप्ते च प्रहरेत्काले न स संवर्तते पुनः। हन्तुकामस्य देवेन्द्र पुरुषस्य रिपुं प्रति ॥१२-१०४-१९॥
यः कालो हि व्यतिक्रामेत्पुरुषं कालकाङ्क्षिणम्। दुर्लभः स पुनः कालः कालधर्मचिकीर्षुणा ॥१२-१०४-२०॥
और्जस्थ्यं विजयेदेवं सङ्गृह्णन्साधुसंमतान्। कालेन साधयेन्नित्यं नाप्राप्तेऽभिनिपीडयेत् ॥१२-१०४-२१॥
विहाय कामं क्रोधं च तथाहङ्कारमेव च। युक्तो विवरमन्विच्छेदहितानां पुरंदर ॥१२-१०४-२२॥
मार्दवं दण्ड आलस्यं प्रमादश्च सुरोत्तम। मायाश्च विविधाः शक्र साधयन्त्यविचक्षणम् ॥१२-१०४-२३॥
निहत्यैतानि चत्वारि मायां प्रतिविधाय च। ततः शक्नोति शत्रूणां प्रहर्तुमविचारयन् ॥१२-१०४-२४॥
यदैवैकेन शक्येत गुह्यं कर्तुं तदाचरेत्। यच्छन्ति सचिवा गुह्यं मिथो विद्रावयन्त्यपि ॥१२-१०४-२५॥
अशक्यमिति कृत्वा वा ततोऽन्यैः संविदं चरेत्। ब्रह्मदण्डमदृष्टेषु दृष्टेषु चतुरङ्गिणीम् ॥१२-१०४-२६॥
भेदं च प्रथमं युञ्ज्यात्तूष्णींदण्डं तथैव च। काले प्रयोजयेद्राजा तस्मिंस्तस्मिंस्तदा तदा ॥१२-१०४-२७॥
प्रणिपातं च गच्छेत काले शत्रोर्बलीयसः। युक्तोऽस्य वधमन्विच्छेदप्रमत्तः प्रमाद्यतः ॥१२-१०४-२८॥
प्रणिपातेन दानेन वाचा मधुरया ब्रुवन्। अमित्रमुपसेवेत न तु जातु विशङ्कयेत् ॥१२-१०४-२९॥
स्थानानि शङ्कितानां च नित्यमेव विवर्जयेत्। न च तेष्वाश्वसेद्द्रुग्ध्वा जाग्रतीह निराकृताः ॥१२-१०४-३०॥
न ह्यतो दुष्करं कर्म किञ्चिदस्ति सुरोत्तम। यथा विविधवृत्तानामैश्वर्यममराधिप ॥१२-१०४-३१॥
तथा विविधशीलानामपि सम्भव उच्यते। यतेत योगमास्थाय मित्रामित्रानवारयन् ॥१२-१०४-३२॥
मृदुमप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः। मातीक्ष्णो मामृदुर्भूस्त्वं तीक्ष्णो भव मृदुर्भव ॥१२-१०४-३३॥
यथा वप्रे वेगवति सर्वतःसम्प्लुतोदके। नित्यं विवरणाद्बाधस्तथा राज्यं प्रमाद्यतः ॥१२-१०४-३४॥
न बनूनभियुञ्जीत यौगपद्येन शात्रवान्। साम्ना दानेन भेदेन दण्डेन च पुरंदर ॥१२-१०४-३५॥
एकैकमेषां निष्पिंषञ्शिष्टेषु निपुणं चरेत्। न च शक्तोऽपि मेधावी सर्वानेवारभेन्नृपः ॥१२-१०४-३६॥
यदा स्यान्महती सेना हयनागरथाकुला। पदातियन्त्रबहुला स्वनुरक्ता षडङ्गिनी ॥१२-१०४-३७॥
यदा बहुविधां वृद्धिं मन्यते प्रतिलोमतः। तदा विवृत्य प्रहरेद्दस्यूनामविचारयन् ॥१२-१०४-३८॥
न साम दण्डोपनिषत्प्रशस्यते; न मार्दवं शत्रुषु यात्रिकं सदा। न सस्यघातो न च सङ्करक्रिया; न चापि भूयः प्रकृतेर्विचारणा ॥१२-१०४-३९॥
मायाविभेदानुपसर्जनानि; पापं तथैव स्पशसम्प्रयोगात्। आप्तैर्मनुष्यैरुपचारयेत; पुरेषु राष्ट्रेषु च सम्प्रयुक्तः ॥१२-१०४-४०॥
पुराणि चैषामनुसृत्य भूमिपाः; पुरेषु भोगान्निखिलानिहाजयन्। पुरेषु नीतिं विहितां यथाविधि; प्रयोजयन्तो बलवृत्रसूदन ॥१२-१०४-४१॥
प्रदाय गूढानि वसूनि नाम; प्रच्छिद्य भोगानवधाय च स्वान्। दुष्टाः स्वदोषैरिति कीर्तयित्वा; पुरेषु राष्ट्रेषु च योजयन्ति ॥१२-१०४-४२॥
तथैव चान्यै रतिशास्त्रवेदिभिः; स्वलङ्कृतैः शास्त्रविधानदृष्टिभिः। सुशिक्षितैर्भाष्यकथाविशारदैः; परेषु कृत्यानुपधारयस्व ॥१२-१०४-४३॥
इन्द्र उवाच॥
कानि लिङ्गानि दुष्टस्य भवन्ति द्विजसत्तम। कथं दुष्टं विजानीयादेतत्पृष्टो ब्रवीहि मे ॥१२-१०४-४४॥
बृहस्पतिरुवाच॥
परोक्षमगुणानाह सद्गुणानभ्यसूयति। परैर्वा कीर्त्यमानेषु तूष्णीमास्ते पराङ्मुखः ॥१२-१०४-४५॥
तूष्णीम्भावेऽपि हि ज्ञानं न चेद्भवति कारणम्। विश्वासमोष्ठसंदंशं शिरसश्च प्रकम्पनम् ॥१२-१०४-४६॥
करोत्यभीक्ष्णं संसृष्टमसंसृष्टश्च भाषते। अदृष्टितो विकुरुते दृष्ट्वा वा नाभिभाषते ॥१२-१०४-४७॥
पृथगेत्य समश्नाति नेदमद्य यथाविधि। आसने शयने याने भावा लक्ष्या विशेषतः ॥१२-१०४-४८॥
आर्तिरार्ते प्रिये प्रीतिरेतावन्मित्रलक्षणम्। विपरीतं तु बोद्धव्यमरिलक्षणमेव तत् ॥१२-१०४-४९॥
एतान्येवं यथोक्तानि बुध्येथास्त्रिदशाधिप। पुरुषाणां प्रदुष्टानां स्वभावो बलवत्तरः ॥१२-१०४-५०॥
इति दुष्टस्य विज्ञानमुक्तं ते सुरसत्तम। निशाम्य शास्त्रतत्त्वार्थं यथावदमरेश्वर ॥१२-१०४-५१॥
भीष्म उवाच॥
स तद्वचः शत्रुनिबर्हणे रत; स्तथा चकारावितथं बृहस्पतेः। चचार काले विजयाय चारिहा; वशं च शत्रूननयत्पुरंदरः ॥१२-१०४-५२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.